भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.1

5.1.1

नृपाणां कथितः सर्वो भवता वंशविस्तरः
वंशानुचरितं चैव यथावद् अनुवर्णितम् ॥

5.1.2

अंशावतारो ब्रह्मर्षे यो ऽयं यदुकुलोद्भवः
विष्णोस् तं विस्तरेणाहं श्रोतुम् इच्छाम्य् अशेषतः ॥

5.1.3

चकार यानि कर्माणि भगवान् पुरुषोत्तमः
अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥

5.1.4

मैत्रेय श्रूयताम् एतद् यत् पृष्टो ऽहम् इह त्वया
विष्णोर् अंशांशसंभूति चरितं जगतो हितम् ॥

5.1.5

देवकस्य सुतां पूर्वं वसुदेवो महामुने
उपयेमे महाभागां देवकीं देवतोपमाम् ॥

5.1.6

कंसस् तयोर् वररथं चोदयाम् आस सारथिः
वसुदेवस्य देवक्याः संयोगे भोजवर्धनः ॥

5.1.7

अथान्तरिक्षे वाग् उच्चैः कंसम् आभाष्य सादरम्
मेघगम्भीरनिर्घोषं समाभाष्येदम् अब्रवीत् ॥

5.1.8

याम् एनां वहसे मूढ सह भर्त्रा रथे स्थिताम्
अस्यास् तवाष्टमो गर्भः प्राणान् अपहरिष्यति ॥

5.1.9

इत्य् आकर्ण्य समादाय खड्गं कंसो महाबलः
देवकीं हन्तुम् आरब्धो वसुदेवो ऽब्रवीद् इदम् ॥

5.1.10

न हन्तव्या महाभाग देवकी भवता तव
समर्पयिष्ये सकलान् गर्भान् अस्याउदरोद्भवान् ॥

5.1.11

तथेत्य् आह च तं कंसो वसुदेवं द्विजोत्तम
न घातयाम् आस च तां देवकीं तस्य गौरवात् ॥

5.1.12

एतस्मिन्न् एव काले तु भूरिभारावपीडिता
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥

5.1.13

सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी
कथयाम् आस तत् सर्वं खेदात् करुणभाषिणी ॥

5.1.14

अग्निः सुवर्णस्य गुरुर् गवां सूर्यः परो गुरुः
ममाप्य् अखिललोकानां गुरुर् नारायणो गुरुः ॥

5.1.15

प्रजापतिपतिर् ब्रह्मा पूर्वेषाम् अपि पूर्वजः
कलाकाष्ठानिमेषात्मा कालश् चाव्यक्तमूर्तिमान् ॥

5.1.16

तदंशभूतः सर्वेषां समूहो वः सुरोत्तमाः ॥

5.1.17

आदित्या मरुतः साध्या रुद्रा वस्वश्विवह्नयः
पितरो ये च लोकानां स्रष्टारो ऽत्रिपुरोगमाः ॥

5.1.18

एतत् तस्याप्रमेयस्य रूपं विष्णोर् महात्मनः ॥

5.1.19

यक्षराक्षसदैतेया पिशाचोरगदानवाः
गन्धर्वाप्सरसश् चैव रूपं विष्णोर् महात्मनः ॥

5.1.20

ग्रहर्क्षतारकाचित्र गगनाग्निजलानिलाः
अहं च विषयाश् चैतत् सर्वं विष्णुमयं जगत् ॥

5.1.21

तथाप्य् अनेकरूपस्य तस्य रूपाण्य् अहर्निशम्
बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥

5.1.22

तत्साम्प्रतम् इमे दैत्याः कालनेमिपुरोगमाः
मर्त्यलोकं समाक्रम्य बाधन्ते ऽहर्निशं प्रजाः ॥

5.1.23

कालनेमिर् हतो यो ऽसौ विष्णुना प्रभविष्णुना
उग्रसेनसुतः कंसः संभूतः स महासुरः ॥

5.1.24

अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा
सुन्दो ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः ॥

5.1.25

तथान्ये च महावीर्या नृपाणां भवनेषु ये
समुत्पन्ना दुरात्मानस् तान् न संख्यातुम् उत्सहे ॥

5.1.26

अक्षौहिण्यो ऽत्र बहुला दिव्यमूर्तिधराः सुराः
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥

5.1.27

तद्भूरिभारपीडार्ता न शक्नोम्य् अमरेश्वराः
बिभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः ॥

5.1.28

क्रियतां तन् महाभागा मम भारावतारणम्
यथा रसातलं नाहं गच्छेयम् अतिविह्वला ॥

5.1.29

इत्य् आकर्ण्य धरावाक्यम् अशेषं त्रिदशैस् ततः
भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥

5.1.30

यथाह वसुधा सर्वं सत्यम् एतद् दिवौकसः
अहं भवो भवन्तश् च सर्वं नारायणात्मकम् ॥

5.1.31

विभूतयस् तु यास् तस्य तासाम् एव परस्परम्
आधिक्यन्यूनता बाध्य बाधकत्वेन वर्तते ॥

5.1.32

तद् आगच्छत गच्छामः क्षीराब्धेस् तटम् उत्तरम्
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥

5.1.33

सर्वदैव जगत्य् अर्थे स सर्वात्मा जगन्मयः
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥

5.1.34

इत्य् उक्त्वा प्रययौ तत्र सह देवैः पितामहः
समाहितमतिश् चैनं तुष्टाव गरुडध्वजम् ॥

5.1.35

द्वे विद्ये त्वम् अनाम्नाय परा चैवापरा तथा
त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥

5.1.36

द्वे ब्रह्मणी त्व् अणीयो ऽति स्थूलात्मन् सर्वसर्ववित्
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥

5.1.37

ऋग्वेदस् त्वं यजुर्वेदः सामवेदस् त्व् अथर्व च
शिक्षा कल्पो निरुक्तं च छन्दो ज्योतिषम् एव च ॥

5.1.38

इतिहासपुराणे च तथा व्याकरणं प्रभो
मीमांसा न्यायिकं तद्वद् धर्मशास्त्राण्य् अधोक्षज ॥

5.1.39

आत्मात्मदेहगुणवद् विचाराचारि यद् वचः
तद् अप्य् आद्यपते नान्यद् अध्यात्मात्मस्वरूपवत् ॥

5.1.40

त्वम् अव्यक्तम् अनिर्देश्यम् अचिन्त्यानामवर्णवत्
अपाणिपादरूपं च विष्णुर् नित्यं परात् परम् ॥

5.1.41

शृणोष्य् अकर्णः परिपश्यसि त्वम् अचक्षुर् एको बहुरूपरूपः
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं न च सर्ववेद्यः ॥

5.1.42

अणोर् अणीयांसम् असत्स्वरूपं त्वां पश्यतो ऽज्ञाननिवृत्तिर् अग्र्या
धीर् अस्य धीर्यस्य बिभर्ति नान्यद् वरेण्यरूपात् परतः परात्मन् ॥

5.1.43

त्वं विश्वम् आदिर् भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि
यद् भूतभव्यं तद् अणोर् अणीयः पुमांस् त्वम् एकः प्रकृतेः परस्तात् ॥

5.1.44

एकश् चतुर्धा भगवान् हुताशो वर्चोविभूतिं जगतो ददाति
त्वं विश्वतश् चक्षुर् अनन्तमूर्ते त्रेधा पदं त्वं निदधे विधातः ॥

5.1.45

यथाग्निर् एको बहुधा समिध्यते विकारभेदैर् अविकाररूपः
तथा भवान् सर्वगतैकरूपो रूपाण्य् अनेकान्य् अनुपुष्यतीशः ॥

5.1.46

एकस् त्वम् अग्र्यं परमं पदं यत् पश्यन्ति त्वां सूरयो ज्ञानदृश्यम्
त्वत्तो नान्यत् किंचिद् अस्ति स्वरूपं यद् वा भूतं यच् च भव्यं परात्मन् ॥

5.1.47

व्यक्ताव्यक्तस्वरूपस् त्वं समष्टिव्यष्टिरूपवान्
सर्वज्ञः सर्वदृक् सर्व शक्तिज्ञानबलर्द्धिमान् ॥

5.1.48

अन्यूनश् चाप्य् अवृद्धिश् च स्वाधीनो ऽनादिमान् वशी
क्लमतन्द्रीभयक्रोध कामादिभिर् असंयुतः ॥

5.1.49

निरवद्यः परः शान्तो निरधिष्ठो ऽक्षरः क्रमः
सर्वेश्वर पराधार धाम्नां धामात्मको ऽक्षयः ॥

5.1.50

सकलावरणातीत निरालम्बनभावन
महाविभूतिसंस्थान नमस् ते पुरुषोत्तम ॥

5.1.51

नाकारणात् कारणाद् वा कारणाकारणान् न च
शरीरग्रहणं व्यापिन् धर्मत्राणाय ते परम् ॥

5.1.52

इत्य् एवं संस्तवं श्रुत्वा मनसा भगवान् अजः
ब्रह्माणम् आह विश्वात्मा विश्वरूपधरो हरिः ॥

5.1.53

भो भो ब्रह्मंस् त्वया मत्तः सह देवैर् यद् इष्यते
तद् उच्यताम् अशेषं च सिद्धम् एवावधार्यताम् ॥

5.1.54

ततो ब्रह्मा हरेर् दिव्यं विश्वरूपं समीक्ष्य तत्
तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥

5.1.55

नमो नमस् ते ऽस्तु सहस्रमूर्ते सहस्रबाहो बहुवक्त्रपाद
नमो नमस् ते जगतः प्रवृत्ति विनाशसंस्थानकराप्रमेय ॥

5.1.56

सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाण गरीयसाम् अप्य् अतिगौरवात्मन्
प्रधानबुद्धीन्द्रियवत्प्रधान मूलात् परात्मन् भगवन् प्रसीद ॥

5.1.57

एषा मही देव महीप्रसूतैर् महासुरैः पीडितशैलबन्धा
परायणं त्वां जगताम् उपैति भारावतारार्थम् अपारपारम् ॥

5.1.58

एते वयं वृत्ररिपुस् तथायं नासत्यदस्रौ वरुणस् तथैषः
इमे च रुद्रा वसवः ससूर्याः समीरणाग्निप्रमुखास् तथान्ये ॥

5.1.59

सुराः समस्ताः सुरनाथ कार्यम् एभिर् मया यच् च तद् ईश सर्वम्
आज्ञापयाज्ञां परिपालयन्तस् तथैव तिष्ठाम सदास्तदोषाः ॥

5.1.60

एवं संस्तूयमानस् तु भगवान् परमेश्वरः
उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥

5.1.61

उवाच च सुरान् एतौ मत्केशौ वसुधातले
अवतीर्य भुवो भार क्लेशहानिं करिष्यतः ॥

5.1.62

सुराश् च सकलाः स्वांशैर् अवतीर्य महीतले
कुर्वन्तु युद्धम् उन्मत्तैः पूर्वोत्पन्नैर् महासुरैः ॥

5.1.63

ततः क्षयम् अशेषास् ते दैतेया धरणीतले
प्रयास्यन्ति न संदेहो मद्दृक्पातविचूर्णिताः ॥

5.1.64

वसुदेवस्य या पत्नी देवकी देवतोपमा
तस्यायम् अष्टमो गर्भो मत्केशो भविता सुराः ॥

5.1.65

अवतीर्य च तत्रायं कंसं घातयिता भुवि
कालनेमिं समुद्भूतम् इत्य् उक्त्वान्तर्दधे हरिः ॥

5.1.66

अदृश्याय ततस् ते ऽपि प्रणिपत्य महात्मने
मेरुपृष्ठं सुरा जग्मुर् अवतेरुश् च भूतले ॥

5.1.67

कंसाय चाष्टमे गर्भे देवक्यां धरणीधरः
भविष्यतीत्य् आचचक्षे भगवान् नारदो मुनिः ॥

5.1.68

कंसो ऽपि तद् उपश्रुत्य नारदात् कुपितस् ततः
देवकीं वसुदेवं च गृहे गुप्ताव् अधारयत् ॥

5.1.69

जातं जातं च कंसाय तेनैवोक्तं यथा पुरा
तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विज ॥

5.1.70

हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः
विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत् ॥

5.1.71

योगनिद्रा महामाया वैष्णवी मोहितं यया
अविद्यया जगत् सर्वं ताम् आह भगवान् हरिः ॥

5.1.72

निद्रे गच्छ ममादेशात् पातालतलसंश्रयान्
एकैकश्येन षड् गर्भान् देवकीजठरं नय ॥

5.1.73

हतेषु तेषु कंसेन शेषाख्यो ऽंशस् ततो मम
अंशांशेनोदरे तस्याः सप्तमः संभविष्यति ॥

5.1.74

गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता
तस्याः स संभूतिसमं देवि नेयस् त्वयोदरम् ॥

5.1.75

सप्तमो भोजराजस्य भयाद् रोधोपरोधतः
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥

5.1.76

गर्भसंकर्षणात् सो ऽथ लोके संकर्षणेति वै
संज्ञाम् अवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥

5.1.77

ततो ऽहं संभविष्यामि देवकीजठरे शुभे
गर्भे त्वया यशोदाया गन्तव्यम् अविलम्बितम् ॥

5.1.78

प्रावृट्काले च नभसि कृष्णाष्टम्याम् अहं निशि
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वम् अवाप्स्यसि ॥

5.1.79

यशोदाशयने मां तु देवक्यास् त्वाम् अनिन्दिते
मच्छक्तिप्रेरितमतिर् वसुदेवो नयिष्यति ॥

5.1.80

कंसश् च त्वाम् उपादाय देवि शैलशिलातले
प्रक्षेप्स्यत्य् अन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥

5.1.81

ततस् त्वां शतदृक् छक्रः प्रणम्य मम गौरवात्
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥

5.1.82

ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः
स्थानैर् अनेकैः पृथिवीम् अशेषां मण्डयिष्यसि ॥

5.1.83

त्वं भूतिः सन्नतिः कीर्तिः क्षान्तिर् द्यौः पृथिवी धृतिः
लज्जा पुष्टिर् उषा या च काचिद् अन्या त्वम् एव सा ॥

5.1.83*1

या च काचन विद्येति मत्प्रसादात् त्वम् एव सा ॥

5.1.84

ये त्वाम् आर्येति दुर्गेति वेदगर्भे ऽम्बिकेति च
भद्रेति भद्रकालीति क्षेम्या क्षेमकरीति च ॥

5.1.85

प्रातश् चैवापराह्णे च स्तोष्यन्त्य् आनम्रमूर्तयः
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद् भविष्यति ॥

5.1.86

सुरामांसोपहारैस् तु भक्ष्यभोज्यैश् च पूजिता
नॄणाम् अशेषकामांस् त्वं प्रसन्ना संप्रदास्यसि ॥

5.1.87

ते सर्वे सर्वदा भद्रे मत्प्रसादाद् असंशयम्
असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc