भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.12

5.12.1

धृते गोवर्धने शैले परित्राते च गोकुले
रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः ॥

5.12.2

सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित्
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥

5.12.3

चारयन्तं महावीर्यं गाश् च गोपवपुर्धरम्
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥

5.12.4

गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विज
कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥

5.12.5

अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम्
शक्रः सस्मितम् आहेदं प्रीतिविस्तारितेक्षणः ॥

5.12.6

कृष्ण कृष्ण शृणुष्वेदं यदर्थम् अहम् आगतः
त्वत्समीपं महाभाग नैतच् चिन्त्यं त्वयान्यथा ॥

5.12.7

भारावतारणार्थाय पृथिव्याः पृथिवीतलम्
अवतीर्णो ऽखिलाधार त्वम् एव परमेश्वरः ॥

5.12.8

महभङ्गविरुद्धेन मया गोकुलनाशकाः
समादिष्टा महामेघास् तैश् चैतत् कदनं कृतम् ॥

5.12.9

त्रातास् ताश् च त्वया गावः समुत्पाट्य महागिरिम्
तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते ॥

5.12.10

साधितं कृष्ण देवानाम् अहं मन्ये प्रयोजनम्
त्वयायम् अद्रिप्रवरः करेणैकेन यद् धृतः ॥

5.12.11

गोभिश् च चोदितः कृष्ण त्वत्सकाशम् इहागतः
त्वया त्राताभिर् अत्यर्थं युष्मत्सत्कारकारणात् ॥

5.12.12

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः
उपेन्द्रत्वे गवाम् इन्द्रो गोविन्दस् त्वं भविष्यसि ॥

5.12.13

अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात्
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥

5.12.14

क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात्
प्रस्नवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुंधराम् ॥

5.12.15

अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम्
प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः ॥

5.12.16

गवाम् एतत् कृतं वाक्यं तथान्यद् अपि मे शृणु
यद् ब्रवीमि महाभाग भारावतरणेच्छया ॥

5.12.17

ममांशः पुरुषव्याघ्र पृथायां पृथिवीतले
अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा ॥

5.12.18

भारावतरणे साह्यं स ते वीरः करिष्यति
स रक्षणीयो भवता यथात्मा मधुसूदन ॥

5.12.19

जानामि भारते वंशे जातं पार्थं तवांशकम्
तम् अहं पालयिष्यामि यावत् स्थास्यामि भूतले ॥

5.12.20

यावन् महीतले शक्र स्थास्याम्य् अहम् अरिंदम
न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति ॥

5.12.21

कंसो नाम महाबाहुर् दैत्यो ऽरिष्टस् तथापरः
केशी कुवलयापीडो नरकाद्यास् तथापरे ॥

5.12.22

हतेष्व् एतेषु देवेन्द्र भविष्यति महाहवः
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥

5.12.23

स त्वं गच्छ न संतापं पुत्रार्थे कर्तुम् अर्हसि
नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥

5.12.24

अर्जुनार्थे त्व् अहं सर्वान् युधिष्ठिरपुरोगमान्
निवृत्ते भारते युद्धे कुन्त्यै दास्याम्य् अविक्षतान् ॥

5.12.25

इत्य् उक्तः संपरिष्वज्य देवराजो जनार्दनम्
आरुह्यैरावतं नागं पुनर् एव दिवं ययौ ॥

5.12.26

कृष्णो ऽपि सहितो गोभिर् गोपालैश् च पुनर् व्रजम्
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc