विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.31
संस्तुतो भगवान् इत्थं देवराजेन केशवः
प्रहस्य भावगम्भीरम् उवाचेन्द्रं द्विजोत्तम ॥
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते
क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥
पारिजाततरुश् चायं नीयताम् उचितास्पदम्
गृहीतो ऽयं मया शक्र सत्यावचनकारणात् ॥
वज्रं चेदं गृहाण त्वं यद् ग्रस्तं प्रहितं त्वया
तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥
विमोहयसि माम् ईश मर्त्यो ऽहम् इति किं वदन्
जानीमस् त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥
यो ऽसि सो ऽसि जगत्त्राण प्रवृत्तौ नाथ संस्थितः
जगतः शल्यनिष्कर्षं करोष्य् असुरसूदन ॥
नीयतां पारिजातो ऽयं कृष्ण द्वारवतीं पुरीम्
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ॥
शङ्खचक्रगदापाणे शार्ङ्गासिधर माधव ॥
तथेत्य् उक्त्वा च देवेन्द्रम् आजगाम भुवं हरिः
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥
आगमिष्यति देवेश स्वयम् एव त्रिविष्टपम् ॥
ततः शङ्खम् उपाध्माय द्वारकोपरि संस्थितः
हर्षम् उत्पादयाम् आस द्वारकावासिनां द्विज ॥
अवतीर्याथ गरुडात् सत्यभामासहायवान्
निष्कुटे स्थापयाम् आस पारिजातं महातरुम् ॥
यम् अभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम्
वास्यते यस्य पुष्पोत्थ गन्धेनोर्वी त्रियोजनम् ॥
ततस् ते यादवाः सर्वे देहबन्धान् अमानुषान्
ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् ॥
किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम्
स्त्रियश् च कृष्णो जग्राह नरकस्य परिग्रहान् ॥
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः
ताः कन्या नरकेणासन् सर्वतो याः समाहृताः ॥
एकस्मिन्न् एव गोविन्दः काले तासां महामुने
जग्राह विधिवत् पाणीन् पृथग्गेहेषु धर्मतः ॥
षोडशस्त्रीसहस्राणि शतम् एकं तथाधिकम्
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ॥
एकैकश्येन ताः कन्या मेनिरे मधुसूदनः
ममैव पाणिग्रहणं भगवान् कृतवान् इति ॥
निशासु च जगत्स्रष्टा तासां गेहेषु केशवः
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0