भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.24

5.24.1

इत्थं स्तुतस् तदा तेन मुचुकुन्देन धीमता
प्राहेशः सर्वभूतानाम् अनादिर् भगवान् हरिः ॥

5.24.2

यथाभिवाञ्छितान् दिव्यान् लोकान् गच्छ नरेश्वर
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥

5.24.3

भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले
जातिस्मरो मत्प्रसादात् ततो मोक्षम् अवाप्स्यसि ॥

5.24.4

इत्य् उक्तः प्रणिपत्येशं जगताम् अच्युतं नृपः
गुहामुखाद् विनिष्क्रान्तः ददृशे सो ऽल्पकान् नरान् ॥

5.24.5

ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं नृपस् तपः
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥

5.24.6

कृष्णो ऽपि घातयित्वारिम् उपायेन हि तद्बलम्
जग्राह मथुराम् एत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥

5.24.7

आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत्
पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥

5.24.8

बलदेवो ऽपि मैत्रेय प्रशान्ताखिलविग्रहः
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥

5.24.9

ततो गोपांश् च गोपीश् च यथापूर्वम् अमित्रजित्
तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥

5.24.10

कैश् चापि संपरिष्वक्तः कांश्चिच् च परिषस्वजे
हास्यं चक्रे समं कैश्चिद् गोपैर् गोपीजनैस् तथा ॥

5.24.11

प्रियाण्य् अनेकान्य् अवदन् गोपास् तत्र हलायुधम्
गोप्यश् च प्रेमकुपिताः प्रोचुः सेर्ष्यम् अथापराः ॥

5.24.12

गोप्यः पप्रच्छुर् अपरा नागरीजनवल्लभः
कच्चिद् आस्ते सुखं कृष्णश् चलत्प्रेमलवात्मकः ॥

5.24.13

अस्मच्चेष्टाम् अपहसन् न कच्चित् पुरयोषिताम्
सौभाग्यमानम् अधिकं करोति क्षणसौहृदः ॥

5.24.14

कच्चित् स्मरति नः कृष्णो गीतानुगमनं कलम्
अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति ॥

5.24.15

अथ वा किं तदालापैर् अपरा क्रियतां कथा
यस्यास्माभिर् विना तेन विनास्माकं भविष्यति ॥

5.24.16

पिता माता तथा भ्राता भर्ता बन्धुजनश् च किम्
न त्यक्तस् तत्कृते ऽस्माभिर् अकृतज्ञध्वजो हि सः ॥

5.24.16*45

संदेशैः साममधुरैर् नास्मान् स्मरति कुत्रचित् ॥

5.24.17

तथापि कच्चिद् आलापम् इहागमनसंश्रयम्
करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥

5.24.18

दामोदरः स गोविन्दः पुरस्त्रीसक्तमानसः
अपेतप्रीतिर् अस्मासु दुर्दर्शः प्रतिभाति नः ॥

5.24.19

आमन्त्रितः स कृष्णेति पुनर् दामोदरेति च
रुरुदुः सस्वरं गोप्यो हरिणा हृतचेतसः ॥

5.24.20

संदेशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥

5.24.21

गोपैश् च पूर्ववद् रामः परिहासमनोरमाः
कथाश् चकार रेमे च सह तैर् व्रजभूमिषु ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc