विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.11
महे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः
संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत् ॥
भो भो मेघा निशम्यैतद् वचनं वदतो मम
आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम् ॥
नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान्
कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत् ॥
आजीवो यः परस् तेषां गोपत्वस्य च कारणम्
ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम ॥
अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम्
साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ॥
इत्य् आज्ञप्ताः सुरेन्द्रेण मुमुचुस् ते बलाहकाः
वातवर्षं महाभीमम् अभावाय गवां द्विज ॥
ततः क्षणेन धरणी ककुभो ऽम्बरम् एव च
एकं धारामहासार पूरणेनाभवन् मुने ॥
विद्युल्लताकषाघात त्रस्तैर् इव घनैर् घनम्
नादापूरितदिक्चक्रैर् धारासारम् अपात्यत ॥
अन्धकारीकृते लोके वर्षद्भिर् अनिशं घनैः
अधश् चोर्ध्वं च तिर्यक् च जगद् आप्यम् इवाभवत् ॥
गावस् तु तेन पतता वर्षवातेन वेगिना
धूताः प्राणाञ् जहुः सन्न त्रिकसक्थिशिरोधराः ॥
क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या महामुने
गावो विवत्साश् च कृता वारिपूरेण चापराः ॥
वत्साश् च दीनवदना पवनाकम्पिकन्धराः
त्राहि त्राहीत्य् अल्पशब्दाः कृष्णम् ऊचुर् इवार्तकाः ॥
ततस् तद् गोकुलं सर्वं गोगोपीगोपसंकुलम्
अतीवार्तं हरिर् दृष्ट्वा मैत्रेयाचिन्तयत् तदा ॥
एतत् कृतं महेन्द्रेण महभङ्गविरोधिना
तद् एतद् अखिलं गोष्ठं त्रातव्यम् अधुना मया ॥
इमम् अद्रिम् अहं धैर्याद् उत्पाट्योरुशिलाघनम्
धारयिष्यामि गोष्ठस्य पृथुच्छत्रम् इवोपरि ॥
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम्
उत्पाट्यैककरेणैव धारयाम् आस लीलया ॥
गोपांश् चाह जगन्नाथः समुत्पाटितभूधरः
विशध्वम् अत्र सहिताः कृतं वर्षनिवारणम् ॥
सुनिवातेषु देशेषु यथाजोषम् इहास्यताम्
प्रविश्यतां न भेतव्यं गिरिपातस्य निर्भयैः ॥
इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह
शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः ॥
कृष्णो ऽपि तं दधारैव शैलम् अत्यन्तनिश्चलम्
व्रजौकोवासिभिर् हर्ष विस्मिताक्षैर् निरीक्षितः ॥
गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः
संस्तूयमानचरितः कृष्णः शैलम् अधारयत् ॥
सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले
इन्द्रेण चोदिता विप्र गोपानां नाशकारिणः ॥
ततो धृते महाशैले परित्राते च गोकुले
मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान् ॥
व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्य् अथ
निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनर् आगमत् ॥
मुमोच कृष्णो ऽपि तदा गोवर्धनमहाचलम्
स्वस्थाने विस्मितमुखैर् दृष्टस् तैस् तु व्रजौकसैः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0