भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.28

5.28.1

चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान्
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥

5.28.2

चारुविन्दं सुचारुं च चारुं च बलिनां वरम्
रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥

5.28.3

अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥

5.28.4

देवी जाम्बवती चापि रोहिणी कामरूपिणी
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥

5.28.5

सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी
षोडशासन् सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः ॥

5.28.5*53

प्रद्युम्नः प्रथमस् तेषां सर्वेषां रुक्मिणीसुतः ॥

5.28.6

प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम्
स्वयंवरस्थां जग्राह सा च तं तनयं हरेः ॥

5.28.7

तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः
अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिंदमः ॥

5.28.8

तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः
दौहित्राय ददौ रुक्मी तां स्पर्धन्न् अपि शौरिणा ॥

5.28.9ab

तस्या विवाहे रामाद्या यादवा हरिणा सह ॥

5.28.9ab*54

कल्याणार्थं ततः सर्वे ये चान्ये भूभृतस् तथा ॥

5.28.9cd

रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विज ॥

5.28.10

विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन् ॥

5.28.11

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत्
न जयामो बलं कस्माद् द्यूते नैनं महाद्युते ॥

5.28.12

तथेति तान् आह नृपान् रुक्मी बलसमन्वितः
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥

5.28.13

सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः
द्वितीये ऽपि पणे चान्यत् सहस्रं रुक्मिणा जितः ॥

5.28.14

ततो दशसहस्राणि निष्काणां पणम् आददे
बलभद्रो ऽजयत् तानि रुक्मी द्यूतविदां वरः ॥

5.28.15

ततो जहास स्वनवत् कलिङ्गाधिपतिर् द्विज
दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥

5.28.16

अविद्यो ऽयं मया द्यूते बलदेवः पराजितः
मुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान् ॥

5.28.17

दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम्
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥

5.28.18

ततः कोपपरीतात्मा निष्ककोटिं हलायुधः
ग्लहं जग्राह रुक्मी च तदर्थे ऽक्षान् अपातयत् ॥

5.28.19

अजयद् बलदेवस् तं प्राहोच्चैस् तं जितं मया
मयेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बल ॥

5.28.20

त्वयोक्तो ऽयं ग्लहः सत्यं न मयैषो ऽनुमोदितः
एवं त्वया चेद् विजितं मया न विजितं कथम् ॥

5.28.21

अथान्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥

5.28.22

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा
अनुक्त्वापि वचः किंचित् कृतं भवति कर्मणा ॥

5.28.23

ततो बलः समुत्थाय कोपसंरक्तलोचनः
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥

5.28.24

कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः
बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥

5.28.25

आकृष्य च महास्तम्भं जातरूपमयं बलः
जघान ये ऽन्ये तत्पक्षाः भूभृतः कुपितो बलः ॥

5.28.26

ततो हाहाकृतं सर्वं पलायनपरं द्विज
तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥

5.28.27

बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः
नोवाच किंचिन् मैत्रेय रुक्मिणीबलयोर् भयात् ॥

5.28.28

ततो ऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तम
द्वारकाम् आजगामाथ यदुचक्रं स केशवः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc