विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.29
द्वारवत्यां ततः शौरिं शक्रस् त्रिभुवनेश्वरः
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥
प्रविश्य द्वारकां सो ऽथ समेत्य हरिणा ततः
कथयाम् आस दैत्यस्य नरकस्य विचेष्टितम् ॥
त्वया नाथेन देवानां मनुष्यत्वे ऽपि तिष्ठता
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥
तपस्विजननाशाय सो ऽरिष्टो धेनुकस् तथा
प्रवृत्तो यस् तथा केशी ते सर्वे निहतास् त्वया ॥
कंसः कुवलयापीडः पूतना बालघातिनी
नाशं नीतास् त्वया सर्वे ये ऽन्ये जगदुपद्रवाः ॥
युष्मद्दोर्दण्डसद्बुद्धि परित्राते जगत्त्रये
यज्वियज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥
सो ऽहं साम्प्रतम् आयातो यन्निमित्तं जनार्दन
तच् छ्रुत्वा तत्प्रतीकार प्रयत्नं कर्तुम् अर्हसि ॥
भौमो ऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः
करोति सर्वभूतानाम् उपघातम् अरिंदम ॥
देवसिद्धासुरादीनां नृपाणां च जनार्दन
हृत्वा हि सो ऽसुरः कन्या रुरोध निजमन्दिरे ॥
छत्रं यत् सलिलस्रावि तज् जहार प्रचेतसः
मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥
अमृतस्राविणी दिव्ये मन्मातुः कृष्ण कुण्डले
जहार सो ऽसुरो ऽदित्या वाञ्छत्य् ऐरावतं गजम् ॥
दुर्नीतम् एतद् गोविन्द मया तस्य तवोदितम्
यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम् ॥
इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥
चिन्तयाम् आस च विभुर् मनसा पन्नगाशनम् ॥
संचिन्तितम् उपारुह्य गरुडं गगनेचरम्
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥
आरुह्यैरावतं नागं शक्रो ऽपि त्रिदिशालयम्
ततो जगाम मैत्रेय पश्यतां द्वारकौकसाम् ॥
प्राग्ज्योतिषपुरस्यासीत् समन्ताच् छतयोजनम्
आचिता मौरवैः पाशैः क्षुरान्तैर् भूर् द्विजोत्तम ॥
तांश् चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम्
ततो मुरुः समुत्तस्थौ तं जघान च केशवः ॥
मुरोस् तु तनयान् सप्त सहस्रांस् तांस् ततो हरिः
चक्रधाराग्निनिर्दग्धांश् चकार शलभान् इव ॥
हत्वा मुरुं हयग्रीवं तथा पञ्चजनं द्विज
प्राग्ज्योतिषपुरं धीमांस् त्वरावान् समुपाद्रवत् ॥
नरकेणास्य तत्राभून् महासैन्येन संयुगः
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः ॥
शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥
हते तु नरके भूमिर् गृहीत्वादितिकुण्डले
उपतस्थे जगन्नाथं वाक्यं चेदम् अथाब्रवीत् ॥
यदाहम् उद्धृता नाथ त्वया सूकरमूर्तिना
त्वत्स्पर्शसंभवः पुत्रस् तदायं मय्य् अजायत ॥
सो ऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः
गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥
भारावतरणार्थाय ममैव भगवान् इमम्
अंशेन लोकम् आयातः प्रसादसुमुखः प्रभो ॥
त्वं कर्ता च विकर्ता च संहर्ता प्रभवो ऽप्ययः
जगतां त्वं जगद्रूपः स्तूयते ऽच्युत किं तव ॥
व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् यदा
सर्वभूतात्मभूतस्य स्तूयते तव किं तदा ॥
परमात्मा त्वम् आत्मा च भूतात्मा चाव्ययो भवान्
यदा तदा स्तुतिर् नास्ति किमर्था ते प्रवर्तते ॥
प्रसीद सर्वभूतात्मन् नरकेण कृतं हि यत्
तत् क्षम्यताम् अदोषाय त्वत्सुतः स निपातितः ॥
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः
रत्नानि नरकावासाज् जग्राह मुनिसत्तम ॥
कन्यापुरे स कन्यानां षोडशातुलविक्रमः
शताधिकानि ददृशे सहस्राणि महामुने ॥
चतुर्दंष्ट्रान् गजांश् चोग्रान् षट्सहस्रान् स दृष्टवान्
काम्बोजानां तथाश्वानां नियुतान्य् एकविंशतिम् ॥
कन्यास् ताश् च तथा नागांस् तांश् चाश्वान् द्वारकां पुरीम्
प्रेषयाम् आस गोविन्दः सद्यो नरककिंकरैः ॥
ददृशे वारुणं छत्रं तथैव मणिपर्वतम्
आरोपयाम् आस हरिर् गरुडे पतगेश्वरे ॥
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान्
अदित्याः कुण्डले दातुं जगाम त्रिदिवालयम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0