विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.32
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्याः कथितास् तव
भानुं भैमरिकं चैव सत्यभामा व्यजायत ॥
दीप्तिमन्तः प्रयक्षाद्या रोहिण्यास् तनया हरेः
बभूवुर् जाम्बवत्यां च साम्बाद्या बाहुशालिनः ॥
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः
संग्रामजित्प्रधानास् तु शैब्यायाश् चाभवन् सुताः ॥
वृकाद्याश् च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान्
अवाप लक्ष्मणा पुत्राः कालिन्द्याश् च श्रुतादयः ॥
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः
अष्टायुतानि पुत्राणां सहस्राणां शतं तथा ॥
प्रद्युम्नः प्रथमस् तेषां सर्वेषां रुक्मिणीसुतः
प्रद्युम्नाद् अनिरुद्धो ऽभूद् वज्रस् तस्माद् अजायत ॥
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः
बाणस्य तनयाम् ऊषाम् उपयेमे द्विजोत्तम ॥
यत्र युद्धम् अभूद् घोरं हरिशंकरयोर् महत्
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥
कथं युद्धम् अभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः
कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥
एतत् सर्वं महाभाग ममाख्यातुं त्वम् अर्हसि
महत् कौतूहलं जातं कथां श्रोतुम् इमां हरेः ॥
उषा बाणसुता विप्र पार्वतीं सह शम्भुना
क्रीडन्तीम् उपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥
ततः सकलचित्तज्ञा गौरी ताम् आह भामिनीम्
अलम् अत्यर्थतापेन भर्त्रा त्वम् अपि रंस्यसे ॥
इत्युक्ते सा तदा चक्रे कदेति मतिम् आत्मनः
को वा भर्ता ममेत्य् एनां पुनर् अप्य् आह पार्वती ॥
वैशाखशुक्लद्वादश्यां स्वप्ने यो ऽभिभवं तव
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥
तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितम्
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ॥
ततः प्रबुद्धा पुरुषम् अपश्यन्ती समुत्सुका
क्व गतो ऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ॥
बाणस्य मन्त्री कुम्भाण्डः चित्रलेखा च तत्सुता
तस्याः सख्य् अभवत् सा च प्राह को ऽयं त्वयोच्यते ॥
यदा लज्जाकुला नास्यै कथयाम् आस सा सखी
तदा विश्वासम् आनीय सर्वम् एवाभ्यवादयत् ॥
विदितार्थां तु ताम् आह पुनर् ऊषा यथोदितम्
देव्या तथैव तत्प्राप्तौ यो ऽभ्युपायः कुरुष्व तम् ॥
दुर्विज्ञेयम् इदं वस्तु प्राप्तुं चापि न शक्यते ॥
तथापि कश्चित् कर्तव्यः उपकारः प्रिये तव ॥
सप्ताष्टदिनपर्यन्तं कालं तावत् प्रतीक्ष्यताम् ॥
इत्य् उक्त्वाभ्यन्तरगृहं गत्वोपायम् अथाकरोत् ॥
ततः पटे सुरान् दैत्यान् गन्धर्वांश् च प्रधानतः
मनुष्यांश् चाभिलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥
अपास्य सा तु गन्धर्वांस् तथोरगसुरासुरान्
मनुष्येषु ददौ दृष्टिं तेष्व् अप्य् अन्धकवृष्णिषु ॥
कृष्णरामौ विलोक्यासीत् सुभ्रूर् लज्जाजडेव सा
प्रद्युम्नदर्शने व्रीडा दृष्टिं निन्ये ऽन्यतो द्विज ॥
दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज
दृष्ट्वात्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥
सो ऽयं सो ऽयम् इतीत्य् उक्ते तया सा योगगामिनी ॥
चित्रलेखाब्रवीद् एनाम् उषां बाणसुतां तदा ॥
अयं कृष्णस्य पौत्रस् ते भर्ता देव्या प्रसादितः ॥
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥
प्राप्नोषि यदि भर्तारम् इमं प्राप्तं त्वयाखिलम् ॥
दुष्प्रवेशा पुरी पूर्वं द्वारका हरिपालिता ॥
तथापि यत्नाद् भर्तारम् आनयिष्यामि ते सखि ॥
रहस्यम् एतद् वक्तव्यं न कस्यचिद् अपि प्रिये ॥
अचिराद् आगमिष्यामि सहस्व विरहं मम ॥
ययौ द्वारवतीम् ऊषां समाश्वास्य ततः सखीम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0