भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.30

5.30.1

गरुडो वारुणं छत्रं तथैव मणिपर्वतम्
सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥

5.30.2

ततः शङ्खम् उपाध्मासीत् स्वर्गद्वारगतो हरिः
उपतस्थुस् ततो देवाः सार्घ्यपात्रा जनार्दनम् ॥

5.30.3

स देवैर् अर्चितः कृष्णो देवमातुर् निवेशनम्
सिताभ्रशिखराकारं प्रविश्य ददृशे ऽदितिम् ॥

5.30.4

स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥

5.30.5

ततः प्रीता जगन्माता धातारं जगतां हरिम्
तुष्टावादितिर् अव्यग्रा कृत्वा तत्प्रवणं मनः ॥

5.30.6

नमस् ते पुण्डरीकाक्ष भक्तानाम् अभयंकर
सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥

5.30.7

प्रणेता मनसो बुद्धेर् इन्द्रियाणां गुणात्मक
त्रिगुणातीत निर्द्वन्द्व शुद्ध सर्वहृदिस्थित ॥

5.30.8

सितदीर्घादिनिःशेष कल्पनापरिवर्जित
जन्मादिभिर् असंस्पृष्ट स्वप्नादिपरिवर्जित ॥

5.30.9

संध्या रात्रिर् अहो भूमिर् गगनं वायुर् अम्बु च
हुताशनो मनो बुद्धिर् भूतादिस् त्वं तथाच्युत ॥

5.30.10

सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर् भवान्
ब्रह्मविष्णुशिवाख्याभिर् आत्ममूर्तिभिर् ईश्वर ॥

5.30.11

देवा यक्षास् तथा दैत्या राक्षसाः सिद्धपन्नगाः
कूष्माण्डाश् च पिशाचाश् च गन्धर्वा मनुजास् तथा ॥

5.30.12ab

पशवो मृगाः पतंगाश् च तथैव च सरीसृपाः ॥

5.30.12ab*56:1

पशव उरगा मीना मृगाश् च वनजातयः ॥

5.30.12ab*56:2

कीटाश् चैव पतङ्गाश् च तथैव च सरीसृपाः ॥

5.30.12cd

वृक्षगुल्मलतावल्ली समस्ततृणजातयः ॥

5.30.13

स्थूला मध्यास् तथा सूक्ष्माः सूक्ष्मात् सूक्ष्मतराश् च ये
देहभेदा भवान् सर्वे ये केचित् पुद्गलाश्रयाः ॥

5.30.14

माया तवेयम् अज्ञात परमार्थातिमोहिनी
अनात्मन्य् आत्मविज्ञानं यया मूढो निरुध्यते ॥

5.30.14*57

अस्वे स्वम् इति भावो ऽत्र यत् पुंसाम् उपजायते ॥

5.30.15

अहं ममेति भावो ऽत्र यत् पुंसाम् अभिजायते
संसारमातुर् मायायास् तवैतन् नाथ चेष्टितम् ॥

5.30.16

यैः स्वधर्मपरैर् नाथ नरैर् आराधितो भवान्
ते तरन्त्य् अखिलाम् एतां मायाम् आत्मविमुक्तये ॥

5.30.17

ब्रह्माद्याः सकला देवा मनुष्याः पशवस् तथा
विष्णुमायामहावर्त मोहान्धतमसा वृताः ॥

5.30.18

आराध्य त्वाम् अभीप्सन्ते कामान् आत्मभवक्षयम्
यद् एते पुरुषा माया सैवेयं भगवंस् तव ॥

5.30.19

मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च
आराधितो न मोक्षाय मायाविलसितं हि तत् ॥

5.30.20

कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि
जायते यद् अपुण्यानां सो ऽपराधः स्वदोषजः ॥

5.30.21

तत् प्रसीदाखिलजगन् मायामोहकराव्यय
अज्ञानं ज्ञानसद्भाव भूतं भूतेश नाशय ॥

5.30.22

नमस् ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥

5.30.23

एतत् पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम्
न जानामि परं यत् ते प्रसीद परमेश्वर ॥

5.30.24

अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम्
माता देवि त्वम् अस्माकं प्रसीद वरदा भव ॥

5.30.25

एवम् अस्तु यथेच्छा ते त्वम् अशेषैः सुरासुरैः
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥

5.30.26

ततो ऽनन्तरम् एवास्य शक्राणीसहितादितिम्
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥

5.30.27

मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यम् एव च
भविष्यत्य् अनवद्याङ्गी सर्वकालं भविष्यसि ॥

5.30.28

अदित्या तु कृतानुज्ञो देवराजो जनार्दनम्
यथावत् पूजयाम् आस बहुमानपुरःसरम् ॥

5.30.28*58:1

शची च सत्यभामायै पारिजातस्य पुष्पकम् ॥

5.30.28*58:2

न ददौ मानुषीं मत्वा स्वयं पुष्पैर् अलंकृता ॥

5.30.29

ततो ददर्श कृष्णो ऽपि सत्यभामासहायवान्
देवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥

5.30.30

ददर्श च सुगन्धाढ्यं मञ्जरीपुष्पधारिणम्
शैत्याह्लादकरं ताम्र बालपल्लवशोभितम् ॥

5.30.31

मथ्यमाने ऽमृते जातं जातरूपोपमत्वचम्
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥

5.30.31*59

तुतोष परमप्रीत्या तरुराजम् अनुत्तमम् ॥

5.30.32

तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम
कस्मान् न द्वारकाम् एष नीयते कृष्ण पादपः ॥

5.30.33

यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे
मद्गेहनिष्कुटार्थाय तद् अयं नीयतां तरुः ॥

5.30.34

न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी
सत्ये यथा त्वम् इत्य् उक्तं त्वया कृष्णासकृत् प्रियम् ॥

5.30.35

सत्यं तद् यदि गोविन्द नोपचारकृतं तव
तद् अस्तु पारिजातो ऽयं मम गेहविभूषणम् ॥

5.30.36

बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम्
सपत्नीनाम् अहं मध्ये शोभेयम् इति कामये ॥

5.30.36*60:1

तथा xxx का भूत्वा रतिम् उत्पादयामि ते ॥

5.30.36*60:2

रुग्मिणीप्रभृतिभ्यस् ते देवीभ्यश् चातिसुन्दरी ॥

5.30.36*60:3

एतेन पारिजातेन भवामि तव कर्मणा ॥

5.30.36*60:4

यथाहं माधव विभो तथा माम् अधिकां कुरु ॥

5.30.37

इत्य् उक्तः स प्रहस्यैनां पारिजातं गरुत्मति
आरोपयाम् आस हरिस् तम् ऊचुर् वनरक्षिणः ॥

5.30.38

भो शची देवराजस्य महिषी तत्परिग्रहम्
पारिजातं न गोविन्द हर्तुम् अर्हसि पादपम् ॥

5.30.38*61:1

उत्पन्नो देवराजाय दत्तः सो ऽपि ददौ पुनः ॥

5.30.38*61:2

महिष्यै सुमहाभाग देव्यै शच्यै कुतूहलात् ॥

5.30.39

शचीविभूषणार्थाय देवैर् अमृतमन्थने
उत्पादितो ऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥

5.30.40

देवराजो मुखप्रेक्षो यस्यास् तस्याः परिग्रहम्
मौढ्यात् प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥

5.30.41

अवश्यम् अस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति
वज्रोद्यतकरं शक्रम् अनुयास्यन्ति चामराः ॥

5.30.42

तद् अलं सकलैर् देवैर् विग्रहेण तवाच्युत
विपाककटु यत् कर्म तन् न शंसन्ति पण्डिताः ॥

5.30.43

इत्य् उक्ते तैर् उवाचैतान् सत्यभामातिकोपिनी
का शची पारिजातस्य को वा शक्रः सुराधिपः ॥

5.30.44

सामान्यः सर्वलोकानां यद्य् एषो ऽमृतमन्थने
समुत्पन्नः सुराः कस्माद् एको गृह्णाति वासवः ॥

5.30.45

यथा सुधा यथैवेन्दुर् यथा श्रीर् वनरक्षिणः
सामान्यः सर्वलोकस्य पारिजातस् तथा द्रुमः ॥

5.30.46

भर्तृबाहुमहागर्वाद् रुणद्ध्य् एनम् अथो शची
तत् कथ्यताम् अलं क्षान्त्या सत्या हारयति द्रुमम् ॥

5.30.47

कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम
सत्यभामा वदत्य् एतद् इति गर्वोद्धताक्षरम् ॥

5.30.48

यदि त्वं दयिता भर्तुर् यदि वश्यः पतिस् तव
मद्भर्तुर् हरतो वृक्षं तत् कारय निवारणम् ॥

5.30.49

जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम्
पारिजातं तथाप्य् एनं मानुषी हारयामि ते ॥

5.30.50

इत्य् उक्ता रक्षिणो गत्वा शच्या ऊचुर् यथोदितम्
शची चोत्साहयाम् आस त्रिदशाधिपतिं पतिम् ॥

5.30.51

ततः समस्तदेवानां सैन्यैः परिवृतो हरिम्
प्रययौ पारिजातार्थम् इन्द्रो योधयितुं द्विज ॥

5.30.52

ततः परिघनिस्त्रिंश गदाशूलवरायुधाः
बभूवुस् त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥

5.30.53

ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम्
शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥

5.30.54

चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन्
मुमोच च शरव्रातं सहस्रायुतसंमितम् ॥

5.30.55

ततो दिशो नभश् चैव दृष्ट्वा शरशताचितम्
मुमुचुस् त्रिदशाः सर्वे अस्त्रशस्त्राण्य् अनेकशः ॥

5.30.56

एकैकं शस्त्रम् अस्त्रं च देवैर् मुक्तं सहस्रधा
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥

5.30.57

पाशं सलिलराजस्य समाकृष्योरगाशनः
चकार खण्डशश् चञ्च्वा बालपन्नगदेहवत् ॥

5.30.58

यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम्
पृथिव्यां पातयाम् आस भगवान् देवकीसुतः ॥

5.30.59

शिबिकां च धनेशस्य चक्रेण तिलशो विभुः
चकार शौरिर् अर्कं च दृष्टिदृष्टं हतौजसम् ॥

5.30.60

नीतो ऽग्निः शतशो बाणैर् द्राविता वसवो दिशः
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः ॥

5.30.61

साध्या विश्वे च मरुतो गन्धर्वाश् चैव सायकैः
शार्ङ्गेण प्रेरितैर् अस्ता व्योम्नि शाल्मलितूलवत् ॥

5.30.62

गरुत्मान् अपि वक्त्रेण पक्षाभ्यां नखराङ्कुरैः
भक्षयंस् ताडयन् देवान् दारयंश् च चचार वै ॥

5.30.63

ततः शरसहस्रेण देवेन्द्रमधुसूदनौ
परस्परं ववर्षाते धाराभिर् इव तोयदौ ॥

5.30.64

ऐरावतेन गरुडो युयुधे तत्र संकुले
देवैः समस्तैर् युयुधे शक्रेण च जनार्दनः ॥

5.30.65

छिन्नेष्व् अशेषबाणेषु शस्त्रेष्व् अस्त्रेषु च त्वरन्
जग्राह वासवो वज्रं कृष्णश् चक्रं सुदर्शनम् ॥

5.30.66

ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ ॥

5.30.67

क्षिप्तं वज्रम् अथेन्द्रेण जग्राह भगवान् हरिः
न मुमोच तथा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥

5.30.68

प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम्
सत्यभामाब्रवीद् वीरं पलायनपरायणम् ॥

5.30.69

त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम्
पारिजातस्रगाभोगा त्वाम् उपस्थास्यते शची ॥

5.30.70

कीदृशं देवराज्यं ते पारिजातस्रगुज्ज्वलाम्
अपश्यतो यथा पूर्वं प्रणयाभ्यागतां शचीम् ॥

5.30.71

अलं शक्र प्रयातेन न व्रीडां गन्तुम् अर्हसि
नीयतां पारिजातो ऽयं देवाः सन्तु गतव्यथाः ॥

5.30.72

पतिगर्वावलेपेन बहुमानपुरःसरम्
न ददर्श गृहायाताम् उपचारेण मां शची ॥

5.30.73

स्त्रीत्वाद् अगुरुचित्ताहं स्वभर्तृश्लाघनापरा
ततः कृतवती शक्र भवता सह विग्रहम् ॥

5.30.74

तद् अलं पारिजातेन परस्वेन हृतेन नः
रूपेण गर्विता सा तु भर्त्रा स्त्री का न गर्विता ॥

5.30.75

इत्य् उक्तो वै निववृते देवराजस् तया द्विज
प्राह चैनाम् अलं चण्डि सखि खेदातिविस्तरैः ॥

5.30.76

न चापि सर्गसंहार स्थितिकर्ताखिलस्य यः
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥

5.30.77

यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये यस्माद् यतश् च न भविष्यति सर्वभूतात्
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥

5.30.78

सकलभुवनसूतिर् मूर्तिर् अस्याणुसूक्ष्मा विदितसकलवेद्यैर् ज्ञायते यस्य नान्यैः
तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc