विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.26
भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत्
रुक्मी तस्याभवत् पुत्रो रुक्मिणी च वराङ्गना ॥
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥
ददौ च शिशुपालाय जरासंधप्रचोदितः
भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः ॥
विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः
भीष्मकस्य पुरीं जग्मुः शिशुपालप्रियैषिणः ॥
कृष्णो ऽपि बलभद्राद्यैर् यादवैर् बहुभिर् वृतः
प्रययौ कुण्डिनं द्रष्टुं विवाहं चेदिभूभृतः ॥
अन्तःप्रविष्टा राजानः शत्रवः पूर्वम् आगताः ॥
इति मत्वा तथा कृष्णो बहिर् वा समकल्पयत् ॥
श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः
विपक्षभारम् आसज्य रामाद्येष्व् अथ बन्धुषु ॥
ततश् च पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः
शिशुपालजरासंध शाल्वाद्याश् च महीभृतः ॥
कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम्
निर्जिताश् च समागम्य रामाद्यैर् यदुपुंगवैः ॥
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम्
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः ॥
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम्
निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा ॥
हन्तुं कृतमतिः कृष्णो रुक्मिणं युद्धदुर्मदम् ॥
प्रणम्य याचितो ब्रह्म रुक्मिण्या भगवान् हरिः ॥
एक एव मम भ्राता न हन्तव्यस् त्वयाधुना ॥
क्रोधं नियम्य देवेश भ्रातृभिक्षा प्रदीयताम् ॥
इत्य् उक्तो ऽसौ परिष्वक्तः कृष्णेनाक्लिष्टकर्मणा ॥
रुक्मी भोजकटं नाम पुरं कृत्वावसत् तदा ॥
निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम्
राक्षसेन विवाहेन संप्राप्तां मधुसूदनः ॥
तस्यां जज्ञे ऽथ प्रद्युम्नो मदनांशः स वीर्यवान्
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0