भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.35

5.35.1

भूय एवाहम् इच्छामि बलभद्रस्य धीमतः
श्रोतुं पराक्रमं ब्रह्मन् तन् ममाख्यातुम् अर्हसि ॥

5.35.2

यमुनाकर्षणादीनि श्रुतानि भगवन् मया
तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥

5.35.3

मैत्रेय श्रूयतां कर्म यद् रामेणाभवत् कृतम्
अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥

5.35.4

दुर्योधनस्य तनयां स्वयंवरकृतक्षणाम्
बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥

5.35.5

ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः
भीष्मद्रोणादयश् चैनं बबन्धुर् युधि निर्जितम् ॥

5.35.6

तच् छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु
मैत्रेय चक्रुश् चक्रुश् च तान् निहन्तुं महोद्यमम् ॥

5.35.7

तान् निवार्य बलः प्राह मदलोलकलाक्षरम्
मोक्ष्यन्ति ते मद्वचनाद् यास्याम्य् एको हि कौरवान् ॥

5.35.8

बलदेवस् ततो गत्वा नगरं नागसाह्वयम्
बाह्योपवनमध्ये ऽभून् न विवेश च तत् पुरम् ॥

5.35.9

बलम् आगतम् आज्ञाय भूपा दुर्योधनादयः
गाम् अर्घ्यम् उदकं चैव रामाय प्रत्यवेदयन् ॥

5.35.10

गृहीत्वा विधिवत् सर्वं ततस् तान् आह कौरवान्
आज्ञापयत्य् उग्रसेनः साम्बम् आशु विमुञ्चत ॥

5.35.11

ततस् ते तद्वचः श्रुत्वा भीष्मद्रोणादयो द्विज
कर्णदुर्योधनाद्याश् च चुक्रुधुर् द्विजसत्तम ॥

5.35.12

ऊचुश् च कुपिताः सर्वे बाह्लिकाद्याश् च कौरवाः
अराज्यार्हं यदोर् वंशम् अवेक्ष्य मुसलायुधम् ॥

5.35.13

भो भोः किम् एतद् भवता बलभद्रेरितं वचः
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥

5.35.14

उग्रसेनो ऽपि यद्य् आज्ञां कौरवाणां प्रदास्यति
तद् अलं पाण्डुरैश् छत्रैर् नृपयोग्यैर् विडम्बितैः ॥

5.35.15

तद् गच्छ बल मा वा त्वं साम्बम् अन्यायचेष्टितम्
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥

5.35.16

प्रणतिर् या कृतास्माकं मान्यानां कुकुरान्धकैः
ननाम सा कृता केयम् आज्ञा स्वामिनि भृत्यतः ॥

5.35.17

गर्वम् आरोपिता यूयं समानासनभोजनैः
को दोषो भवतां नीतिर् यत् प्रीत्या नावलोकिता ॥

5.35.18

अस्माभिर् अर्घो भवतो यो ऽयं बल निवेदितः
प्रेम्णैतन् नैतद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥

5.35.19

इत्य् उक्त्वा कुरवः सर्वे न मुञ्चामो हरेः सुतम्
कृतैकनिश्चयास् तूर्णं विविशुर् गजसाह्वयम् ॥

5.35.20

मत्तः कोपेन चाघूर्णस् ततो ऽधिक्षेपजन्मना
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥

5.35.21

ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः
आस्फोटयाम् आस तदा दिशः शब्देन पूरयन् ॥

5.35.22

उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥

5.35.23

अहो मदावलेपो ऽयम् असाराणां दुरात्मनाम्
कौरवाणाम् आधिपत्यम् अस्माकं किल कालजम्
उग्रसेनस्य येनाज्ञां मन्यन्ते ऽद्यापि लङ्घनम् ॥

5.35.24ab

आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥

5.35.24ab*73

मारुतस्य मते स्थित्वा तुष्टे राज्ञां सभां ददौ ॥

5.35.24cd

समध्यास्ते सुधर्मां ताम् उग्रसेनः शचीपतेः ॥

5.35.24*74

उग्रसेनः समध्यास्ते सुधर्मां न शचीपतिः ॥

5.35.25

धिङ् मनुष्यशतोच्छिष्टे तुष्टिर् एषां नृपासने
पारिजाततरोः पुष्प मञ्जरीर् वनिताजनः
बिभर्ति यस्य भृत्यानां सो ऽप्य् एषां न महीपतिः ॥

5.35.26

समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु
अद्य निष्कौरवाम् उर्वीं कृत्वा यास्यामि तत्पुरीम् ॥

5.35.27

कर्णं दुर्योधनं द्रोणम् अद्य भीष्मं सबाह्लिकम्
दुःशासनादीन् भूरिं च भूरिश्रवसम् एव च ॥

5.35.28

सोमदत्तं शलं भीमम् अर्जुनं सयुधिष्ठिरम्
यमजौ कौरवांश् चान्यान् हत्वा साश्वरथद्विपान् ॥

5.35.29

वीरम् आदाय तं साम्बं सपत्नीकं ततः पुरीम्
द्वारकाम् उग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥

5.35.30ab

अथवा कौरवाधानीं समस्तैः कुरुभिः सह ॥

5.35.30ab*75

भारावतरणे शीघ्रं देवराजेन चोदितः ॥

5.35.30cd

भागीरथ्यां क्षिपाम्य् आशु नगरं नागसाह्वयम् ॥

5.35.31

इत्य् उक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम्
प्राकारवप्रे विन्यस्य चकर्ष मुसलायुधः ॥

5.35.32

आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम्
दृष्ट्वा संक्षुब्धहृदयाश् चुक्रुशुः सर्वकौरवाः ॥

5.35.33

राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया
उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥

5.35.34

एष साम्बः सपत्नीकस् तव निर्यातितो बल
अविज्ञातप्रभावाणां क्षम्यताम् अपराधिनाम् ॥

5.35.35

ततो निर्यातयाम् आसुः साम्बं पत्न्या समन्वितम्
निष्क्रम्य स्वपुरात् तूर्णं कौरवा मुनिपुंगव ॥

5.35.36

भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम्
क्षान्तम् एव मयेत्य् आह बलो बलवतां वरः ॥

5.35.37

अद्याप्य् आघूर्णिताकारं लक्ष्यते तत् पुरं द्विज
एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥

5.35.38

ततस् तु कौरवाः साम्बं संपूज्य हलिना सह
प्रेषयाम् आसुर् उद्वाह धनभार्यासमन्वितम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc