विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.36
मैत्रेय श्रूयतां तस्य बलस्य बलशालिनः
कृतं यद् अन्यत् तेनाभूत् तद् अपि श्रूयतां त्वया ॥
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः
सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥
वैरानुबन्धं बलवान् स चकार सुरान् प्रति
नरकं हतवान् कृष्णो देवराजेन चोदितः ॥
करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम्
यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ॥
ततो विध्वंसयाम् आस यज्ञान् अज्ञानमोहितः
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥
ददाह चपलो देशान् पुरग्रामान्तराणि च
क्वचिच् च पर्वताक्षेपैर् ग्रामादीन् समचूर्णयत् ॥
शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा
पुनश् चार्णवमध्यस्थः क्षोभयाम् आस सागरम् ॥
तेन विक्षोभितश् चाब्धिर् उद्वेलो द्विज जायते
प्लावयंस् तीरजान् ग्रामान् पुरादीन् अतिवेगवान् ॥
कामरूपी महारूपं कृत्वा सस्यान्य् अशेषतः
लुठन् भ्रमणसंमर्दैः संचूर्णयति वानरः ॥
तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना
निःस्वाध्यायवषट्कारं मैत्रेयासीत् सुदुःखितम् ॥
एकदा रैवतोद्याने पपौ पानं हलायुधः
रेवती च महाभागा तथैवान्या वरस्त्रियः ॥
उपगीयमानो विलसल् ललनामौलिमध्यगः
रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ॥
ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम्
मुसलं च चकारास्य संमुखं सविडम्बनम् ॥
तथैव योषितां तासां जहासाभिमुखं कपिः
पानपूर्णांश् च करकाञ् चिक्षेपाहत्य वै पदा ॥
ततः कोपपरीतात्मा भर्त्सयाम् आस तं बलः
तथापि तम् अवज्ञाय चक्रे किलकिलाध्वनिम् ॥
ततः समुत्थाय बलो जगृहे मुसलं रुषा
सो ऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥
चिक्षेप च स तां क्षिप्तां मुसलेन सहस्रधा
बिभेद यादवश्रेष्ठः सा पपात महीतले ॥
आपतन् मुसलं चासौ समुल्लङ्घ्य प्लवंगमः
वेगेनागम्य रोषेण तलेनोरस्य् अताडयत् ॥
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥
पतता तच्छरीरेण गिरेः शृङ्गम् अशीर्यत
मैत्रेय शतधा वज्रि वज्रेणेव हि ताडितम् ॥
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः
प्रशशंसुस् तथाभ्येत्य साध्व् एतत् ते महत् कृतम् ॥
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा
जगन् निराकृतं वीर दिष्ट्या स क्षयम् आगतः ॥
इत्य् उक्त्वा दिवम् आजग्मुर् देवा हृष्टाः सगुह्यकाः ॥
एवंविधान्य् अनेकानि बलदेवस्य धीमतः
कर्माण्य् अपरिमेयानि शेषस्य धरणीभृतः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0