विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.17
अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना
कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥
चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया
यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥
अद्य मे सफलं जन्म सुप्रभाता च मे निशा
यद् उन्निद्राब्जपत्राक्षं विष्णोर् द्रक्ष्याम्य् अहं मुखम् ॥
अद्य मे सफले नेत्रे अद्य मे सफला गिरः ॥
यन् मे परस्परालापो दृष्ट्वा विष्णुं भविष्यति ॥
पापं हरति यत् पुंसां स्मृतं संकल्पनामयम्
तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम् ॥
निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च
द्रक्ष्यामि तत् परं धाम देवानां भगवन्मुखम् ॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः
इज्यते यो ऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम् ॥
इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम्
अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम् ॥
न ब्रह्मा नेन्द्ररुद्राश्वि वस्वादित्यमरुद्गणाः
यस्य स्वरूपं जानन्ति स्प्रक्ष्यत्य् अङ्गं स मे हरिः ॥
सर्वात्मा सर्ववित् सर्वः सर्वभूतेष्व् अवस्थितः
यो वितत्याव्ययो व्यापी स वक्ष्यति मया सह ॥
मत्स्यकूर्मवराहाश्व सिंहरूपादिभिः स्थितिम्
चकार जगतो यो ऽजः सो ऽद्य माम् आलपिष्यति ॥
साम्प्रतं च जगत्स्वामी कार्यम् आत्महृदि स्थितम्
कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः ॥
यो ऽनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम्
सो ऽवतीर्णो जगत्यर्थे माम् अक्रूरेति वक्ष्यति ॥
पितृपुत्रसुहृद्भ्रातृ मातृबन्धुमयीम् इमाम्
यन्मायां नालम् उत्तर्तुं जगत् तस्मै नमो नमः ॥
तरत्य् अविद्यां विततां हृदि यस्मिन् निवेशिते
योगी मायाम् अमेयाय तस्मै विद्यात्मने नमः ॥
यज्विभिर् यज्ञपुरुषो वासुदेवश् च सात्वतैः
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥
यथा तत्र जगद् धाम्नि धातर्य् एतत् प्रतिष्ठितम्
सदसत् तेन सत्येन मय्य् असौ यातु सौम्यताम् ॥
स्मृते सकलकल्याण भाजनं यत्र जायते
पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥
इत्थं संचिन्तयन् विष्णुं भक्तिनम्रात्ममानसः
अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति ॥
स ददर्श तदा तत्र कृष्णम् आदोहने गवाम्
वत्समध्यगतं फुल्ल नीलोत्पलदलच्छविम् ॥
प्रस्पष्टपद्मपत्राक्षं श्रीवत्साङ्कितवक्षसम्
प्रलम्बबाहुम् आयामि तुङ्गोरःस्थलम् उन्नसम् ॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्
तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम् ॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम्
सान्द्रनीललताहस्तम् सिताम्भोजावतंसकम् ॥
हंसकुन्देन्दुधवलं नीलाम्बरधरं द्विज
तस्यानु बलभद्रं च ददर्श यदुनन्दनः ॥
प्रांशुम् उत्तुङ्गबाह्वंसं विकासिमुखपङ्कजम्
मेघमालापरिवृतं कैलासाद्रिम् इवापरम् ॥
तौ दृष्ट्वा विकसद्वक्त्र सरोजः स महामतिः
पुलकाञ्चितसर्वाङ्गस् तदाक्रूरो ऽभवन् मुने ॥
एतत् तत् परमं धाम तद् एतत् परमं पदम्
भगवद्वासुदेवांशो द्विधा यो ऽयम् अवस्थितः ॥
साफल्यम् अक्ष्णोर् युगम् एतद् अत्र दृष्टे जगद्धातरि यातम् उच्चैः
अप्य् अङ्गम् एतद् भगवत्प्रसादाद् दत्ते ऽङ्गसङ्गे फलवन् मम स्यात् ॥
अप्य् एष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः
यस्याङ्गुलिस्पर्शहताखिलाघैर् अवाप्यते सिद्धिर् अनाशदोषा ॥
येनाग्निविद्युद्रविरश्मिमाला करालम् अत्युग्रम् अपास्य चक्रम्
चक्रं घ्नता दैत्यपतेर् हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥
यत्राम्बु विन्यस्य बलिर् मनोज्ञान् अवाप भोगान् वसुधातलस्थः
तथामरत्वं त्रिदशाधिपत्यं मन्वन्तरं पूर्णम् अपेतशत्रुः ॥
अप्य् एष मां कंसपरिग्रहेण दोषास्पदीभूतम् अदोषदुष्टम्
कर्तावमानोपहतं धिग् अस्तु तज् जन्मनः साधु बहिष्कृतो यः ॥
ज्ञानात्मकस्यामलसत्त्वराशेर् अपेतदोषस्य सदा स्फुटस्य
किं वा जगत्य् अत्र समस्तपुंसाम् अज्ञातम् अस्यास्ति हृदि स्थितस्य ॥
तस्माद् अहं भक्तिविनम्रचेता व्रजामि सर्वेश्वरम् ईश्वराणाम्
अंशावतारं पुरुषोत्तमस्य अनादिमध्यान्तमयस्य विष्णोः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0