भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.24

4.24.22

यदा चन्द्रश् च सूर्यश् च यदा तिष्यबृहस्पती
एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥

4.24.23

अतीता वर्तमानाश् च तथैवानागताश् च ये
एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥

4.24.24

यावत् परीक्षितो जन्म यावन् नन्दाभिषेचनम्
एतद् वर्षसहस्रं तु ज्ञेयं पञ्चदशोत्तरम् ॥

4.24.25

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि
तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि
तेन सप्तर्षयो युक्तास् तिष्ठन्त्य् अब्दशतं नृणाम् ॥

4.24.26

ते तु पारीक्षिते काले मघास्व् आसन् द्विजोत्तम
तदा प्रवृत्तश् च कलिर् द्वादशाब्दशतात्मकः ॥

4.24.27

यदैव भगवद्विष्णोर् अंशो यातो दिवं द्विज
वसुदेवकुलोद्भूतस् तदैवात्रागतः कलिः ॥

4.24.28

यावत् स पादपद्माभ्यां पस्पर्शेमां वसुंधराम्
तावत् पृथ्वीपरिष्वङ्गे समर्थो नाभवत् कलिः ॥

4.24.29

गते सनातनस्यांशे विष्णोस् तत्र भुवो दिवम्
तत्याज सानुजो राज्यं धर्मपुत्रो युधिष्ठिरः ॥

4.24.30

विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः
याते कृष्णे चकाराथ सो ऽभिषेकं परीक्षितः ॥

4.24.31

प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः
तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति ॥

4.24.32

यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥

4.24.33

त्रीणि लक्षाणि वर्षाणां द्विज मानुषसंख्यया
षष्टिं चैव सहस्राणि भविष्यत्य् एष वै कलिः ॥

4.24.34

शतानि तानि दिव्यानि सप्त पञ्च च संख्यया
निःशेषेण ततस् तस्मिन् भविष्यति पुनः कृतम् ॥

4.24.35

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम
युगे युगे महात्मानः समतीताः सहस्रशः ॥

4.24.36

बहुत्वान् नामधेयानां परिसंख्या कुले कुले
पुनरुक्तबहुत्वात् तु न मया परिकीर्तिता ॥

4.24.37

देवापिः पौरवो राजा मरुश् चेक्ष्वाकुवंशजः
महायोगबलोपेतौ कलापग्रामसंश्रयौ ॥

4.24.38

कृते युग इहागत्य क्षत्रप्रावर्तकौ हि तौ
भविष्यतो मनोर् वंश बीजभूतौ व्यवस्थितौ ॥

4.24.39

एतेन क्रमयोगेन मनुपुत्रैर् वसुंधरा
कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते ॥

4.24.40

कलौ तु बीजभूतास् ते केचित् तिष्ठन्ति भूतले
यथैव देवापिमरू साम्प्रतं समवस्थितौ ॥

4.24.41

एष तूद्देशतो वंशस् तवोक्तो भूभुजां मया
निखिलो गदितुं शक्यो नैव जन्मशतैर् अपि ॥

4.24.42

एते चान्ये च भूपाला यैर् अत्र क्षितिमण्डले
कृतं ममत्वं मोहान्धैर् नित्ये ऽनित्यकलेवरैः ॥

4.24.43

कथं ममेयम् अचला मत्पुत्रस्य कथं मही
मद्वंशस्येति चिन्तार्ता जग्मुर् अन्तम् इमे नृपाः ॥

4.24.44

तेभ्यः पूर्वतराश् चान्ये तेभ्यस् तेभ्यस् तथापरे
भविष्याश् चैव यास्यन्ति तेषाम् अन्ये च ये ऽध्य् अनु ॥

4.24.45

विलोक्यात्मजयोद्योग यात्राव्यग्रान् नराधिपान्
पुष्पप्रहासैः शरदि हसतीव वसुंधरा ॥

4.24.46

मैत्रेय पृथिवीगीताः श्लोकाश् चात्र निबोध तान्
यान् आह धर्मध्वजिने जनकायासितो मुनिः ॥

4.24.47

कथम् एष नरेन्द्राणां मोहो बुद्धिमताम् अपि
येन फेनसधर्माणो ऽप्य् अतिविश्वस्तचेतसः ॥

4.24.48

पूर्वम् आत्मजयं कृत्वा जेतुम् इच्छन्ति मन्त्रिणः
ततो भृत्यांश् च पौरांश् च जिगीषन्ते तथा रिपून् ॥

4.24.49

क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम्
इत्य् आसक्तधियो मृत्युं न पश्यन्त्य् अविदूरगम् ॥

4.24.50

समुद्रावरणं याति मन्मण्डलम् अथो वशम्
कियद् आत्मजयाद् एतन् मुक्तिर् आत्मजये फलम् ॥

4.24.51

उत्सृज्य पूर्वजा याता यां नादाय गतः पिता
तां ममेति विमूढत्वाज् जेतुम् इच्छन्ति पार्थिवाः ॥

4.24.52

मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः
जायन्ते ऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥

4.24.53

पृथ्वी ममेयं सकला ममेयं मदन्वयस्यापि च शाश्वतेयम्
यो यो मृतो ह्य् अत्र बभूव राजा कुबुद्धिर् आसीद् इति तस्य तस्य ॥

4.24.54

दृष्ट्वा ममत्वादृतचित्तम् एकं विहाय मां मृत्युपथं व्रजन्तम्
तस्यान्वयस्थस्य कथं ममत्वं हृद्य् आस्पदं मत्प्रभवं करोति ॥

4.24.55

पृथ्वी ममैषाशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रुम्
नराधिपास् तेषु ममातिहासः पुनश् च मूढेषु दयाभ्युपैति ॥

4.24.56

इत्य् एते धरणीगीताः श्लोका मैत्रेय यैः श्रुतैः
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥

4.24.57

इत्य् एष कथितः सम्यङ् मनोर् वंशो मया तव
यत्र स्थितिप्रवृत्तस्य विष्णोर् अंशांशका नृपाः ॥

4.24.58

शृणोति य इमं भक्त्या मनोर् वंशम् अनुक्रमात्
तस्य पापम् अशेषं वै प्रणश्यत्य् अमलात्मनः ॥

4.24.59

धनधान्यर्द्धिम् अतुलां प्राप्नोत्य् अव्याहतेन्द्रियः
श्रुत्वैवम् अखिलं वंशं प्रशस्तं शशिसूर्ययोः
इक्ष्वाकुजह्नुमान्धातृ सगराविक्षितान् रघून् ॥

4.24.60

ययातिनहुषाद्यांश् च ज्ञात्वा निष्ठाम् उपागतान्
महाबलान् महावीर्यान् अनन्तधनसंचयान् ॥

4.24.61/

कृतान् कालेन बलिना कथाशेषान् नराधिपान् ॥

4.24.62

श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा
द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥

4.24.63

तप्तं तपो यैः पुरुषप्रवीरैर् उद्बाहुभिर् वर्षगणान् अनेकान्
इष्टाश् च यज्ञा बलिनो ऽतिवीर्याः कृतास् तु कालेन कथावशेषाः ॥

4.24.64

पृथुः समस्तान् प्रचचार लोकान् अव्याहतो यो ऽरिविदारिचक्रः
स कालवाताभिहतो विनष्टः क्षिप्तं यथा शाल्मलितूलम् अग्नौ ॥

4.24.65

यः कार्तवीर्यो बुभुजे समस्तान् द्वीपान् समाक्रम्य हतारिचक्रः
कथाप्रसङ्गेष्व् अभिधीयमानः स एव संकल्पविकल्पहेतुः ॥

4.24.66

दशाननावीक्षितराघवाणाम् ऐश्वर्यम् उद्भासितदिङ्मुखानाम्
भस्मापि जातं न कथं क्षणेन भ्रूभङ्गपातेन धिग् अन्तकस्य ॥

4.24.67

कथाशरीरत्वम् अवाप यद् वै मान्धातृनामा भुवि चक्रवर्ती
श्रुत्वापि तं को हि करोति साधुर् ममत्वम् आत्मन्य् अपि मन्दचेताः ॥

4.24.68

भगीरथाद्याः सगरः ककुत्स्थो दशाननो राघवलक्ष्मणौ च
युधिष्ठिराद्याश् च बभूवुर् एते सत्यं न मिथ्या क्व नु ते न विद्मः ॥

4.24.69

ये साम्प्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्याः
ये ते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥

4.24.70

एतद् विदित्वा न नरेण कार्यं ममत्वम् आत्मन्य् अपि पण्डितेन
तिष्ठन्तु तावत् तनयात्मजायाः क्षेत्रादयो ये तु शरीरतो ऽन्ये ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc