विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.34
चक्रे कर्म महच् छौरिर् बिभ्राणो मानुषीं तनुम्
जिगाय शक्रं शर्वं च सर्वान् देवांश् च लीलया ॥
यच् चान्यद् अकरोत् कर्म दिव्यचेष्टाविधानकृत्
तत् कथ्यतां महाभाग परं कौतूहलं हि मे ॥
गदतो मम विप्रर्षे श्रूयताम् इदम् आदरात्
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥
पौण्ड्रको वासुदेवस् तु वासुदेवो ऽभवद् भुवि
अवतीर्णस् त्वम् इत्य् उक्तो जनैर् अज्ञानमोहितैः ॥
स मेने वासुदेवो ऽहम् अवतीर्णो महीतले
नष्टस्मृतिस् ततः सर्वं विष्णुचिह्नम् अचीकरत् ॥
दूतं च प्रेषयाम् आस कृष्णाय सुमहात्मने
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥
वासुदेवात्मकं मूढ मुक्त्वा गर्वं विशेषतः
आत्मनो जीवितार्थाय ततो मे प्रणतिं व्रज ॥
इत्य् उक्तः संप्रहस्यैनं दूतं प्राह जनार्दनः
निजचिह्नम् अहं चक्रं समुत्स्रक्ष्ये त्वयीति वै ॥
वाच्यश् च पौण्ड्रको गत्वा त्वया दूत वचो मम
ज्ञातस् त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् ॥
गृहीतचिह्न एवाहम् आगमिष्यामि ते पुरम्
समुत्स्रक्ष्यामि ते चक्रं निजचिह्नम् असंशयम् ॥
आज्ञापूर्वं च यद् इदम् आगच्छेति त्वयोदितम्
संपादयिष्ये श्वस् तुभ्यं तद् अप्य् एषो ऽविलम्बितम् ॥
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा
यथा त्वत्तो भयं भूयो न मे किंचिद् भविष्यति ॥
इत्य् उक्ते ऽपगते दूते संस्मृत्याभ्यागतं हरिः
गरुत्मन्तम् अथारुह्य त्वरितं तत्पुरं ययौ ॥
तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस् तदा
सर्वसैन्यपरीवारः पार्ष्णिग्राह उपाययौ ॥
ततो बलेन महता काशिराजबलेन च
पौण्ड्रको वासुदेवो ऽसौ केशवाभिमुखं ययौ ॥
तं ददर्श हरिर् दूराद् उदारस्यन्दने स्थितम्
चक्रहस्तं गदाखड्ग बाहुं पाणिगताम्बुजम् ॥
स्रग्धरं धृतशार्ङ्गं च सुपर्णरचितध्वजम्
वक्षःस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥
किरीटकुण्डलधरं पीतवासःसमन्वितम्
दृष्ट्वा तं भावगम्भीरं जहास गरुडध्वजः ॥
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज
निस्त्रिंशर्ष्टिगदाशूल शक्तिकार्मुकशालिना ॥
क्षणेन शार्ङ्गनिर्मुक्तैः शरैर् अरिविदारणैः
गदाचक्रनिपातैश् च सूदयाम् आस तद्बलम् ॥
काशिराजबलं चैव क्षयं नीत्वा जनार्दनः
उवाच पौण्ड्रकं मूढम् आत्मचिह्नोपलक्षणम् ॥
पौण्ड्रकोक्तं त्वया यत् तु दूतवक्त्रेण मां प्रति
समुत्सृजेति चिह्नानि तत् ते संपादयाम्य् अहम् ॥
चक्रम् एतत् समुत्सृष्टं गदेयं ते विसर्जिता
गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥
इत्य् उच्चार्य विमुक्तेन चक्रेणासौ विदारितः
पोथितो गदया भग्नो गरुत्मांश् च गरुत्मता ॥
ततो हाहाकृते लोके काशीनाम् अधिपो बली
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥
ततः शार्ङ्गधनुर्मुक्तैश् छित्त्वा तस्य शरैः शिरः
काशिपुर्यां स चिक्षेप कुर्वंल् लोकस्य विस्मयम् ॥
हत्वा च पौण्ड्रकं शौरिः काशिराजं च सानुगम्
पुनर् द्वारवतीं प्राप्तो रेमे स्वर्गगतो यथा ॥
तच्छिरः पतितं दृष्ट्वा तत्र काशिपतेः पुरे
जनः किम् एतद् इत्य् आह केनेत्य् अत्यन्तविस्मितः ॥
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस् ततः
पुरोहितेन सहितस् तोषयाम् आस शंकरम् ॥
अविमुक्ते महाक्षेत्रे तोषितस् तेन शंकरः
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥
स वव्रे भगवन् कृत्या पितृहन्तुर् वधाय मे
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान् महेश्वर ॥
एवं भविष्यतीत्य् उक्ते दक्षिणाग्नेर् अनन्तरम्
महाकृत्या समुत्तस्थौ तस्यैवाग्निनिवेशनात् ॥
ततो ज्वालाकरालास्या ज्वलत्केशकलापिका
कृष्ण कृष्णेति कुपिता कृत्या द्वारवतीं ययौ ॥
ताम् अवेक्ष्य जनस् त्रास विचलल्लोचनो मुने
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥
काशिराजसुतेनेयम् आराध्य वृषभध्वजम्
उत्पादिता महाकृत्येत्य् अवगम्याथ चक्रिणा ॥
जहि कृत्याम् इमाम् उग्रां वह्निज्वालाजटाकुलाम्
चक्रम् उत्सृष्टम् अक्षेषु क्रीडासक्तेन लीलया ॥
तदग्निमालाजटिल ज्वालोद्गारातिभीषणाम्
कृत्याम् अनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥
चक्रप्रतापविध्वस्ता कृत्या माहेश्वरी तदा
ननाश वेगिनी वेगात् तद् अप्य् अनुजगाम ताम् ॥
कृत्या वाराणसीम् एव प्रविवेश त्वरान्विता
विष्णुचक्रप्रतिहत प्रभावा मुनिसत्तम ॥
ततः काशिबलं भूरि प्रमथानां तथा बलम्
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥
शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद् बलम् ओजसा
कृत्यागर्भाम् अशेषां तां तदा वाराणसीं पुरीम् ॥
सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम्
अशेषकोशकोष्ठां तां दुर्निरीक्ष्यां सुरैर् अपि ॥
ज्वालापरिष्कृताशेष गृहप्राकारचत्वराम्
ददाह तद् धरेश् चक्रं सकलाम् एव तां पुरीम् ॥
अक्षीणामर्षम् अत्यल्प साध्यसाधनसस्पृहम्
तच् चक्रं प्रस्फुरद्दीप्ति विष्णोर् अभ्याययौ करम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0