भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.19

5.19.1

एवम् अन्तर् जले विष्णुम् अभिष्टूय स यादवः
अर्चयाम् आस सर्वेशं पुष्पधूपैर् मनोमयैः ॥

5.19.2

परित्यक्तान्यविषयं मनस् तत्र निवेश्य सः
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥

5.19.3

कृतकृत्यम् इवात्मानं मन्यमानो महामतिः
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥

5.19.4

रामकृष्णौ च ददृशे यथापूर्वं रथे स्थितौ
विस्मिताक्षस् तदाक्रूरस् तं च कृष्णो ऽभ्यभाषत ॥

5.19.5

नूनं ते दृष्टम् आश्चर्यम् अक्रूर यमुनाजले
विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः ॥

5.19.6

अन्तर् जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत
तद् अत्रापि हि पश्यामि मूर्तिमत् पुरतः स्थितम् ॥

5.19.7

जगद् एतन् महाश्चर्यं रूपं यस्य महात्मनः
तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥

5.19.8

तत् किम् एतेन मथुरां प्रयामो मधुसूदन
बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनाम् ॥

5.19.9

इत्य् उक्त्वा चोदयाम् आस तान् हयान् वातरंहसः
संप्राप्तश् चातिसायाह्ने सो ऽक्रूरो मथुरां पुरीम् ॥

5.19.10

विलोक्य मथुरां रामं कृष्णं चाह स यादवः
पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्य् अहम् ॥

5.19.11

गन्तव्यं वसुदेवस्य न भवद्भ्यां तथा गृहम्
युवयोर् हि कृते वृद्धः स कंसेन निरस्यते ॥

5.19.12

इत्य् उक्त्वा प्रविवेशाथ सो ऽक्रूरो मथुरां पुरीम्
प्रविष्टौ रामकृष्णौ च राजमार्गम् उपागतौ ॥

5.19.13

स्त्रीभिर् नरैश् च सानन्दं लोचनैर् अभिवीक्षितौ
जग्मतुर् लीलया वीरौ मत्तौ बालगजाव् इव ॥

5.19.14

भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम्
अयाचेतां सुरूपाणि वासांसि रुचिराननौ ॥

5.19.15

कंसस्य रजकः सो ऽथ प्रसादारूढविस्मयः
बहून्य् आक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥

5.19.16

ततस् तलप्रहारेण कृष्णस् तस्य दुरात्मनः
पातयाम् आस कोपेन रजकस्य शिरो भुवि ॥

5.19.17

हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥

5.19.18

विकासिनेत्रयुगलो मालाकारो ऽपि विस्मितः
एतौ कस्य कुतो वैतौ मैत्रेयाचिन्तयत् ततः ॥

5.19.19

पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ
स तर्कयाम् आस तदा भुवं देवाव् उपागतौ ॥

5.19.20

विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥

5.19.21

प्रसादपरमौ नाथौ मम गेहम् उपागतौ
धन्यो ऽहम् अर्चयिष्यामीत्य् आह तौ माल्यजीवकः ॥

5.19.22

ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः
चारूण्य् एतान्य् अथैतानि प्रददौ स विलोभयन् ॥

5.19.23

पुनः पुनः प्रणम्यासौ मालाकारो नरोत्तमौ
ददौ पुष्पाणि चारूणि गन्धवन्त्य् अमलानि च ॥

5.19.24

मालाकाराय कृष्णो ऽपि प्रसन्नः प्रददौ वरम्
श्रीस् त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति ॥

5.19.25

बलहानिर् न ते सौम्य धनहानिस् तथैव च
यावद् दिनानि तावच् च न नशिष्यति संततिः ॥

5.19.26

भुक्त्वा च भोगान् विपुलांस् त्वम् अन्ते मत्प्रसादजम्
ममानुस्मरणं प्राप्य दिव्यं लोकम् अवाप्स्यसि ॥

5.19.27

धर्मे मनश् च ते भद्र सर्वकालं भविष्यति
युष्मत्संततिजातानां दीर्घम् आयुर् भविष्यति ॥

5.19.28

नोपसर्गादिकं दोषं युष्मत्संततिसंभवः
संप्राप्स्यति महाभाग यावत् सूर्यो भविष्यति ॥

5.19.29

इत्य् उक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान्
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc