विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.13
गते शक्रे तु गोपालाः कृष्णम् अक्लिष्टकारिणम्
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥
वयम् अस्मान् महाभाग भवता महतो भयात्
गावश् च भवता त्राता गिरिधारणकर्मणा ॥
बालक्रीडेयम् अतुला गोपालत्वं जुगुप्सितम्
दिव्यं च कर्म भवतः किम् एतत् तात कथ्यताम् ॥
कालियो दमितस् तोये प्रलम्बो विनिपातितः
धृतो गोवर्धनश् चायं शङ्कितानि मनांसि नः ॥
सत्यं सत्यं हरेः पादौ शपामो ऽमितविक्रम
यथा त्वद्वीर्यम् आलोक्य न त्वां मन्यामहे नरम् ॥
प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव
कर्म चेदम् अशक्यं यत् समस्तैस् त्रिदशैर् अपि ॥
बालत्वं चातिवीर्यं च जन्म चास्मासु शोभनम्
चिन्त्यमानम् अमेयात्मञ् शङ्कां कृष्ण प्रयच्छति ॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा
किं वास्माकं विचारेण बान्धवो ऽसि नमो ऽस्तु ते ॥
प्रायेण त्वं महाबाहो हरिर् वा रुद्र एव वा ॥
ब्रह्मा सेन्द्रो यमो वापि वरुणो वा कुबेरकः ॥
अन्यो वा सर्वदेवानां नाथ x त भुवो भवः ॥
नमो ऽस्तु ते देवदेव यद् अस्माकं हितं तथा ॥
क्षणं भूत्वा त्व् असौ तूष्णीं किंचित् प्रणयकोपवान्
इत्य् एवम् उक्तस् तैर् गोपैः कृष्णो ऽप्य् आह महामुने ॥
मत्संबन्धेन वो गोपा यदि लज्जा न जायते
श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥
यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि
तदात्मबन्धुसदृशी बुद्धिर् वः क्रियतां मयि ॥
नाहं देवो न गन्धर्वो न यक्षो न च दानवः
अहं वो बान्धवो जातो नैतच् चिन्त्यम् अतो ऽन्यथा ॥
इति श्रुत्वा हरेर् वाक्यं बद्धमौनास् ततो वनम्
ययुर् गोपा महाभाग तस्मिन् प्रणयकोपिनि ॥
कृष्णस् तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम्
तथा कुमुदिनीं फुल्लाम् आमोदितदिगन्तराम् ॥
वनराजीं तथा कूजद् भृङ्गमालामनोरमाम्
विलोक्य सह गोपीभिर् मनश् चक्रे रतिं प्रति ॥
विना रामेण मधुरम् अतीव वनिताप्रियम्
जगौ कलपदं शौरिर् नानातन्त्रीकृतव्रतम् ॥
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस् तदा
आजग्मुस् त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥
शनैः शनैर् जगौ गोपी काचित् तस्य लयानुगम्
दत्तावधाना काचिच् च तम् एव मनसास्मरत् ॥
काचित् कृष्णेति कृष्णेति प्रोक्त्वा लज्जाम् उपाययौ
ययौ च काचित् प्रेमान्धा तत्पार्श्वम् अविलज्जिता ॥
काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर् गुरुम्
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥
तच्चिन्ताविपुलाह्लाद क्षीणपुण्यचया तथा
तदप्राप्तिमहादुःख विलीनाशेषपातका ॥
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम्
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥
गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम्
मानयाम् आस गोविन्दो रासारम्भरसोत्सुकः ॥
गोप्यश् च वृन्दशः कृष्ण चेष्टास्व् आयत्तमूर्तयः
अन्यदेशं गते कृष्णे चेरुर् वृन्दावनान्तरम् ॥
कृष्णे निबद्धहृदया इदम् ऊचुः परस्परम् ॥
कृष्णो ऽहम् एतत् ललितं व्रजाम्य् आलोक्यतां गतिः
अन्या ब्रवीति कृष्णस्य मम गीतिर् निशम्यताम् ॥
निहता पूतना तद्वच् शकटं परिवर्तितम् ॥
सख्यः पश्यत कृष्णस्य मम विक्रमम् अद्भुतम् ॥
दुष्ट कालिय तिष्ठात्र कृष्णो ऽहम् इति चापरा
बाहुम् आस्फोट्य कृष्णस्य लीलासर्वस्वम् आददे ॥
अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयताम् इह
अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥
अन्या ब्रवीति च सखी पश्य त्वं माम् अकल्मषम् ॥
नानाप्रकारया कृष्णं शोभितं वनमालया ॥
धेनुको ऽयं मया क्षिप्तो विचरन्तु यथेच्छया
गोपी ब्रवीति चैवान्या कृष्णलीलानुकारिणी ॥
एवं नानाप्रकारासु कृष्णचेष्टासु तास् तदा
गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम् ॥
प्रपन्नानां ततस् तासां कृष्णमार्गानुसारतः ॥
प्रावर्तत समुल्लापः कृष्णस्यान्वेषणं प्रति ॥
विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना
पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥
ध्वजवज्राङ्कुशाब्जाङ्क रेखावन्त्य् आलि पश्यत
पदान्य् एतानि कृष्णस्य लीलालंकृतगामिनः ॥
कापि तेन समं याता कृतपुण्या मदालसा
पदानि तस्याश् चैतानि घनान्य् अल्पतनूनि च ॥
पुष्पावचयम् अत्रोच्चैश् चक्रे दामोदरो ध्रुवम्
येनाग्राक्रान्तिमात्राणि पदान्य् अत्र महात्मनः ॥
अत्रोपविश्य सा तेन कापि पुष्पैर् अलंकृता
अन्यजन्मनि सर्वात्मा विष्णुर् अभ्यर्चितो यया ॥
पुष्पबन्धनसंमान कृतमानाम् अपास्य ताम्
नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥
अनुयाने ऽसमर्थान्या नितम्बभरमन्थरा
या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥
हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥
हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता
नैराश्यान् मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥
नूनम् उक्ता त्वरामीति पुनर् एष्यामि ते ऽन्तिकम्
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥
प्रविष्टो गहनं कृष्णः पदम् अत्र न लक्ष्यते
निवर्तध्वं शशाङ्कस्य नैतद् दीधितिगोचरे ॥
निवृत्तास् तास् ततो गोप्यो निराशाः कृष्णदर्शने
यमुनातीरम् आगम्य जगुस् तच्चरितं तदा ॥
ततो ददृशुर् आयान्तं विकासिमुखपङ्कजम्
गोप्यस् त्रैलोक्यगोप्तारं कृष्णम् अक्लिष्टचेष्टितम् ॥
काचिद् आलोक्य गोविन्दम् आयान्तम् अतिहर्षिता
कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरयत् ॥
काचिन् मीलितलोलाक्षी तद्भागवतमानसा ॥
सर्वात्मानं तम् अभजद् गोविन्दं विष्णुम् अव्ययम् ॥
काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम्
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥
काचिद् आलोक्य गोविन्दं निमीलितविलोचना
तस्यैव रूपं ध्यायन्ती योगारूढेव चाबभौ ॥
ततः काश्चित्प्रियालापैः काश्चिद् भ्रूभङ्गवीक्षितैः
निन्ये ऽनुनयम् अन्याश् च करस्पर्शेन माधवः ॥
ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम्
रराम रासगोष्ठीभिर् उदारचरितो हरिः ॥
रासमण्डलबन्धो ऽपि कृष्णपार्श्वम् अनुज्झता
गोपीजनेन नैवाभूद् एकस्थानस्थिरात्मना ॥
हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डले
चकार तत्करस्पर्श निमीलितदृशं हरिः ॥
ततः प्रववृते रासश् चलद्वलयनिस्वनैः
अनुयातशरत्काव्य गेयगीतिर् अनुक्रमात् ॥
कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम्
जगौ गोपीजनस् त्व् एकं कृष्णनाम पुनः पुनः ॥
परिवर्तश्रमेणैका चलद्वलयलापिनी
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥
काचित् प्रविलसद्बाहुं परिरभ्य चुचुम्ब तम्
गोपी गीतस्तुतिव्याज निपुणा मधुसूदनम् ॥
गोपीकपोलसंश्लेषम् अभिपद्य हरेर् भुजौ
पुलकोद्गमसस्याय स्वेदाम्बुघनतां गतौ ॥
रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः
साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः ॥
गते ऽनुगमनं चक्रुर् वलने संमुखं ययुः
प्रतिलोमानुलोमेन भेजुर् गोपाङ्गना हरिम् ॥
स तथा सह गोपीभी रराम मधुसूदनः
यथाब्दकोटिप्रतिमः क्षणस् तेन विनाभवत् ॥
ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृभिस् तथा
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥
सो ऽपि कैशोरकवयो मानयन् मधुसूदनः
रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः ॥
तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः
आत्मस्वरूपरूपो ऽसौ व्याप्य वायुर् इव स्थितः ॥
यथा समस्तभूतेषु नभो ऽग्निः पृथिवी जलम्
वायुश् चात्मा तथैवासौ व्याप्य सर्वम् अवस्थितः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0