विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.20
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम्
ददर्श कुब्जाम् आयान्तीं नवयौवनगोचराम् ॥
ताम् आह ललितं कृष्णः कस्येदम् अनुलेपनम्
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥
सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥
कान्त कस्मान् न जानासि कंसेनाभिनियोजिताम्
नैकवक्रेति विख्याताम् अनुलेपनकर्मणि ॥
नान्यपिष्टं हि कंसस्य प्रीतये ह्य् अनुलेपनम्
भवत्य् अहम् अतीवास्य प्रसादधनभाजनम् ॥
सुगन्धम् एतद् राजार्हं रुचिरं रुचिरानने
आवयोर् गात्रसदृशं दीयताम् अनुलेपनम् ॥
श्रुत्वैतद् आह सा कुब्जा गृह्यताम् इति सादरम्
अनुलेपनं च ददौ गात्रयोग्यम् अथोभयोः ॥
भक्तिच्छेदानुलिप्ताङ्गौ ततस् तौ पुरुषर्षभौ
सेन्द्रचापौ विराजेतां सितकृष्णाव् इवाम्बुदौ ॥
ततस् तां चिबुके शौरिर् उल्लापनविधानवित्
उत्पाट्य तोलयाम् आस द्व्यङ्गुलेनाग्रपाणिना ॥
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवो ऽनयत्
ततः सा ऋजुतां प्राप्ता योषिताम् अभवद् वरा ॥
विलासललितं प्राह प्रेमगर्भभरालसम्
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥
एवम् उक्तस् तया शौरी रामस्यालोक्य चाननम् ॥
प्रहस्य कुब्जां ताम् आह नैकवक्राम् अनिन्दिताम् ॥
इत्य् उक्तवन्तीम् आलोक्य प्रहसन् हरिर् अब्रवीत् ॥
आयास्ये भवतीगेहम् इति तां प्रहसन् हरिः
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥
भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरौ च तौ
धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥
आयोगवं धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः
आख्याते सहसा कृष्णो गृहीत्वापूरयद् धनुः ॥
ततः पूरयता तेन भज्यमानं बलाद् धनुः
चकार सुमहाशब्दं मथुरा येन पूरिता ॥
अनुयुक्तौ ततस् तौ तु भग्ने धनुषि रक्षिभिः
रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥
अक्रूरागमवृत्तान्तम् उपलभ्य तथा धनुः
भग्नं श्रुत्वाथ कंसो ऽपि प्राह चाणूरमुष्टिकौ ॥
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः
मल्लयुद्धे निहन्तव्यौ मम प्राणहरौ हि तौ ॥
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम्
दास्याम्य् अभिमतान् कामान् नान्यथैतन् महाबलौ ॥
न्यायतो ऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ
हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति ॥
इत्य् आदिश्य स तौ मल्लौ ततश् चाहूय हस्तिपम्
प्रोवाचोच्चैस् त्वया मल्ल समाजद्वारि कुञ्जरः ॥
स्थाप्यः कुवलयापीडस् तेन तौ गोपदारकौ
घातनीयौ नियुद्धाय रङ्गद्वारम् उपागतौ ॥
तम् अप्य् आज्ञाप्य दृष्ट्वा च मञ्चान् सर्वान् उपाकृतान्
आसन्नमरणः कंसः सूर्योदयम् उदैक्षत ॥
ततः समस्तमञ्चेषु नागरः स तदा जनः
राजमञ्चेषु चारूढाः सह भृत्यैर् महीभृतः ॥
मल्लप्राश्निकवर्गश् च रङ्गमध्यसमीपतः
कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः ॥
अन्तःपुराणां मञ्चाश् च तथान्ये परिकल्पिताः
अन्ये च वारमुख्यानाम् अन्ये नागरयोषिताम् ॥
नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥
नागरीयोषितां मध्ये देवकी पुत्रगृद्धिनी
अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामि रुचिरं मुखम् ॥
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति
हाहाकारपरे लोके आस्फोटयति मुष्टिके ॥
दृष्ट्वा कुवलयापीडं घोरदन्तं सुदारुणम् ॥
क्रीडित्वा सुचिरं कृष्णः करिदन्तपदान्तरे ॥
दन्तद्वयं तु जग्राह कराभ्यां करिणस् तदा ॥
जघान वामपादेन मस्तके हस्तिनस् ततः ॥
उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ॥
ताडयाम् आस यन्तारं तस्यासीच् छतधा शिरः ॥
दक्षिणं दन्तम् उत्पाट्य बलभद्रो ऽपि तत्क्षणात् ॥
सरोषस् तेन पार्श्वस्थान् गजपालान् अपोथयत् ॥
स पपात हतस् तेन बलभद्रेण लीलया ॥
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥
ततस् तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ॥
ईषद् धसन्तौ तौ वीरौ बलभद्रजनार्दनौ ॥
गोपवेषधरौ बालौ रङ्गद्वारम् उपागतौ ॥
ततः कुवलयापीडो महामात्रप्रचोदितः ॥
अभ्यधावत वेगेन हन्तुं गोपकुमारकौ ॥
हाहाकारो महाञ् जज्ञे रङ्गमध्ये द्विजोत्तम ॥
बलदेवो ऽपि तं दृष्ट्वा वचनं चेदम् अब्रवीत् ॥
हन्तव्यो हि महाभाग नागो ऽयं शत्रुचोदितः ॥
इत्य् उक्तः सो ऽग्रजेनाथ बलदेवेन वै द्विज ॥
सिंहनादं ततश् चक्रे माधवः परवीरहा ॥
करेण करम् आकृष्य केशवः केशिसूदनः ॥
दन्तम् एकं समुत्पाट्य ताडयाम् आस कुञ्जरः ॥
उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ॥
स पपात महीपृष्ठे मेरुशृङ्गम् इवापरम् ॥
ईशो ऽपि सर्वजगतां बाललीलानुसारतः ॥
भ्रामयाम् आस तं शौरिर् ऐरावतसमं बले ॥
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम्
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥
मृगमध्ये यथा सिम्हौ गर्वलीलावलोकिनौ
प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥
हाहाकारो महाञ् जज्ञे सर्वमञ्चेष्व् अनन्तरम्
कृष्णो ऽयं बलभद्रो ऽयम् इति लोकस्य विस्मयात् ॥
सो ऽयं येन हता घोरा पूतना सा निशाचरी
क्षिप्तं तु शकटं येन भग्नौ च यमलार्जुनौ ॥
सो ऽयं यः कालियं नागं ननर्तारुह्य बालकः
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥
अरिष्टो धेनुकः केशी लीलयैव महात्मना
निहता येन दुर्वृत्ता दृश्यतां सो ऽयम् अच्युतः ॥
अयं चास्य महाबाहुर् बलभद्रो ऽग्रजो ऽग्रतः
प्रयाति लीलया योषिन् मनोनयननन्दनः ॥
अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः
गोपालो यादवं वंशं मग्नम् अभ्युद्धरिष्यति ॥
अयं स सर्वभूतस्य विष्णोर् अखिलजन्मनः
अवतीर्णो महीम् अंशो नूनं भारहरो भुवः ॥
इत्य् एवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ॥
प्रविष्टे नगरम् अभ्येतौ विश्वलोकावलोकितौ ॥
उरस् तताप देवक्याः स्नेहस्नुतपयोधरम् ॥
महोत्सवम् इवासाद्य पुत्राननविलोकनम्
युवेव वसुदेवो ऽभूद् विहायाभ्यागतां जराम् ॥
विस्तारिताक्षियुगलो राजान्तःपुरयोषितः
नागरस्त्रीसमूहश् च द्रष्टुं न विरराम तम् ॥
एवं ता राजकन्याश् च महिष्यः पुरयोषितः ॥
अग्रण्यगणिकाश् चैव कन्या नागरिकाः स्त्रियः ॥
कंसारिहृदयासक्त चेतनास् ता वरस्त्रियः ॥
गर्हयन्त्यो ऽथ राजानम् भ्रमन्त्यस् तद्दिदृक्षया ॥
इच्छन्त्यो मनसस् तस्य जयेत्य् ऊचुर् जयं ततः ॥
सख्यः पश्यत कृष्णस्य मुखम् अत्यरुणेक्षणम्
गजयुद्धकृतायास स्वेदाम्बुकणिकाचितम् ॥
विकासिशरदम्भोजम् अवश्यायजलोक्षितम्
परिभूय स्थितं जन्म सफलं क्रियतां दृशः ॥
श्रीवत्साङ्कं महद्धाम बालस्यैतद् विलोक्यताम्
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥
किं न पश्यसि कुन्देन्दु मृणालधवलाननम्
बलभद्रम् इमं नील परिधानम् उपागतम् ॥
वल्गता मुष्टिकेनैतच् चाणूरेण तथा सखि
क्रियते बलभद्रस्य हास्यम् एतद् विलोक्यताम् ॥
सख्यः पश्यत चाणूरं नियुद्धार्थम् अयं हरिः
समुपैति न सन्त्य् अत्र किं वृद्धा युक्तकारिणः ॥
न किंचिद् अपि जानाति युक्तायुक्तं महीपतिः ॥
बलाबलम् अविज्ञातुम् अनेनात्र न शक्यते ॥
किमर्थं मन्त्रिणश् चैते मन्त्रिणो राजकर्मणि ॥
क्व यौवनोन्मुखीभूत सुकुमारतनुर् हरिः
क्व वज्रकठिनाभोग शरीरो ऽयं महासुरः ॥
इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ
दैतेयमल्लाश् चाणूर प्रमुखास् त्व् अतिदारुणाः ॥
नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः
यद् बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते ॥
इत्थं पुरस्त्रीलोकस्य वदतश् चालयन् भुवम् ॥
निरुद्धं प्राष्णिकैर् युक्तं श्रुत्वा तौ रामकेशवौ ॥
ववल्ग बद्धकक्ष्यो ऽन्तर् जनस्य भगवान् हरिः ॥
बलभद्रो ऽपि चास्फोट्य ववल्ग ललितं यदा
पदे पदे तदा भूमिर् यन् न शीर्णा तद् अद्भुतम् ॥
चाणूरेण ततः कृष्णो युयुधे ऽमितविक्रमः
नियुद्धकुशलो दैत्यो बलभद्रेण मुष्टिकः ॥
संनिपातावधूतैस् तु चाणूरेण समं हरिः
क्षेपणैर् मुष्टिभिश् चैव कीलवज्रनिपातनैः ॥
जानुभिश् चान्यनिर्घातैस् तथा बाहुविघट्टितैः ॥
जानुभिश् चाश्मभिर् घातैः शिरोभिर् अवघट्टितैः ॥
पादोद्धूतैः प्रमृष्टैश् च तयोर् युद्धम् अभून् महत् ॥
अशस्त्रम् अतिघोरं तत् तयोर् युद्धं सुदारुणम्
बलप्राणविनिष्पाद्यं समाजोत्सवसंनिधौ ॥
यावद् यावच् च चाणूरो युयुधे हरिणा सह
प्राणहानिम् अवापाग्र्यां तावत् तावल् लवाल् लवम् ॥
कृष्णो ऽपि युयुधे तेन लीलयैव जगन्मयः
खेदाच् चालयता कोपान् निजशेखरकेसरम् ॥
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः
वारयाम् आस तूर्याणि कंसः कोपपरायणः ॥
मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात्
खे संगतान्य् अवाद्यन्त देवतूर्याण्य् अनेकशः ॥
जय गोविन्द चाणूरं जहि केशव दानवम्
इत्य् अन्तर्धानगा देवास् तदोचुर् अतिहर्षिताः ॥
चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः
उत्पाट्य भ्रामयाम् आस तद्वधाय कृतोद्यमः ॥
भ्रामयित्वा शतगुणं दैत्यमल्लम् अमित्रजित्
भूमाव् आस्फोटयाम् आस गगने गतजीवितम् ॥
भूमाव् आस्फोटितस् तेन चाणूरः शतधाव्रजत्
रक्तस्रावमहापङ्कां चकार स तदा भुवम् ॥
बलदेवो ऽपि तत्कालं मुष्टिकेन महाबलः
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥
सो ऽप्य् एनं मुष्टिना मूर्ध्नि वक्षस्य् आहत्य जानुना
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥
कृष्णस् तोशलकं भूयो मल्लराजं महाबलम्
वाममुष्टिप्रहारेण पातयाम् आस भूतले ॥
चाणूरे निहते मल्ले मुष्टिके विनिपातिते
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥
ववल्गतुस् तदा रङ्गे कृष्णसंकर्षणाव् उभौ
समानवयसो गोपान् बलाद् आकृष्य हर्षितौ ॥
कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यापृतान् नरान्
गोपाव् एतौ समाजौघान् निष्क्राम्येतां बलाद् इतः ॥
नन्दो ऽपि गृह्यतां पापो निगडैर् आयसैर् इह
अवृद्धार्हेण दण्डेन वसुदेवो ऽपि हन्यताम् ॥
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुरः
गावो ह्रियन्ताम् एतेषां यच् चास्ति वसु किंचन ॥
एवम् आज्ञापयानं तु प्रहस्य मधुसूदनः
उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥
केशेष्व् आकृष्य विगलत् किरीटम् अवनीतले
कंसं स पातयाम् आस तस्योपरि पपात च ॥
निःशेषजगदाधार गुरुणा पततोपरि
कृष्णेन त्याजितः प्राणान् उग्रसेनात्मजो नृपः ॥
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥
गौरवेणातिमहता परिखा तेन कृष्यता
कृता कंसस्य देहेन वेगेनेव महाम्भसः ॥
कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा
सुनामा बलभद्रेण लीलयैव निपातितः ॥
ततो हाहाकृतं सर्वम् आसीत् तद् रङ्गमण्डलम्
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥
कृष्णो ऽपि वसुदेवस्य पादौ जग्राह सत्वरः
देवक्याश् च महाबाहुर् बलदेवसहायवान् ॥
उत्थाप्य वसुदेवस् तं देवकी च जनार्दनम्
स्मृतजन्मोक्तवचनौ ताव् एव प्रणतौ स्थितौ ॥
प्रसीद सीदतां देव देवानां वरद प्रभो
तथावयोः प्रसादेन कृतोद्धारश् च केशव ॥
आराधितो यद् भगवान् अवतीर्णो गृहे मम
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥
त्वम् अन्तः सर्वभूतानां सर्वभूतेष्व् अवस्थितः
प्रवर्तेते समस्तात्मंस् त्वत्तो भूतभविष्यती ॥
यज्ञैस् त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत
त्वम् एव यज्ञो यष्टा च यज्ञानां परमेश्वरः ॥
समुद्भवः समस्तस्य जगतस् त्वं जनार्दन ॥
सापह्नवं मम मनो यद् एतत् त्वयि जायते
देवक्याश् चात्मजप्रीत्या तद् अत्यन्तविडम्बना ॥
क्व कर्ता सर्वभूतानाम् अनादिनिधनो भवान्
क्व मे मनुष्यकस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥
जगद् एतज् जगन्नाथ संभूतम् अखिलं यतः
कया युक्त्या विना मायां सो ऽस्मत्तः संभविष्यति ॥
यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम्
स कोष्ठोत्सङ्गशयनो मनुष्याज् जायते कथम् ॥
स त्वं प्रसीद परमेश्वर पाहि विश्वम् अंशावतारकरणैर् न ममासि पुत्रः
आब्रह्मपादपम् अयं जगद् एतद् ईश त्वत्तो विमोहयसि किं परमेश्वरात्मन् ॥
मायाविमोहितदृशा तनयो ममेति कंसाद् भयं कृतम् अपास्तभयातितीव्रम्
नीतो ऽसि गोकुलम् इतो ऽतिभयाकुलस्य वृद्धिं गतो ऽसि मम नास्ति ममत्वम् ईश ॥
कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यानि न भवन्ति निरीक्षितानि
त्वं विष्णुर् ईश जगताम् उपकारहेतोः प्राप्तो ऽसि नः परिगतं विगतो हि मोहः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0