भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.27

5.27.1

शम्बरेण हृतो वीरः प्रद्युम्नः स कथं मुने
शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः ॥

5.27.1*51:1

यस् तेनापहृतः पूर्वं स कथं विजघान तम् ॥

5.27.1*51:2

एतद् विस्तरतः श्रोतुम् इच्छामि सकलं गुरो ॥

5.27.2

षष्ठे ऽह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात्
ममैष हन्तेति मुने हृतवान् कालशम्बरः ॥

5.27.3

हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे
कल्लोलजनितावर्ते सुघोरे मकरालये ॥

5.27.4

पतितं तत्र चैवैको मत्स्यो जग्राह बालकम्
न ममार च तस्यापि जठरानलदीपितः ॥

5.27.5

मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्विज
घातितो ऽसुरवर्याय शम्बराय निवेदितः ॥

5.27.6

तस्य मायावती नाम पत्नी सर्वगृहेश्वरी
कारयाम् आस सूदानाम् आधिपत्यम् अनिन्दिता ॥

5.27.7

दारिते मत्स्यजठरे ददृशे सातिशोभनम्
कुमारं मन्मथतरोर् दग्धस्य प्रथमाङ्कुरम् ॥

5.27.8

को ऽयं कथम् अयं मत्स्य जठरं समुपागतः
इत्य् एवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥

5.27.9

अयं समस्तजगतः सूतिसंहारकर्मणः
शम्बरेण हृतो विष्णोस् तनयः सूतिकागृहात् ॥

5.27.10

क्षिप्तः समुद्रे मत्स्येन निगीर्णस् ते वशं गतः
नररत्नम् इदं सुभ्रु विस्रब्धा परिपालय ॥

5.27.11

नारदेनैवम् उक्ता सा पालयाम् आस तं शिशुम्
बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥

5.27.12

स यदा यौवनाभोग भूषितो ऽभून् महामुने
साभिलाषा तदा सा तु बभूव गजगामिनी ॥

5.27.13

मायावती ददौ चास्मै मायाः सर्वा महात्मने
प्रद्युम्नायानुरागान्धा तन्न्यस्तहृदयेक्षणा ॥

5.27.13*52:1

अन्त्रान्तरे भीष्मकस्य दाक्षिण्या तस्य भूपतेः ॥

5.27.13*52:2

शुश्राव रुक्मिणीं कृष्णः कन्यां रूपेण विश्रुताम् ॥

5.27.13*52:3

सापि शुश्राव कंसारिं कृष्णं कमललोचनम् ॥

5.27.13*52:4

अभिलाषरसोदारं किम् अप्य् आस्ते मनस् तयोः ॥

5.27.13*52:5

भीष्मकस्यात्मजो रुक्मी भुजशाली रणोत्कटः ॥

5.27.13*52:6

वीरो बिभर्ति यः स्पर्धां भुवि भार्गवभीष्मयोः ॥

5.27.13*52:7

अनुजां रुक्मिणीं दृप्तः स कृष्णेनार्थितः सदा ॥

5.27.13*52:8

न ददौ कंसदासो ऽयम् इति द्वेषाद् उदाहरत् ॥

5.27.13*52:9

ततो जरासन्धगिरा शिशुपालाय भूभुजे ॥

5.27.13*52:10

तां दत्तम् उद्ययौ पुत्रीं भीष्मकः पुत्रसंमते ॥

5.27.13*52:11

वसुदेवस् वसुः पुत्रः शिशुपालो ऽथ तत्पुरीम् ॥

5.27.13*52:12

कृष्णादिभिर् वृष्णिवीरैर् वरयात्रानिमन्त्रितैः ॥

5.27.13*52:13

दन्तवक्रजरासन्ध मुख्यैश् च सह राजभिः ॥

5.27.13*52:14

स विवाहोत्सवे प्रायाद् भीष्मकेणाभिपूजितः ॥

5.27.13*52:15

भवानीपूजितव्यग्रां तत्र लोचनचन्द्रिकाम् ॥

5.27.13*52:16

ददर्श रुक्मिणीं कृष्णः कृष्णसारायतेक्षणाम् ॥

5.27.13*52:17

दृष्ट्वा ताम् अथ वैकुण्ठः सोत्कण्ठां मन्मथाकुलः ॥

5.27.13*52:18

जहार पश्यतां नॄणां सहसा भीष्मकात्मजाम् ॥

5.27.13*52:19

न हत्वा मलिनाचारं कृष्णं दुर्नयकारिणम् ॥

5.27.13*52:20

स्वपुरं समुपेष्यामि वीरव्रतपरिच्युतः ॥

5.27.13*52:21

इत्य् उक्त्वा रथम् आरुह्य वीरैर् अनुगतो नृपः ॥

5.27.13*52:22

वातोद्धूतपताकाग्रः स ययौ नादयन् दिशः ॥

5.27.13*52:23

दूराद् आयान्तम् आलोक्य रथस्थो रुक्मिणीसखः ॥

5.27.13*52:24

तस्थौ हरिः परावृत्त्य कर्णान्ताकृष्टकार्मुकः ॥

5.27.13*52:25

दिव्यास्त्रवर्षिणः शौरिच् छित्त्वा सर्वायुधान्य् अथ ॥

5.27.13*52:26

रुक्मिणं तीव्रनाराचैर् विव्याध हृदये निमिः ॥

5.27.13*52:27

मूर्च्छिते पतिते तस्मिन् विद्रुते राजमण्डले ॥

5.27.13*52:28

ररक्ष शौरिर् दयया रुक्मिणां रुक्मिणीगिरा ॥

5.27.13*52:29

याते द्वारवतीं कृष्णे विनिवृत्तेषु वृष्णिषु ॥

5.27.13*52:30

कुण्डिनाख्यं पुरं रुक्मी प्रविवेश न लज्जया ॥

5.27.13*52:31

प्रतिजयापरित्यक्तः पुरः संविदधे पुरम् ॥

5.27.13*52:32

पुरं भोजकटं नाम मानभङ्गं विचिन्तयन् ॥

5.27.13*52:33

जयश्रियम् इवादाय श्रियं मूर्त्यन्तरागताम् ॥

5.27.13*52:34

कामस् तु वासुदेवांशो दग्धः प्राक्छूद्रमन्युना ॥

5.27.13*52:35

देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥

5.27.13*52:36

स एव xx वैदर्भ्यां कृष्णवीर्यसमुद्भवः ॥

5.27.13*52:37

प्रद्युम्न इति विख्यातः अर्वतो नवमः पितुः ॥

5.27.13*52:38

तं शम्बरः कालरूपी हृत्वा तोकम् अनिर्दिशम् ॥

5.27.13*52:39

स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् ॥

5.27.13*52:40

तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह ॥

5.27.13*52:41

वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥

5.27.13*52:42

तं शम्बराय कैवर्ता उपाजहुर् उपायनम् ॥

5.27.13*52:43

सूदा महानसं नीत्वा विद्यन् स्वधितिना द्रुतम् ॥

5.27.13*52:44

दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् ॥

5.27.13*52:45

नारदो ऽकथयत् सर्वं तस्याः शङ्कितचेतसः ॥

5.27.13*52:46

बालस्य तत्त्वम् उत्पत्तिं मत्स्योदरनिवेशनम् ॥

5.27.13*52:47

सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी ॥

5.27.13*52:48

पत्युर् निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षिती ॥

5.27.13*52:49

निरूपिता शम्बरेण सा सूपौदनसाधने ॥

5.27.13*52:50

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥

5.27.13*52:51

नातिदीर्घेण कालेन स कार्ष्णी रूढयौवनः ॥

5.27.13*52:52

जनयाम् आस नारीणां वीक्षन्तीनां सुविभ्रमम् ॥

5.27.14

प्रसज्जन्तीं तु ताम् आह स कार्ष्णिः कमलेक्षणाम्
मातृभावाम् अपाहाय किम् एवं वर्तसे ऽन्यथा ॥

5.27.15

सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै
तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः ॥

5.27.16

क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान् मया
सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला ॥

5.27.17

इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत्
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥

5.27.18

हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः
सप्तमाया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम् ॥

5.27.19

तया जघान तं दैत्यं मायया कालशम्बरम्
उत्पत्य च तया सार्धम् आजगाम पितुर् गृहम् ॥

5.27.20

अन्तःपुरे निपतितं मायावत्या समन्वितम्
तं दृष्ट्वा कृष्णसंकल्पा बभूवुः कृष्णयोषितः ॥

5.27.21

रुक्मिणी चावदत् प्रेम्णा सास्रदृष्टिर् अनिन्दिता
धन्याया खल्व् अयं पुत्रो वर्तते नवयौवने ॥

5.27.22

अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति
सभाग्या जननी वत्स त्वया कापि विभूषिता ॥

5.27.23

अथवा यादृशः स्नेहो मम यादृग् वपुस् तव
हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥

5.27.24

एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः
अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥

5.27.25

एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः
हृतो येनाभवद् बालो भवत्याः सूतिकागृहात् ॥

5.27.26

इयं मायावती भार्या तनयस्यास्य ते सती
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ॥

5.27.27

मन्मथे तु गते नाशं तदुद्भवपरायणा
शम्बरं मोहयाम् आस मायारूपेण रूपिणी ॥

5.27.28

विहाराद्युपभोगेषु रूपं मायामयं शुभम्
दर्शयाम् आस दैत्यस्य तस्येयं मदिरेक्षणा ॥

5.27.29

कामो ऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥

5.27.30

ततो हर्षसमाविष्टा रुक्मिणी केशवस् तथा
नगरी च समस्ता सा साधु साध्व् इत्य् अभाषत ॥

5.27.31

चिरनष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम्
अवाप विस्मयं सर्वो द्वारवत्यां जनस् तदा ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc