विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.18
चिन्तयन्न् इति गोविन्दम् उपगम्य स यादवः
अक्रूरो ऽस्मीति चरणौ ननाम शिरसा हरेः ॥
सो ऽप्य् एनं ध्वजवज्राब्ज कृतचिह्नेन पाणिना
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥
कृतसंवन्दनौ तेन यथावद् बलकेशवौ
ततः प्रविष्टौ संहृष्टौ तम् आदायात्ममन्दिरम् ॥
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः
भुक्तभोज्यो यथान्यायम् आचचक्षे ततस् तयोः ॥
यथा निर्भर्त्स्यते तेन कंसेनानकदुन्दुभिः
यथा च देवकी देवी दानवेन दुरात्मना ॥
उग्रसेने यथा कंसः सुदुरात्मा च वर्तते
यं चैवार्थं समुद्दिश्य स कंसेन विसर्जितः ॥
तत् सर्वं विस्तराच् छ्रुत्वा भगवान् केशिसूदनः
उवाचाखिलम् अप्य् एतज् ज्ञातं दानपते मया ॥
करिष्ये च महाभाग यद् अत्रौपयिकं मतम्
विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ॥
अहं रामश् च मथुरां श्वो यास्यावः समं त्वया
गोपवृद्धाश् च यास्यन्ति ह्य् आदायोपायनं बहु ॥
निशेयं नीयतां वीर न चिन्तां कर्तुम् अर्हसि
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम् ॥
समादिश्य ततो गोपान् अक्रूरो ऽपि सकेशवः
सुष्वाप बलभद्रश् च नन्दगोपगृहे ततः ॥
ततः प्रभाते विमले कृष्णरामौ महामती
अक्रूरेण समं गन्तुम् उद्यतौ मथुरां प्रति ॥
दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः
निशश्वासातिदुःखार्तः प्राह चेदं परस्परम् ॥
मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति
नागरस्त्रीकलालाप मधु श्रोत्रेण पास्यति ॥
विलासिवाक्यपानेषु नागरीणां कृतास्पदम्
चित्तम् अस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम्
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥
भावगर्भस्मितं वाक्यं विलासललिता गतिः
नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव च ॥
ग्राम्यो हरिर् अयं तासां विलासनिगडैर् युतः
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति ॥
एषएष रथम् आरुह्य मथुरां याति केशवः
क्रूरेणाक्रूरकेणात्र निराशेन प्रतारितः ॥
किं न वेत्ति नृशंसो ऽयम् अनुरागपरं जनम्
येनेमम् अक्ष्णोर् आह्लादं नयत्य् अन्यत्र नो हरिम् ॥
एष रामेण सहितः प्रयात्य् अत्यन्तनिर्घृणः
रथम् आरुह्य गोविन्दस् त्वर्यताम् अस्य वारणे ॥
गुरूणाम् अग्रतो वक्तुं किं ब्रवीषि न नः क्षमम्
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना ॥
नन्दगोपमुखा गोपा गन्तुम् एते समुद्यताः
नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने ॥
सुप्रभाताद्य रजनी मथुरावासियोषिताम्
पास्यन्त्य् अच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥
धन्यास् ते पथि ये कृष्णम् इतो यान्त्य् अनिवारिताः
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥
मथुरानगरीपौर नयनानां महोत्सवः
गोविन्दावयवैर् दृष्टैर् अतीवाद्य भविष्यति ॥
को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम्
विस्तारिकान्तिनयना या द्रक्ष्यन्त्य् अनिवारितम् ॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम्
उद्धृतान्य् अत्र नेत्राणि विधात्राकरुणात्मना ॥
धन्यास् ते पथि ये कृष्णं यान्तं सौम्यवपुर् हरिम् ॥
कौतुकेनानिमेषाक्षाः पश्यन्ति ह्य् अनिवारितम् ॥
अनुरागेण शैथिल्यम् अस्मासु व्रजतो हरेः
शैथिल्यम् उपयान्त्य् आशु करेषु वलयान्य् अपि ॥
अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान्
एवम् आर्तासु योषित्सु घृणा कस्य न जायते ॥
अक्रूर त्वं महाबाहो वद वाचातिसौम्यया ॥
अस्य गोपीजनस्यार्तिं किमर्थं कर्तुम् अर्हसि ॥
कीदृग्विधा कृतास्माभिर् निकृतिस् ते जनेश्वर ॥
विधातुर् वा महाबाहो तस्य कृष्णस्य वा हरेः ॥
बलभद्रो वारयितुं नेच्छते ध्रुवम् अप्य् अयम् ॥
एवम् आर्तासु योषित्सु प्रलपन्तीष्व् इतस् ततः ॥
रथम् आस्थाय गच्छन्तम् इदम् ऊचुर् वराङ्गनाः ॥
एष कृष्णरथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम्
दूरीभूतो हरिर् येन सो ऽपि रेणुर् न लक्ष्यते ॥
इत्य् एवम् अतिहार्देन गोपीजननिरीक्षितः
तत्याज व्रजभूभागं सह रामेण केशवः ॥
गच्छन्तो जवनाश्वेन रथेन यमुनातटम्
प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः ॥
अथाह कृष्णम् अक्रूरो भवद्भ्यां तावद् आस्यताम्
यावत् करोमि कालिन्द्याम् आह्निकार्हणम् अम्भसि ॥
तथेत्य् उक्तस् ततः स्नातः स्वाचान्तः स महामतिः
दध्यौ ब्रह्म परं विप्र प्रविश्य यमुनाजले ॥
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः
कुन्दामलाङ्गम् उन्निद्र पद्मपत्रारुणेक्षणम् ॥
वृतं वासुकिरम्भाद्यैर् महद्भिः पवनाशिभिः
संस्तूयमानं गन्धर्वैर् वनमालाविभूषितम् ॥
दधानम् असिते वस्त्रे चारुपद्मावतंसकम्
चारुकुण्डलिनं मत्तम् अन्तर् जलतले स्थितम् ॥
तस्योत्सङ्गे घनश्यामम् आताम्रायतलोचनम्
चतुर्बाहुम् उदाराङ्गं चक्राद्यायुधभूषणम् ॥
पीते वसानं वसने चित्रमाल्यविभूषणम्
शक्रचापतडिन्माला विचित्रम् इव तोयदम् ॥
श्रीवत्सवक्षसं चारु केयूरमुकुटोज्ज्वलम्
ददर्श कृष्णम् अक्लिष्टं पुण्डरीकावतंसकम् ॥
सनन्दनाद्यैर् मुनिभिः सिद्धयोगैर् अकल्मषैः
विचिन्त्यमानं तत्रस्थैर् नासाग्रन्यस्तलोचनैः ॥
बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः
सो ऽचिन्तयद् रथाच् छीघ्रं कथम् अत्रागताव् इति ॥
विवक्षोः स्तम्भयाम् आस वाचं तस्य जनार्दनः
ततो निष्क्रम्य सलिलाद् रथम् अभ्यागतः पुनः ॥
ददर्श तत्र चैवोभौ रथस्योपर्य् अधिष्ठितौ
रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ ॥
निमग्नश् च पुनस् तोये स ददर्श तथैव तौ
संस्तूयमानौ गन्धर्व मुनिसिद्धमहोरगैः ॥
ततो विज्ञातसद्भावः स तु दानपतिस् तदा
तुष्टाव सर्वविज्ञान, ,मयम् अच्युतम् ईश्वरम् ॥
सन्मात्ररूपिणे ऽचिन्त्य महिम्ने परमात्मने
व्यापिने नैकरूपैक स्वरूपाय नमो नमः ॥
सत्यरूपाय ते ऽचिन्त्य हविर्भूताय ते नमः
नमो ऽविज्ञेयरूपाय पराय प्रकृतेः प्रभो ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥
प्रसीद सर्वसर्वात्मन् क्षराक्षरमयेश्वर
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर् उदीरितः ॥
अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन
अनाख्येयाभिधानं त्वां नतो ऽस्मि परमेश्वर ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः
तद् ब्रह्म परमं नित्यम् अविकारि भवान् अज ॥
न कल्पनाम् ऋते ऽर्थस्य सर्वस्याधिगमो यतः
ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिर् ईड्यसे ॥
सर्वार्थास् त्वम् अज विकल्पनाभिर् एतद् देवाद्यं जगद् अखिलं त्वम् एव विश्वम्
विश्वात्मंस् त्वम् इति विकारभावहीनः सर्वस्मिन् न हि भवतो ऽस्ति किंचिद् अन्यत् ॥
त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता धाता त्वं त्रिदशपतिः समीरणो ऽग्निः
तोयेशो धनपतिर् अन्तकस् त्वम् एको भिन्नार्थैर् जगद् अभिपासि शक्तिभेदैः ॥
विश्वं भवान् सृजति सूर्यगभस्तिरूपो विश्वं च ते गुणमयो ऽयम् अज प्रपञ्चः
रूपं परं सद् इति वाचकम् अक्षरं यज् ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै ॥
ओं नमो वासुदेवाय नमः संकर्षणाय ते
प्रद्युम्नाय नमस् तुभ्यम् अनिरुद्धाय ते नमः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0