विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.37
एवं दैत्यवधं कृष्णो बलदेवसहायवान्
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥
क्षितेश् च भारं भगवान् फाल्गुनेन समं विभुः
अवतारयाम् आस हरिः समस्ताक्षौहिणीवधात् ॥
कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् ॥
व्यक्तो मानुष्यकं भावं देवदेवो जनार्दनः ॥
कृत्वा चान्यानि कार्याणि देवानां हितकाम्यया ॥
दुर्योधनस्य विप्रर्षे युधिष्ठिरपुरोगमैः ॥
पाण्डवैर् भेदम् उत्पन्नम् उपेक्षेत विभुस् तदा ॥
अन्यमोदछतः [??] कृष्णस् ततो वैरम् अकारयत् ॥
तत्र हत्वा कुरून् सर्वान् पाण्डवेयैः परस्परम् ॥
जगाम निर्वृतिं देवो जगतां पतिर् ईश्वरः ॥
अक्षोहिन्यो हतास् तत्र अष्टादश महामुने ॥
शापव्याजेन विप्राणाम् उपसंहृतवान् कुलम् ॥
उत्सृज्य द्वारकां कृष्णस् त्यक्त्वा मानुष्यम् आत्मभूः
सांशो विष्णुमयं स्थानं प्रविवेश पुनर् निजम् ॥
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम्
कथं च मानुषं देहम् उत्ससर्ज जनार्दनः ॥
विश्वामित्रस् तथा कण्वो नारदश् च महामुनिः ॥
दुर्वासाद्याश् च ऋषयस् तीर्थे पिण्डारके मुने ॥
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥
ततस् ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥
प्रसृतास् तान् मुनीन् ऊचुः प्रणिपातपुरःसरम्
इयं स्त्री पुत्रकामस्य बभ्रोः किं जनयिष्यति ॥
दिव्यज्ञानोपपन्नास् ते विप्रलब्धाः कुमारकैः ॥
मुनयः कुपिताः प्रोचुर् मुसलं जनयिष्यति ॥
सर्वयादवसंहार कारणं बलवत्तरम् ॥
येनाखिलकुलोत्सादो यादवानां भविष्यति ॥
कृत्रिमस् त्रिनाभितलं भीत्वाद्यैवं भविष्यति ॥
इत्य् उक्तास् तैः कुमारास् ते आचचक्षुर् यथातथम्
उग्रसेनाय मुसलं जज्ञे साम्बस्य चोदरात् ॥
तद् उग्रसेनो मुसलम् अयश्चूर्णम् अकारयत्
जज्ञे स चैरकाश् चूर्णः प्रक्षिप्तस् तैर् महोदधौ ॥
मुसलस्याथ लोहस्य चूर्णितस्यान्धकैर् द्विज
खण्डं चूर्णयितुं शेकुर् नैकं ते तोमराकृति ॥
तद् अप्य् अम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः
घातितस्योदरात् तस्य लुब्धो जग्राह तं जराः ॥
विज्ञातपरमार्थो ऽपि भगवान् मधुसूदनः
नैच्छत् तद् अन्यथाकर्तुं विधिना यत् समाहितम् ॥
देवैश् च प्रहितो दूतः प्रणिपत्याह केशवम्
रहस्य् एवम् अहं दूतः प्रहितो भगवन् सुरैः ॥
वस्वश्विमरुदादित्य रुद्रसाध्यादिभिः सह
विज्ञापयति वः शक्रस् तद् इदं श्रूयतां प्रभो ॥
भारावतारणार्थाय वर्षाणाम् अधिकं शतम्
भगवान् अवतीर्णो ऽत्र त्रिदशैः संप्रसादितः ॥
दुर्वृत्ता निहता दैत्या भुवो भारो ऽवतारितः
त्वया सनाथास् त्रिदशा भवन्तु त्रिदिवे सदा ॥
तद् अतीतं जगन्नाथ वर्षाणाम् अधिकं शतम्
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥
देवैर् विज्ञाप्यते चेदं अथात्रैव रतिस् तव
तत् स्थीयतां यथाकालम् आख्येयम् अनुजीविभिः ॥
यत् त्वम् आत्थाखिलं दूत वेद्म्य् एतद् अहम् अप्य् उत
प्रारब्ध एव हि मया यादवानाम् अपि क्षयः ॥
भुवो नाद्यापि भारो ऽयं यादवैर् अनिबर्हितैः
अवतार्य करोम्य् एतत् सप्तरात्रेण सत्वरः ॥
यथा गृहीतम् अम्भोधेर् दत्त्वाहं द्वारकाभुवम्
यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥
मनुष्यदेहम् उत्सृज्य संकर्षणसहायवान्
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥
जरासंधादयो ये ऽन्ये निहता भारहेतवः
क्षितेस् तेभ्यः कुमारो ऽपि यदूनां नापचीयते ॥
तद् एनं सुमहाभारम् अवतार्य क्षितेर् अहम्
यास्याम्य् अमरलोकस्य पालनाय ब्रवीहि तान् ॥
इत्य् उक्तो वासुदेवेन देवदूतः प्रणम्य तम्
मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥
भगवान् अप्य् अथोत्पातान् दिव्यभौमान्तरिक्षगान्
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥
तान् दृष्ट्वा यादवान् आह पश्यध्वम् अतिदारुणान्
महोत्पाताञ् छमायैषां प्रभासं याम मा चिरम् ॥
इत्य् उक्तवति गोविन्दे यातुकामे दिवं पुनः ॥
एवम् उक्ते तु कृष्णेन यादवप्रवरस् ततः ॥
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्
भगवन् यन् मया कार्यं तद् आज्ञापय साम्प्रतम्
मन्ये कुलम् इदं सर्वं भगवान् संहरिष्यति ॥
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया
बदरीकाश्रमं पुण्यं गन्धमादनपर्वते
नरनारायणस्थाने तत्पावितमहीतले ॥
मन्मना मत्प्रसादेन तत्र सिद्धिम् अवाप्स्यसि
अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् ॥
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥
मद्वेश्म चैतं मुक्त्वैव भयान् मत्तो जलाशयः ॥
तत्र संनिहितश् चाहं भक्तानां हितकाम्यया ॥
इत्य् उक्तः प्रणिपत्यैनं जगाम स तदोद्धवः
नरनारायणस्थानं केशवेनानुमोदितः ॥
ततस् ते यादवाः सर्वे रथान् आरुह्य शीघ्रगान्
प्रभासं प्रययुः सार्धं कृष्णरामादिभिर् द्विज ॥
प्राप्य प्रभासं प्रयताः स्नातास् ते कुकुरान्धकाः
चक्रुस् तत्र मुदा पानं वासुदेवानुमोदिताः ॥
पिबतां तत्र वै तेषां संघर्षेण परस्परम्
अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥
स्वं स्वं तु भुज्यतां तेषां कलहो निर्निमित्तयाः ॥
संघर्षो वा द्विजश्रेष्ठ तन् ममाख्यातुम् अर्हसि ॥
मृष्टं मदीयम् अन्नं ते न मृष्टम् इति भाषताम् ॥
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ तदा ॥
ततश् चान्योन्यम् अभ्येत्य क्रोधसंरक्तलोचनाः ॥
जघ्नुः परस्परं ते तु शस्त्रैर् दैवबलात्कृताः
क्षीणशस्त्राश् च जगृहुः प्रत्यासन्नाम् अथैरकाम् ॥
एरका तु गृहीता तैर् वज्रभूतेव लक्ष्यते
तया परस्परं जघ्नुः संप्रहारे सुदारुणे ॥
प्रद्युम्नसाम्बप्रमुखाः कृतवर्माथ सात्यकिः
अनिरुद्धादयश् चान्ये पृथुर् विपृथुर् एव च ॥
चारुवर्मा चारुकश् च तथाक्रूरादयो द्विज
एरकारूपिभिर् वज्रैस् ते निजघ्नुः परस्परम् ॥
निवारयाम् आस हरिर् यादवांस् ते च केशवम्
सहायं मेनिरे प्राप्तं ते निजघ्नुः परस्परम् ॥
कृष्णो ऽपि कुपितस् तेषाम् एरकामुष्टिम् आददे
वधाय सो ऽपि मुसलं मुष्टिर् लोहम् अभूत् तदा ॥
जघान तेन निःशेषान् यादवान् आततायिनः
जघ्नुश् च सहसाभ्येत्य तथान्ये वै परस्परम् ॥
ततश् चार्णवमध्येन जैत्रो ऽसौ चक्रिणो रथः
पश्यतो दारुकस्याशु हृतो ऽश्वैर् द्विजसत्तम ॥
चक्रं तथा गदा शार्ङ्ग तूणी शङ्खो ऽसिर् एव च
प्रदक्षिणं हरिं कृत्वा जग्मुर् आदित्यवर्त्मना ॥
क्षणेन नाभवत् कश्चिद् यादवानाम् अघातितः
ऋते कृष्णं महाबाहुं दारुकं च महामुने ॥
चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम्
ददृशाते मुखाच् चास्य निष्क्रामन्तं महोरगम् ॥
निष्क्रम्य स मुखात् तस्य महाभोगो भुजंगमः
प्रययाव् अर्णवं सिद्धैः पूज्यमानस् तथोरगैः ॥
ततो ऽर्घम् आदाय तदा जलधिः संमुखं ययौ
प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः ॥
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः
इदं सर्वं त्वम् आचक्ष्व वसुदेवोग्रसेनयोः ॥
निर्याणं बलभद्रस्य यादवानां तथा क्षयम्
योगे स्थित्वाहम् अप्य् एतत् परित्यक्ष्ये कलेवरम् ॥
वाच्यश् च द्वारकावासी जनः सर्वस् तथाहुकः
यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥
तस्माद् भवद्भिः सज्जैस् तु प्रतीक्ष्यो ह्य् अर्जुनागमः
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥
तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥
गत्वा च ब्रूहि कौन्तेयम् अर्जुनं वचनान् मम
पालनीयस् त्वया शक्त्या जनो ऽयं मत्परिग्रहः ॥
इत्य् अर्जुनेन सहितो द्वारवत्या भवाञ् जनम्
गृहीत्वा यातु वज्रश् च यदुराजो भविष्यति ॥
इत्य् उक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः
प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥
स गत्वा च तथा चक्रे द्वारकायां तथार्जुनम्
आनिनाय महाबुद्धिर् वज्रं चक्रे तथा नृपम् ॥
भगवान् अपि गोविन्दो वासुदेवात्मकं परम्
ब्रह्मात्मनि समारोप्य सर्वभूतेष्व् अधारयत् ॥
निष्प्रपञ्चे महाभाग संयोज्यात्मानम् आत्मनि ॥
तुर्यावस्थसलीलं च शेते स्म पुरुषोत्तमः ॥
संमानयन् द्विजवचो दुर्वासा यद् उवाच ह
योगयुक्तो ऽभवत् पादं कृत्वा जानुनि सत्तम ॥
आययौ च जरा नाम स तदा तत्र लुब्धकः
मुसलावशेषलोहैक सायकन्यस्ततोमरः ॥
स तत्पादं मृगाकारम् अवेक्ष्याराद् अवस्थितः
तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥
गतश् च ददृशे तत्र चतुर्बाहुधरं नरम्
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥
अजानता कृतम् इदं मया हरिणशङ्कया
क्षम्यतां नात्मपापेन दग्धं मां दग्धुम् अर्हसि ॥
ततस् तं भगवान् आह न ते ऽस्ति भयम् अण्व् अपि
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥
विमानम् आगतं सद्यस् तद्वाक्यसमनन्तरम्
आरुह्य प्रययौ स्वर्गं लुब्धकस् तत्प्रसादतः ॥
गते तस्मिन् स भगवान् संयोज्यात्मानम् आत्मनि
ब्रह्मभूते ऽव्यये ऽचिन्त्ये वासुदेवमये ऽमले ॥
अजन्मन्य् अजरे ऽनाशिन्य् अप्रमेये ऽखिलात्मनि
तत्याज मानुषं देहम् अतीत्य त्रिविधां गतिम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0