विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.23
गार्ग्यं गोष्ठ्यां द्विजं श्यालः षण्ड इत्य् उक्तवान् द्विज
यदूनां संनिधौ सर्वे जहसुर् यादवास् ततः ॥
ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः
सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम् ॥
आराधयन् महादेवं सो ऽयश्चूर्णम् अभक्षयत्
ददौ वरं च तुष्टो ऽस्मै वर्षे द्वादशमे हरः ॥
सभाजयाम् आस च तं यवनेशो ह्य् अनात्मजः
तद्योषित्संगमाच् चास्य पुत्रो ऽभूद् अलिसंनिभः ॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान्
पप्रच्छ नारदस् तस्मै कथयाम् आस यादवान् ॥
म्लेच्छकोटिसहस्राणां सहस्रैः सो ऽभिसंवृतः
गजाश्वरथसंपन्नैश् चकार परमोद्यमम् ॥
प्रययौ चाव्यवच्छिन्नं छिन्नयानो दिने दिने
यादवान् प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥
कृष्णो ऽपि चिन्तयाम् आस क्षपितं यादवं बलम्
यवनेन रणे गम्यं मागधस्य भविष्यति ॥
मागधेन बलं क्षीणं स कालयवनो बली
हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा ॥
तस्माद् दुर्गं करिष्यामि यदूनाम् अरिदुर्जयम्
स्त्रियो ऽपि यत्र युध्येयुः किं पुनर् वृष्णिपुंगवाः ॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते तथा
यादवाभिभवं दुष्टा मा कुर्वंस् त्व् अरयो ऽधिकाः ॥
इति संचिन्त्य गोविन्दो योजनानि महोदधिम्
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥
महोद्यानां महावप्रां तडागशतशोभिताम्
प्राकारगृहसंबाधाम् इन्द्रस्येवामरावतीम् ॥
मथुरावासिनो लोकांस् तत्रानीय जनार्दनः
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥
बहिर् आवसिते सैन्ये मथुराया निरायुधः
निर्जगाम स गोविन्दो ददृशे यवनेश्वरम् ॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः
अनुयातो महायोगि चेतोभिः प्राप्यते न यः ॥
तेनानुयातः कृष्णो ऽपि प्रविवेश महागुहाम्
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥
सो ऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम्
पादेन ताडयाम् आस मत्वा कृष्णं सुदुर्मतिः ॥
उत्थाय मुचुकुन्दो ऽपि ददर्श यवनं नृपः ॥
दृष्टमात्रश् च तेनासौ जज्वाल यवनो ऽग्निना
तत्क्रोधजेन मैत्रेय भस्मीभूतश् च तत्क्षणात् ॥
स हि देवासुरे युद्धे गतो जित्वा महासुरान्
निद्रार्तः सुमहत् कालं निद्रां वव्रे वरं सुरान् ॥
प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम्
कस् त्वम् इत्य् आह सो ऽप्य् आह जातो ऽहं शशिनः कुले
वसुदेवस्य तनयो यदोर् वंशसमुद्भवः ॥
मुचुकुन्दो ऽपि तत्रासौ वृद्धगर्गवचो ऽस्मरत् ॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम्
प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वर ॥
पुरा गर्गेण कथितम् अष्टाविंशतिमे युगे
द्वापरान्ते हरेर् जन्म यदोर् वंशे भविष्यति ॥
स त्वं प्राप्तो न संदेहो मर्त्यानाम् उपकारकृत् ॥
तथा हि सुमहत् तेजो नालं सोढुम् अहं तव
तथा हि सजलाम्भोद नादधीरतरं तव
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः
न सेहुर् मम तेजस् ते त्वत्तेजो न सहाम्य् अहम् ॥
यः संस्मरति तस्यैतत् तेजस् त्वां शरणं गतः ॥
संसारपतितस्यैको जन्तोस् त्वं शरणं परम्
स प्रसीद प्रपन्नार्ति हन्तर् हर ममाशुभम् ॥
त्वं पयोनिधयः शैलाः सरितस् त्वं वनानि च
मेदिनी गगनं वायुर् आपो ऽग्निस् त्वं तथा मनः ॥
बुद्धिर् अव्याकृतं प्राणाः प्राणेशस् त्वं तथा पुमान्
पुंसः परतरं यच् च व्याप्य् अजन्मविकल्पवत् ॥
शब्दादिहीनम् अजरम् अमेयं क्षयवर्जितम्
अवृद्धिनाशं तद् ब्रह्म त्वम् आद्यन्तविवर्जितम् ॥
त्वत्तो ऽमराः सपितरो यक्षगन्धर्वकिंनराः
सिद्धाश् चाप्सरसस् त्वत्तो मनुष्याः पशवः खगाः ॥
सरीसृपा मृगाः सर्वे त्वत्तः सर्वे महीरुहाः ॥
स्थूला मध्यास् तथा सूक्ष्माः सूक्ष्मात् सूक्ष्मतराश् च ये ॥
यच् च भूतं भविष्यच् च किंचिद् अत्र चराचरम् ॥
अमूर्तं मूर्तम् अथवा स्थूलं सूक्ष्मतरं स्थितम्
तत् सर्वं त्वं जगत्कर्तर् नास्ति किंचित् त्वया विना ॥
मया संसारचक्रे ऽस्मिन् भ्रमता भगवन् सदा
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥
दुःखान्य् एव सुखानीति मृगतृष्णाजलाशया
मया नाथ गृहीतानि तानि तापाय चाभवन् ॥
राज्यम् उर्वी बलं कोशो मित्रपक्षस् तथात्मजाः
भार्या भृत्यजनो ये च शब्दाद्या विषयाः प्रभो ॥
सुखबुद्ध्या मया सर्वं गृहीतम् इदम् अव्यय
परिणामे तद् एवेश तापात्मकम् अभून् मम ॥
देवलोकगतिं प्राप्तो नाथ देवगणो ऽपि हि
मत्तः साहाय्यकामो ऽभूच् शाश्वती कुत्र निर्वृतिः ॥
त्वाम् अनाराध्य जगतां सर्वेषां प्रभवास्पदम्
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकम्
अवाप्य तापान् पश्यन्ति प्रेतराजाननं नराः ॥
ततो निजक्रियासूति नरकेष्व् अतिदारुणम्
प्राप्नुवन्ति नरा दुःखम् अस्वरूपविदस् तव ॥
अहम् अत्यन्तविषयी मोहितस् तव मायया
ममत्वगर्वगर्तान्तर् भ्रमामि परमेश्वर ॥
सो ऽहं त्वां शरणम् अपारम् ईशम् ईड्यं संप्राप्तः परमपदं यतो न किंचित्
संसारश्रमपरितापतप्तचेता निर्वाणे परिणतधाम्नि साभिलाषः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0