भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.33

5.33.1

बाणो ऽपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम्
देव बाहुसहस्रेण निर्विण्णो ऽहं विनाहवम् ॥

5.33.2

कच्चिन् ममैषां बाहूनां साफल्यजनको रणः
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥

5.33.3

मयूरध्वजभङ्गस् ते यदा बाण भविष्यति
पिशिताशिजनानन्दं प्राप्स्यसे त्वं तदा रणम् ॥

5.33.4

ततः प्रणम्य मुदितः शम्भुम् अभ्यागतो गृहम्
भग्नं च ध्वजम् आलोक्य हृष्टो हर्षान्तरं ययौ ॥

5.33.5

एतस्मिन्न् एव काले तु योगविद्याबलेन तम्
अनिरुद्धम् अथानिन्ये चित्रलेखा वराप्सराः ॥

5.33.6

कन्यान्तःपुरमध्ये तं रममाणं सहोषया
विज्ञाय रक्षिणो गत्वा शशंसुर् दैत्यभूपतेः ॥

5.33.7

व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना
जघान परिघं लोहम् आदाय परवीरहा ॥

5.33.8

हतेषु तेषु बाणो ऽपि रथस्थस् तद्वधोद्यतः
युध्यमानो यथाशक्ति यदा वीर्येण निर्जितः ॥

5.33.9

मायया युयुधे तेन स तदा मन्त्रिचोदितः
ततस् तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥

5.33.10

द्वारवत्यां क्व यातो ऽसाव् अनिरुद्धेति जल्पताम्
यदूनाम् आचचक्षे तं बद्धं बाणेन नारदः ॥

5.33.11

तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया
योषिता प्रत्ययं जग्मुर् यादवा नामरैर् इति ॥

5.33.12

ततो गरुडम् आरुह्य स्मृतमात्रागतं हरिः
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥

5.33.13

पुरीप्रवेशे प्रमथैर् युद्धम् आसीन् महात्मनः
ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः ॥

5.33.14

ततस् त्रिपादस् त्रिशिरा ज्वरो माहेश्वरो महान्
बाणरक्षार्थम् अत्यर्थं युयुधे शार्ङ्गधन्वना ॥

5.33.15

तद्भस्मस्पर्शसंभूत तापः कृष्णाङ्गसंगमात्
अवाप बलदेवो ऽपि श्रमम् आमीलितेक्षणः ॥

5.33.16

ततः स युद्ध्यमानस् तु सहदेवेन शार्ङ्गिणा
वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥

5.33.17

नारायणभुजाघात परिपीडनविह्वलम्
तं वीक्ष्य क्षम्यताम् अस्येत्य् आह देवः पितामहः ॥

5.33.18

ततश् च क्षान्तम् एवेति प्रोक्त्वा तं वैष्णवं ज्वरम्
आत्मन्य् एव लयं निन्ये भगवान् मधुसूदनः ॥

5.33.18*67:1

एवम् उक्तो भगवता प्रणिपत्य ज्वरो ऽब्रवीत् ॥

5.33.18*67:2

देवदेव महादेव प्रणतार्तिहराच्युत ॥

5.33.19

मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः
विज्वरास् ते भविष्यन्तीत्य् उक्त्वा चैनं ययौ ज्वरः ॥

5.33.20

ततो ऽग्नीन् भगवान् पञ्च जित्वा नीत्वा तथा क्षयम्
दानवानां बलं विष्णुश् चूर्णयाम् आस लीलया ॥

5.33.21

ततः समस्तसैन्येन दैतेयानां बलेः सुतः
युयुधे शंकरश् चैव कार्तिकेयश् च शौरिणा ॥

5.33.22

हरिशंकरयोर् युद्धम् अतीवासीत् सुदारुणम्
चुक्षुभुः सकला लोकाः यत्रास्त्रांशुप्रतापिताः ॥

5.33.23

प्रलयो ऽयम् अशेषस्य जगतो नूनम् आगतः
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥

5.33.23*68:1

देवाश् च भयसंत्रस्ताः प्रार्थयन्तस् ततो हरिम् ॥

5.33.23*68:2

प्रार्थितः शंकरश् चापि पराजयं गृहीतवान् ॥

5.33.24

जृम्भणास्त्रेण गोविन्दो जृम्भयाम् आस शंकरम्
ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः ॥

5.33.25

जृम्भाभिभूतस् तु हरो रथोपस्थ उपाविशत्
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥

5.33.26

गरुडक्षतवाहश् च प्रद्युम्नास्त्रनिपीडितः
कृष्णहुंकारनिर्धूत शक्तिश् चापययौ गुहः ॥

5.33.26*69

प्रमथानां ततः सैन्यं बाणवर्षाद् अनीनशत् ॥

5.33.27

जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥

5.33.28

नन्दीशसंगृहीताश्वम् अधिरूढो महारथम्
बाणस् तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥

5.33.29

बलभद्रो महावीर्यो बाणसैन्यम् अनेकधा
विव्याध बाणैः प्रभ्रश्य धर्मतश् चापलायत ॥

5.33.30

आकृष्य लाङ्गलाग्रेण मुसलेनावपोथितम्
बलं बलेन ददृशे बाणो बाणैश् च चक्रिणा ॥

5.33.31

ततः कृष्णस्य बाणेन युद्धम् आसीत् समन्ततः ॥

5.33.32

परस्परम् इषून् दीप्तान् कायत्राणविभेदकान्
कृष्णश् चिच्छेद बाणैस् तान् बाणेन प्रहितान् शरान्
बिभेद केशवं बाणो बाणं विव्याध चक्रभृत् ॥

5.33.33

मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया
परस्परं क्षतिपरौ परमामर्षिणौ द्विज ॥

5.33.34

छिद्यमानेष्व् अशेषेषु शरेष्व् अस्त्रे च सीदति
प्राचुर्येण हरिर् बाणं हन्तुं चक्रे ततो मनः ॥

5.33.35

ततो ऽर्कशतसंघात तेजसः सदृशद्युतिः
जग्राह दैत्यचक्रारिर् हरिश् चक्रं सुदर्शनम् ॥

5.33.36

मुञ्चतो बाणनाशाय तच् चक्रं मधुविद्विषः
नग्ना दैतेयविद्याभूत् कोटवी पुरतो हरेः ॥

5.33.37

ताम् अग्रतो हरिर् दृष्ट्वा मीलिताक्षः सुदर्शनम्
मुमोच बाणम् उद्दिश्य छेत्तुं बाहुवनं रिपोः ॥

5.33.38

क्रमेण तत् तु बाहूनां बाणस्याच्युतचोदितम्
छेदं चक्रे ऽसुरापास्त शस्त्रौघक्षपणादृतम् ॥

5.33.39

छिन्ने बाहुवने तत् तु करस्थं मधुसूदनः
मुमुक्षुर् बाणनाशाय विज्ञातस् त्रिपुरद्विषा ॥

5.33.40

स उपेत्याह गोविन्दं सामपूर्वम् उमापतिः
विलोक्य बाणं दोर्दण्डच् छेदासृक्स्राववर्षिणम् ॥

5.33.41

कृष्ण कृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम्
परेशं परमात्मानम् अनादिनिधनं परम् ॥

5.33.42

देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका
लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥

5.33.43

तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो
तत् त्वया नानृतं कार्यं यन् मया व्याहृतं वचः ॥

5.33.44

अस्मत्संश्रयवृद्धो ऽयं नापराध्यस् तवाव्यय
मया दत्तवरो दैत्यस् ततस् त्वां क्षमयाम्य् अहम् ॥

5.33.45

इत्य् उक्तः प्राह गोविन्दः शूलपाणिम् उमापतिम्
प्रसन्नवदनो भूत्वा गतामर्षो ऽसुरं प्रति ॥

5.33.46

युष्मद्दत्तवरो बाणो जीवताम् एष शंकर
त्वद्वाक्यगौरवाद् एतन् मया चक्रं निवर्तितम् ॥

5.33.47

त्वया यद् अभयं दत्तं तद् दत्तम् अखिलं मया
मत्तो ऽविभिन्नम् आत्मानं द्रष्टुम् अर्हसि शंकर ॥

5.33.48ab

यो ऽहं स त्वं जगच् चेदं सदेवासुरमानुषम् ॥

5.33.48ab*70

मत्तो नान्यद् अशेषं यत् तत् त्वं ज्ञातुम् इहार्हसि ॥

5.33.48cd

अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ॥

5.33.48*71:1

वदन्ति भेदं पश्यन्ति चावयोर् अन्तरं हर ॥

5.33.48*71:2

प्रसन्नो ऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥

5.33.49

इत्य् उक्त्वा प्रययौ कृष्णः प्राद्युम्निर् यत्र तिष्ठति
तद्बन्धफणिनो नेशुर् गरुडानिलशोषिताः ॥

5.33.50

ततो ऽनिरुद्धम् आरोप्य सपत्नीकं गरुत्मति
आजग्मुर् द्वारकां राम कार्ष्णिदामोदराः पुरीम् ॥

5.33.50*72:1

पुत्रपौत्रैः परिवृतस् तत्र रेमे जनार्दनः ॥

5.33.50*72:2

देवीभिः सततं विप्र भूभारतरणेच्छया ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc