भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.14

5.14.1

प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने
त्रासयन् समदो गोष्ठम् अरिष्टः समुपागतः ॥

5.14.2

सतोयतोयदच्छायस् तीक्ष्णशृङ्गो ऽर्कलोचनः
खुराग्रपातैर् अत्यर्थं दारयन् वसुधातलम् ॥

5.14.3

लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः
संरम्भाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥

5.14.4

उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः
विण्मूत्रलिप्तपृष्ठाङ्गो गवाम् उद्वेगकारकः ॥

5.14.5

प्रलम्बकण्ठो ऽतिमुखस् तरुघाताङ्किताननः
पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक् ॥

5.14.6

सूदयंस् तापसान् उग्रो वनान्य् अटति यः सदा ॥

5.14.7

ततस् तम् अतिघोराक्षम् अवेक्ष्यातिभयातुराः
गोपा गोपस्त्रियश् चैव कृष्ण कृष्णेति चुक्रुशुः ॥

5.14.8

सिंहनादं ततश् चक्रे तलशब्दं च केशवः
तच्छब्दश्रवणाच् चासौ दामोदरमुखं ययौ ॥

5.14.9

अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥

5.14.10

आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः
न चचाल ततः स्थानाद् अवज्ञास्मितलीलया ॥

5.14.11

आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः
जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥

5.14.12

तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः
अपीडयद् अरिष्टस्य कण्ठं क्लिन्नम् इवाम्बरम् ॥

5.14.13

उत्पाट्य शृङ्गम् एकं तु तेनैवाताडयत् ततः
ममार सहसा दैत्यो मुखाच् छोणितम् उद्वमन् ॥

5.14.14

तुष्टुवुर् निहते तस्मिन् दैत्ये गोपा जनार्दनम्
जम्भे हते सहस्राक्षं पुरा देवगणा यथा ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc