विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.1
भगवन् यन् नरैः कार्यं साधुकर्मण्य् अवस्थितैः
तन् मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥
वर्णधर्मास् तथाख्याता धर्मा ये चाश्रमेषु वै
श्रोतुम् इच्छाम्य् अहं वंशांस् तांस् त्वं प्रब्रूहि मे गुरो ॥
ब्रह्माद्यं यो मनोर् वंशम् अहन्य् अहनि संस्मरेत्
तस्य वंशसमुच्छेदो न कदाचिद् भविष्यति ॥
मरुत्तस्य यथा यज्ञस् तथा कस्याभवद् भुवि
सर्वं हिरण्मयं यस्य यज्ञवस्त्व् अतिशोभनम् ॥
अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः
मरुतः परिवेष्टारः सदस्याश् च दिवौकसः ॥
तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः
दीर्घायुषो महात्मानो वीर्यवन्तो ऽतिधार्मिकाः ॥
तस्य च रेवती नाम कन्या ।
ताम् आदाय कस्येयम् अर्हतीति भगवन्तम् अब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ॥
पुनश् च प्रणम्य भगवते तस्मै यथाभिमतान् आत्मनः स वरान् कथयाम् आस ।
क एषां भगवतो ऽभिमतो यस्मै कन्याम् इमां प्रयच्छामीति ॥
न ह्य् आदिमध्यान्तम् अजस्य यस्य विद्मो वयं सर्वमयस्य धातुः
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥
कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः
अजन्मनाशस्य समस्तमूर्तेर् अनामरूपस्य सनातनस्य ॥
यस्य प्रसादाद् अहम् अच्युतस्य भूतः प्रजासृष्टिकरो ऽन्तकारी
क्रोधाच् च रुद्रः स्थितिहेतुभूतो यस्माच् च मध्ये पुरुषः परस्मात् ॥
मद्रूपम् आस्थाय सृजत्य् अजो यः स्थितौ च यो ऽसौ पुरुषस्वरूपी
रुद्रस्वरूपेण च यो ऽत्ति विश्वं धत्ते तथानन्तवपुः समस्तम् ॥
शक्रादिरूपी परिपाति विश्वम् अर्केन्दुरूपश् च तमो हिनस्ति
पाकाय यो ऽग्नित्वम् उपेत्य लोकान् बिभर्ति पृथ्वीवपुर् अव्ययात्मा ॥
चेष्टां करोति श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी
ददाति विश्वस्थितिसंस्थितस् तु सर्वावकाशं च नभःस्वरूपी ॥
यः सृज्यते सर्गकृद् आत्मनैव यः पाल्यते पालयिता च देवः
विश्वात्मना संह्रियते ऽन्तकारी पृथक् त्रयस्यास्य च यो ऽव्ययात्मा ॥
यस्मिञ् जगद् यो जगद् एतद् आद्यो यश् चाश्रितो ऽस्मिञ् जगति स्वयंभूः
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर् नृपते ऽवतीर्णः ॥
कुशस्थली या तव भूप रम्या पुरी पुराभूद् अमरावतीव
सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥
तस्मै त्वम् एनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम्
श्लाघ्यो वरो ऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥
इतीरितो ऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम्
ददर्श ह्रस्वान् पुरुषान् अशेषान् अल्पौजसः स्वल्पविवेकवीर्यान् ॥
कुशस्थलीं तां च पुरीम् उपेत्य दृष्ट्वान्यरूपां प्रददौ स्वकन्याम्
सीरध्वजाय स्फटिकाचलाभ वक्षःस्थलायातुलधीर् नरेन्द्रः ॥
उच्चप्रमाणाम् इति ताम् अवेक्ष्य स्वलाङ्गलाग्रेण स तालकेतुः
विनामयाम् आस ततश् च सापि बभूव सद्यो वनिता यथान्या ॥
तां रेवतीं रैवतभूपकन्यां सीरायुधो ऽसौ विधिनोपयेमे
दत्त्वा च कन्यां स नृपो जगाम हिमालयं वै तपसे धृतात्मा ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0