विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.21
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात्
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥
उवाच चाम्ब भोस् तात चिराद् उत्कण्ठितेन मे
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥
कुर्वतां याति यः कालो मातापित्रोर् अपूजनम्
तत् खण्डम् आयुषो व्यर्थं साधूनाम् उपजायते ॥
गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम्
कुर्वतां सफलं जन्म देहिनां तात जायते ॥
तत् क्षन्तव्यम् इदं सर्वम् अतिक्रमकृतं पितः
कंसप्रतापवीर्याभ्याम् आवयोः परवश्ययोः ॥
इत्य् उक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात्
यथावद् अभिपूज्याथ चक्रतुः पौरमाननम् ॥
कंसपत्न्यस् ततः कंसं परिवार्य हतं भुवि
विलेपुर् मातरश् चास्य दुःखशोकपरिप्लुताः ॥
बहुप्रकारम् अत्यर्थं पश्चात्तापातुरो हरिः
ताः समाश्वासयाम् आस स्वयम् अस्राविलेक्षणः ॥
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः
अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ॥
राज्ये ऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥
कृतौर्ध्वदैहिकं चैनं सिंहासनगतं हरिः
उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कितः ॥
ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि साम्प्रतम्
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥
इत्य् उक्त्वा सो ऽस्मरद् वायुम् आजगाम च तत्क्षणात्
उवाच चैनं भगवान् केशवः कार्यमानुषः ॥
गच्छेन्द्रं ब्रूहि वायो त्वम् अलं गर्वेण वासव
दीयताम् उग्रसेनाय सुधर्मा भवता सभा ॥
कृष्णो ब्रवीति राजार्हम् एतद् रत्नम् अनुत्तमम्
सुधर्माख्या सभा युक्तम् अस्यां यदुभिर् आसितुम् ॥
इत्य् उक्तः पवनो गत्वा सर्वम् आह शचीपतिम्
ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥
वायुना चाहृतां दिव्यां सभां ते यदुपुंगवाः
बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयात् ॥
विदिताखिलविज्ञानौ सर्वज्ञानमयाव् अपि
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥
ततः सान्दीपनिं काश्यम् अवन्तीपुरवासिनम्
अस्त्रार्थं जग्मतुर् वीरौ बलदेवजनार्दनौ ॥
.... .... कृतोपनयनक्रमौ ॥
वेदाभ्यासकृतप्रीती .... .... ॥
तस्य शिष्यत्वम् अभ्येत्य गुरुवृत्तिपरौ हि तौ
दर्शयां चक्रतुर् वीराव् आचारम् अखिले जने ॥
सरहस्यं धनुर्वेदं ससंग्रहम् अधीयताम्
अहोरात्रैश् चतुःषष्ट्या तद् अद्भुतम् अभूद् द्विज ॥
सांदीपनिर् असंभाव्यं तयोः कर्मातिमानुषम्
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥
साङ्गांश् च चतुरो वेदान् सर्वशास्त्राणि चैव हि ॥
अस्त्रग्रामम् अशेषं च प्रोक्तमात्रम् अवाप्य तौ
ऊचतुर् व्रियतां या ते दातव्या गुरुदक्षिणा ॥
सो ऽप्य् अतीन्द्रियम् आलोक्य तयोः कर्म महामतिः
अयाचत मृतं पुत्रं प्रभासे लवणार्णवे ॥
तथेति चोक्त्वा प्रययौ रामेण सहितोदधिम् ॥
गृहीतास्त्रौ ततस् तौ तु सार्घपात्रो महोदधिः
उवाच न मया पुत्रो हृतः सांदीपनेर् इति ॥
.... .... रथेनागत्य चार्णवम् ॥
दीयतां सागर क्षिप्रं पुत्रं सांदीपनेर् इति ॥
ततः स व्यथितस् तूर्णं .... .... ॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम्
जग्राह सो ऽस्ति सलिले ममैवासुरसूदन ॥
इत्य् उक्तो ऽन्तर् जलं गत्वा हत्वा पञ्चजनं च तम्
कृष्णो जग्राह तस्यास्थि प्रभवं शङ्खम् उत्तमम् ॥
यस्य नादेन दैत्यानां बलहानिर् अजायत
देवानां ववृधे तेजो यात्य् अधर्मश् च संक्षयम् ॥
तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः
बलदेवश् च बलवाञ् जित्वा वैवस्वतं यमम् ॥
तं बालं यातनासंस्थं यथापूर्वशरीरिणम्
पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः ॥
मथुरां च पुनः प्राप्ताव् उग्रसेनेन पालिताम्
प्रहृष्टपुरुषस्त्रीकाव् उभौ रामजनार्दनौ ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0