विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.22
जरासंधसुते कंस उपयेमे महाबलः
अस्तिं प्राप्तिं च मैत्रेय तयोर् भर्तृहणं हरिम् ॥
महाबलपरीवारो मगधाधिपतिर् बली
हन्तुम् अभ्याययौ कोपाज् जरासंधः स यादवम् ॥
उपेत्य मथुरां सो ऽथ रुरोध मगधेश्वरः
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर् वृतः ॥
निष्क्रम्याल्पपरीवाराव् उभौ रामजनार्दनौ
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥
ततो रामश् च कृष्णश् च चक्राते मतिम् उत्तमाम्
आयुधानां पुराणानाम् आदाने मुनिसत्तम ॥
अनन्तरं हरेः शार्ङ्गं तूणौ चाक्षयसायकौ
आकाशाद् आगतौ विप्र तथा कौमोदकी गदा ॥
हलं च बलभद्रस्य गगनाद् आगतं ज्वलत्
मनसाभिमतं विप्र सौनन्दं मुसलं तथा ॥
ततो युद्धे पराजित्य ससैन्यं मगधाधिपम्
पुरीं विविशतुर् वीराव् उभौ रामजनार्दनौ ॥
जिते तस्मिन् सुदुर्वृत्ते जरासंधे महामुने
जीवमाने गते कृष्णस् तं नामन्यत निर्जितम् ॥
पुनर् अप्य् आजगामाथ जरासंधो बलान्वितः
जितश् च रामकृष्णाभ्याम् अपक्रान्तो द्विजोत्तम ॥
दश चाष्टौ च संग्रामान् एवम् अत्यन्तदुर्मदः
यदुभिर् मागधो राजा चक्रे कृष्णपुरोगमैः ॥
सर्वेष्व् एतेषु युद्धेषु यादवैः स पराजितः
अपक्रान्तो जरासंधः स्वल्पसैन्यैर् बलाधिकः ॥
तद् बलं यादवानां तैर् अजितं यद् अनेकशः
तत् तु संनिधिमाहात्म्यं विष्णोर् अंशस्य चक्रिणः ॥
मनुष्यधर्मशीलस्य लीला सा जगतः पतेः
अस्त्राण्य् अनेकरूपाणि यद् अरातिषु मुञ्चति ॥
मनसैव जगत्सृष्टिं संहारं च करोति यः
तस्यारिपक्षक्षपणे कियान् उद्यमविस्तरः ॥
तथापि ये मनुष्याणां धर्मास् तदनुवर्तनम्
कुर्वन् बलवता संधिं हीनैर् युद्धं करोत्य् असौ ॥
साम चोपप्रदानं च तथा भेदं प्रदर्शयन्
करोति दण्डपातं च क्वचिद् एव पलायनम् ॥
मनुष्यदेहिनां चेष्टाम् इत्य् एवम् अनुवर्ततः
लीला जगत्पतेस् तस्य छन्दतः संप्रवर्तते ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0