भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.2

4.2.7

एते क्षत्रप्रसूता वै पुनश् चाङ्गिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥

4.2.44

निर्वेष्टुकामो ऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभाङ्क्षीः
न ह्य् अर्थिनः कार्यवशाभ्युपेताः ककुत्स्थगोत्रे विमुखाः प्रयान्ति ॥

4.2.45

अन्ये ऽपि सन्त्य् एव नृपाः पृथिव्यां क्ष्मापाल येषांतनयाः प्रसूताः
किंत्व् अर्थिनाम् अर्थितदानदीक्षा कृतव्रतं श्लाघ्यम् इदं कुलं ते ॥

4.2.46

शतार्धसंख्यास् तव सन्ति कन्यास् तासां ममैकां नृपते प्रयच्छ
यत् प्रार्थनाभङ्गभयाद् बिभेमि तस्माद् अहं राजवरातिदुःखात् ॥

4.2.48

नरेन्द्र कस्मात् समुपैषि चिन्ताम् अशक्यम् उक्तं न मयात्र किंचित्
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धम् ॥

4.2.56

अलं भगिन्यो ऽहम् इमं वृणोमि वृतो मया नैष तवानुरूपः
ममैव भर्ता विधिनैष सृष्टः सृष्टाहम् अस्योपशमं प्रयाहि ॥

4.2.57

वृतो मयायं प्रथमं मयायं गृहं विशन्न् एव विहन्यसे किम्
मया मयेति क्षितिपात्मजानां तदर्थम् अत्यर्थकलिर् बभूव ॥

4.2.58

यदा तु सर्वाभिर् अतीव हार्दाद् वृतः स कन्याभिर् अनिन्द्यकीर्तिः
तदा स कन्याधिकृतो नृपाय यथावद् आचष्ट विनम्रमूर्तिः ॥

4.2.78

मनोरथानां न समाप्तिर् अस्ति वर्षायुतेनापि तथाब्दलक्षैः
पूर्णेषु पूर्णेषु पुनर् नवानाम् उत्पत्तयः सन्ति मनोरथानाम् ॥

4.2.79

पद्भ्यां गता यौवनिनश् च जाता दारैश् च संयोगम् इताः प्रसूताः
दृष्टाः सुतास् तत्तनयप्रसूतिं द्रष्टुं पुनर् वाञ्छति मे ऽन्तरात्मा ॥

4.2.80

द्रक्ष्यामि तेषाम् अपि चेत् प्रसूतिं मनोरथो मे भविता ततो ऽन्यः
पूर्णे ऽपि तत्राप्य् अपरस्य जन्म निवार्यते केन मनोरथस्य ॥

4.2.81

आमृत्युतो नैव मनोरथानाम् अन्तो ऽस्ति विज्ञातम् इदं मयाद्य
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥

4.2.82

स मे समाधिर् जलवासमित्र मत्स्यस्य सङ्गात् सहसैव नष्टः
परिग्रहः सङ्गकृतो ममायं परिग्रहोत्था च महाविधित्सा ॥

4.2.83

दुःखं यदैवैकशरीरजन्म शतार्धसंख्यं यद् इदं प्रसूतम्
परिग्रहेण क्षितिपात्मजानां सुतैर् अनेकैर् बहुलीकृतं तत् ॥

4.2.84

सुतात्मजैस् तत्तनयैश् च भूयो भूयश् च तेषां स्वपरिग्रहेण
विस्तारम् एष्यत्य् अतिदुःखहेतुः परिग्रहो वै ममतानिधानम् ॥

4.2.85

चीर्णं तपो यत् तु जलाश्रयेण तस्यर्द्धिर् एषा तपसो ऽन्तरायः
मत्स्यस्य सङ्गाद् अभवच् च यो मे सुतादिरागो मुषितो ऽस्मि तेन ॥

4.2.86

निःसङ्गता मुक्तिपदं यतीनां सङ्गाद् अशेषाः प्रभवन्ति दोषाः
आरूढयोगो ऽपि निपात्यते ऽधः सङ्गेन योगी किम् उताल्पसिद्धिः ॥

4.2.87

अहं चरिष्यामि तथात्मनो ऽर्थे परिग्रहग्राहगृहीतबुद्धिः
यथा हि भूयः परिहीनदोषो जनस्य दुःखैर् भविता न दुःखी ॥

4.2.88

सर्वस्य धातारम् अचिन्त्यरूपम् अणोर् अणीयांसम् अतिप्रमाणम्
सितासितं चेश्वरम् ईश्वराणाम् आराधयिष्ये तपसैव विष्णुम् ॥

4.2.89

तस्मिन्न् अशेषौजसि सर्वरूपिण्य् अव्यक्तविस्पष्टतनाव् अनन्ते
ममाचलं चित्तम् अपेतदोषं सदास्तु विष्णाव् अभवाय भूयः ॥

4.2.90

समस्तभूताद् अमलाद् अनन्तात् सर्वेश्वराद् अन्यद् अनादिमध्यात्
यस्मान् न किंचित् तम् अहं गुरूणां परं गुरुं संश्रयम् एमि विष्णुम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc