विष्णुपुराण (समीक्षित संस्करण) · अध्याय 5.2
यथोक्तं सा जगद्धात्री देवदेवेन वै तदा
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥
सप्तमे रोहिणीं प्राप्ते गते गर्भे ततो हरिः
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥
योगनिद्रा यशोदायास् तस्मिन्न् एव ततो दिने
संभूता जठरे तद्वद् यथोक्तं परमेष्ठिना ॥
ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विज
विष्णोर् अंशे भुवं याते ऋतवश् चाभवन् शुभाः ॥
न सेहे देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभम् आययुः ॥
अदृष्टाः पुरुषैः स्त्रीभिर् देवकीं देवतागणाः
बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम् ॥
प्रकृतिस् त्वं परा सूक्ष्मा ब्रह्मगर्भाभवः पुरा
ततो वाणी जगद्धातुर् वेदगर्भातिशोभने ॥
सृज्यस्वरूपगर्भा च सृष्टिभूता सनातने
बीजभूता तु सर्वस्य यज्ञगर्भाभवस् त्रयी ॥
फलगर्भा त्वम् एवेज्या वह्निगर्भा तथारणिः
अदितिर् देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥
ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः
नयगर्भधरा नीतिर् लज्जा त्वं प्रश्रयोद्वहा ॥
कामगर्भा तथेच्छा त्वं त्वं तुष्टिस् तोषगर्भिणी
मेधा च बोधगर्भासि धैर्यगर्भोद्वहा धृतिः ॥
ग्रहर्क्षतारकागर्भा द्यौर् अस्याखिलहैतुकी
एता विभूतयो देवि तथान्याश् च सहस्रशः ॥
तथासंख्या जगद्धात्रि साम्प्रतं जठरे तव
समुद्रादिनदीद्वीप वनपत्तनभूषणा
ग्रामखर्वटखेटाढ्या समस्ता पृथिवी शुभे ॥
समस्तवह्नयो ऽम्भांसि सकलाश् च समीरणाः ॥
महोरगास् तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥
ग्रहर्क्षतारकाचित्रं विमानशतसंकुलम् ॥
अवकाशम् अशेषस्य यद् ददाति नभश् च तत् ॥
भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महर् जनः
तपश् च ब्रह्मलोकश् च ब्रह्माण्डम् अखिलं शुभे ॥
तदन्तर् ये स्थिता देवा दैत्यगन्धर्वचारणाः
महोरगास् तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥
मनुष्याः पशवश् चान्ये ये च जीवा यशस्विनि
तैर् अन्तःस्थैर् अनन्तो ऽसौ सर्वेशः सर्वभावनः ॥
रूपकर्मस्वरूपाणि न परिच्छेदगोचरे
यस्याखिलप्रमाणानि स विष्णुर् गर्भगस् तव ॥
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे
त्वं सर्वलोकरक्षार्थम् अवतीर्णा महीतले ॥
प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु
प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0