विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.18
तपस्य् अभिरतान् सो ऽथ मायामोहो महासुरान्
मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रयान् ॥
ततो दिगम्बरो मुण्डो बर्हिपत्रधरो द्विज
मायामोहो ऽसुरान् श्लक्ष्णम् इदं वचनम् अब्रवीत् ॥
भो दैत्यपतयो ब्रूत यदर्थं तप्यते तपः
ऐहिकं वाथ पारत्र्यं तपसः फलम् इच्छथ ॥
पारत्र्यफललाभाय तपश्चर्या महामते
अस्माभिर् इयम् आरब्धा किं वा ते ऽत्र विवक्षितम् ॥
कुरुध्वं मम वाक्यानि यदि मुक्तिम् अभीप्सथ
अर्हध्वं धर्मम् एतं च मुक्तिद्वारम् असंवृतम् ॥
धर्मो विमुक्तेर् अर्हो ऽयं नैतस्माद् अपरः परः
अत्रैवावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥
अर्हध्वं धर्मम् एतं च सर्वे यूयं महाबलाः ॥
एवंप्रकारैर् बहुभिर् युक्तिदर्शनवर्धितैः
मायामोहेन दैत्यास् ते वेदमार्गाद् अपाकृताः ॥
धर्मायैतद् अधर्माय सद् एतन् न सद् इत्य् अपि
विमुक्तये त्व् इदं नैतद् विमुक्तिं संप्रयच्छति ॥
परमार्थो ऽयम् अत्यर्थं परमार्थो न चाप्य् अयम् ॥
कार्यम् एतद् अकार्यं च नैतद् एवं स्फुटं त्व् इदम्
दिग्वाससाम् अयं धर्मो धर्मो ऽयं बहुवाससाम् ॥
इत्य् अनेकान्तवादं च मायामोहेन नैकधा
तेन दर्शयता दैत्याः स्वधर्मांस् त्याजिता द्विज ॥
अर्हथेमं महाधर्मं मायामोहेन ते यतः
प्रोक्तास् तम् आश्रिता धर्मम् अर्हतास् तेन ते ऽभवन् ॥
त्रयीधर्मसमुत्सर्गं मायामोहेन ते ऽसुराः
कारितास् तन्मया ह्य् आसंस् तथान्ये तत्प्रबोधिताः ॥
तैर् अप्य् अन्ये परे तैश् च तैर् अप्य् अन्ये परे च तैः
अल्पैर् अहोभिः संत्यक्ता तैर् दैत्यैः प्रायशस् त्रयी ॥
पुनश् च रक्ताम्बरधृङ् मायामोहो ऽजितेक्षणः
अन्यान् आहासुरान् गत्वा मृद्वल्पमधुराक्षरम् ॥
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थम् अथासुराः
तद् अलं पशुघातादि दुष्टधर्मं निबोधत ॥
विज्ञानमयम् एवैतद् अशेषम् अवगच्छत
बुध्यध्वं मे वचः सम्यग् बुधैर् एवम् उदीरितम् ॥
जगद् एतद् अनाधारं भ्रान्तिज्ञानार्थतत्परम्
रागादिदुष्टम् अत्यर्थं भ्राम्यते भवसंकटे ॥
एवं बुध्यत बुध्यध्वं बुध्यतैवम् इतीरयन्
मायामोहः स दैत्येयान् धर्मम् अत्याजयन् निजम् ॥
नानाप्रकारवचनं स तेषां युक्तियोजितम्
तथा तथावदद् धर्मं तत्यजुस् ते यथा यथा ॥
ते ऽप्य् अन्येषां तथैवोचुर् अन्यैर् अन्ये तथोदिताः
मैत्रेय तत्यजुर् धर्मं वेदस्मृत्युदितं परम् ॥
अन्यान् अप्य् अन्यपाषण्ड प्रकारैर् बहुभिर् द्विज
दैतेयान् मोहयाम् आस मायामोहो ऽतिमोहकृत् ॥
स्वल्पेनैव हि कालेन मायामोहेन ते ऽसुराः
मोहितास् तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम् ॥
केचिद् विनिन्दां वेदानां देवानाम् अपरे द्विज
यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम् ॥
नैतद् युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते
हवींष्य् अनलदग्धानि फलायेत्य् अर्भकोदितम् ॥
यज्ञैर् अनेकैर् देवत्वम् अवाप्येन्द्रेण भुज्यते
शम्यादि यदि चेत् काष्ठं तद्वरं पत्रभुक् पशुः ॥
.... .... भवेद् यज्ञस्य साधनम् ॥
तदाहारस् तदा नित्यं .... .... ॥
निहतस्य पशोर् यज्ञे स्वर्गप्राप्तिर् यदीष्यते
स्वपिता यजमानेन किं नु तस्मान् न हन्यते ॥
तृप्तये जायते पुंसो भुक्तम् अन्येन चेत् ततः
दद्याच् छ्राद्धं श्रद्धयान्नं न वहेयुः प्रवासिनः ॥
जनश्रद्धेयम् इत्य् एतद् अवगम्य ततो ऽत्र वः
उपेक्षा श्रेयसी वाक्यं रोचतां यन् मयेरितम् ॥
न ह्य् आप्तवादा नभसो निपतन्ति महासुराः
युक्तिमद् वचनं ग्राह्यं मयान्यैश् च भवद्विधैः ॥
मायामोहेन ते दैत्याः प्रकारैर् बहुभिस् तथा
व्युत्थापिता यथा नैषां त्रयीं कश्चिद् अरोचयत् ॥
इत्थम् उन्मार्गयातेषु तेषु दैत्येषु ते ऽमराः
उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥
ततो देवासुरं युद्धं पुनर् एवाभवद् द्विज
हताश् च ते ऽसुरा देवैः सन्मार्गपरिपन्थिनः ॥
सद्धर्मकवचस् तेषाम् अभूद् यः प्रथमं द्विज
तेन रक्षाभवत् पूर्वं नेशुर् नष्टे च तत्र ते ॥
ततो मैत्रेय तन्मार्ग वर्तिनो ये ऽभवञ् जनाः
नग्नास् ते तैर् यतस् त्यक्तं त्रयीसंवरणं वृथा ॥
कृताश् च ते ऽसुरा देवैर् नानावेदविनिन्दकाः ॥
ब्रह्मचारी गृहस्थश् च वानप्रस्थस् तथाश्रमाः
परिव्राड् वा चतुर्थो ऽत्र पञ्चमो नोपपद्यते ॥
यस् तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते
परिव्राड् वापि मैत्रेय स नग्नः पापकृन् नरः ॥
नित्यानां कर्मणां विप्र तस्य हानिर् अहर्निशम्
अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने ॥
प्रायश्चित्तेन महता शुद्धिं प्राप्नोत्य् अनापदि
पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥
संवत्सरं क्रियाहानिर् यस्य पुंसो ऽभिजायते
तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा ॥
स्पृष्टे स्नानं सचैलस्य शुद्धिहेतुर् महामुने
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥
देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि
प्रयान्त्य् अनर्चितान्य् अत्र न तस्मात् पापकृन् नरः ॥
देवादिनिःश्वासहतं शरीरं यस्य वेश्म च
न तेन संकरं कुर्याद् गृहासनपरिच्छदैः ॥
संभाषणानुप्रश्नादि सहास्यं चैव कुर्वतः
जायते तुल्यता पुंसस् तेनैव द्विज वत्सरम् ॥
अथ भुङ्क्ते गृहे तस्य करोत्य् आस्यां तथासने
शेते चाप्य् एकशयने स सद्यस् तत्समो भवेत् ॥
देवतापितृभूतानि तथानभ्यर्च्य यो ऽतिथीन्
भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस् तस्य कीदृशी ॥
ब्राह्मणाद्याश् च ये वर्णाः स्वधर्माद् अन्यतोमुखम्
यान्ति ते नग्नसंज्ञां तु हीनकर्मस्व् अवस्थिताः ॥
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः
तत्रास्या साधुवृत्तीनाम् उपघाताय जायते ॥
अनभ्यर्च्य ऋषीन् देवान् पितृभूतातिथींस् तथा
यो भुङ्क्ते तस्य संभाषात् पतन्ति नरके नराः ॥
तस्माद् एतान् नरो नग्नांस् त्रयीसंत्यागदूषितान्
सर्वदा वर्जयेत् प्राज्ञ आलापस्पर्शनादिषु ॥
श्रद्धावद्भिः कृतं यत्नाद् देवान् पितृपितामहान्
न प्रीणयति तच् छ्राद्धं यद्य् एभिर् अवलोकितम् ॥
श्रूयते च पुरा ख्यातो राजा शतधनुर् भुवि
पत्नी च शैब्या तस्याभूद् अतिधर्मपरायणा ॥
पतिव्रता महाभागा सत्यशौचदयान्विता
सर्वलक्षणसंपन्ना संपन्ना विनयेन च ॥
स तु राजा तया सार्धं देवदेवं जनार्दनम्
आराधयाम् आस विभुं परमेण समाधिना ॥
होमैर् जपैस् तथा दानैर् उपवासैश् च भक्तितः
पूजाभिश् चानुदिवसं तन्मना नान्यमानसः ॥
एकदा तु समं स्नातौ तौ तु भार्यापती जले
भागीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ
पाषण्डिनम् अपश्येताम् आयान्तं संमुखं द्विज ॥
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः
अतस् तद्गौरवात् तेन सहालापम् अथाकरोत् ॥
न तु सा वाग्यता देवी तस्य पत्नी यतव्रता
उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च ॥
समागम्य यथान्यायं दम्पती तौ यथाविधि
विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम ॥
कालेन गच्छता राजा ममारासौ सपत्नजित्
अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः
उपोषितेन पाषण्ड संभाषो यः कृतो ऽभवत् ॥
सापि जातिस्मरा जज्ञे काशिराजसुता शुभा
सर्वविज्ञानसंपन्ना सर्वलक्षणभूषिता ॥
तां पिता दातुकामो ऽभूद् वराय विनिवारितः
तयैव तन्व्या विरतो विवाहारम्भतो नृपः ॥
ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम्
वैदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥
तं दृष्ट्वैव महाभागा श्वानभूतं पतिं तथा
ददौ तस्मै वराहारं सत्कारप्रवणं शुभम् ॥
भुञ्जन् दत्तं तया सो ऽन्नम् अतिमिष्टम् अभीप्सितम्
श्वजातिललितं कुर्वन् बहु चाटु चकार वै ॥
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा
प्रणामपूर्वम् आहेदं दयितं तं कुयोनिजम् ॥
स्मर्यतां तन् महाराज दाक्षिण्यललितं त्वया
येन श्वयोनिम् आपन्नो मम चाटुकरो भवान् ॥
पाषण्डिनं समाभाष्य तीर्थस्नानाद् अनन्तरम्
प्राप्तो ऽसि कुत्सितां योनिं किं न स्मरसि तत् प्रभो ॥
तयैवं स्मारिते तत्र पूर्वजातिकृते तदा
दध्यौ चिरम् अथावाप निर्वेदम् अतिदुर्लभम् ॥
निर्विण्णचित्तः स ततो निर्गम्य नगराद् बहिः
मरुप्रपतनं कृत्वा शार्गालीं योनिम् आगतः ॥
सापि द्वितीये संप्राप्ते वर्षे दिव्येन चक्षुषा
ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥
तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिम् आगतम्
भर्तारम् अपि चार्वङ्गी तनया पृथिवीक्षितः ॥
अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन् मया
प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥
पुनस् तयोक्तं तज् ज्ञात्वा सत्यं सत्यवतां वरः
कानने स निराहारस् तत्याज स्वं कलेवरम् ॥
भूयस् ततो वृकं जातं गत्वा तं निर्जने वने
स्मारयाम् आस भर्तारं पूर्ववृत्तम् अनिन्दिता ॥
न त्वं वृको महाभाग राजा शतधनुर् भवान्
श्वा भूत्वा त्वं शृगालो ऽभूर् वृकत्वं साम्प्रतं गतः ॥
स्मारितेन यथा व्यक्तस् तेनात्मा गृध्रतां गतः
अपापा सा पुनश् चैनं बोधयाम् आस भामिनी ॥
नरेन्द्र स्मर्यताम् आत्मा ह्य् अलं ते गृध्रचेष्टया
पाषण्डालापजातो ऽयं दोषो यद् गृध्रतां गतः ॥
ततः काकत्वम् आपन्नं समनन्तरजन्मनि
उवाच तन्वी भर्तारम् उपलभ्यात्मयोगतः ॥
अशेषा भूभृतः पूर्वं वश्या यस्मै बलिं ददुः
स त्वं काकत्वम् आपन्नो जातो ऽद्य बलिभुक् प्रभो ॥
एवम् एव च काकत्वे स्मारितः स पुरातनम्
तत्याज भूपतिः प्राणान् मयूरत्वम् अवाप च ॥
मयूरत्वे ततः सा वै चकारानुगतं शुभा
दत्तैः प्रतिक्षणं भोज्यैर् बाला तज्जातिभोजनैः ॥
ततस् तु जनको राजा वाजिमेधं महाक्रतुम्
चकार तस्यावभृथे स्नापयाम् आस तं तदा ॥
सस्नौ स्वयं च तन्वङ्गी स्मारयाम् आस चापि तम्
यथासौ श्वशृगालाद्या योनीर् जग्राह पार्थिवः ॥
स्मृतजन्मक्रमः सो ऽथ तत्याज स्वं कलेवरम्
जज्ञे च जनकस्यैव पुत्रो ऽसौ सुमहात्मनः ॥
ततः सा पितरं तन्वी विवाहार्थम् अचोदयत्
स चापि कारयाम् आस पिता तस्याः स्वयंवरम् ॥
स्वयंवरे कृते सा तं संप्राप्तं पतिम् आत्मनः
वरयाम् आस भूयो ऽपि भर्तृभावेन भामिनी ॥
बुभुजे च तया सार्धं संभोगान् नृपनन्दनः
पितर्य् उपरते राज्यं विदेहेषु चकार सः ॥
इयाज यज्ञान् सुबहून् ददौ दानानि चार्थिनाम्
पुत्रान् उत्पादयाम् आस युयुधे च सहारिभिः ॥
राज्यं कृत्वा यथान्यायं पालयित्वा वसुंधराम्
तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः ॥
ततश् चितास्थं तं भूयो भर्तारं सा शुभेक्षणा
अन्वारुरोह विधिवद् यथापूर्वं मुदावती ॥
ततो ऽवाप तया सार्धं राजपुत्र्या स पार्थिवः
ऐन्द्रान् अतीत्य वै लोकांल् लोकान् कामदुहो ऽक्षयान् ॥
स्वर्गाक्षयत्वम् अतुलं दाम्पत्यम् अतिदुर्लभम्
प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥
एष पाषण्डसंभाष दोषः प्रोक्तो मया द्विज
तथाश्वमेधावभृथ स्नानमाहात्म्यम् एव च ॥
तस्मात् पाषण्डिभिः पापैर् आलापस्पर्शनं त्यजेत्
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥
क्रियाहानिर् गृहे यस्य मासम् एकं प्रजायते
तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः ॥
किं पुनर् यैस् तु संत्यक्ता त्रयी सर्वात्मना द्विज
परान्नभोजिभिः पापैर् वेदवादविरोधिभिः ॥
सहालापस् तु संसर्गः सहास्या चातिपापिनी ॥
पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत् ॥
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् छठान्
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥
भ्रष्टः स्वधर्मात् पाषण्डो विकर्मस्थो निषिद्धकृत् ॥
यस्य धर्मस्य यो नित्यं सुरध्वज इवोच्छ्रितः ॥
प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् ॥
प्रियं वक्ति पुरो ऽन्यत्र विप्रियं कुरुते भृशम् ॥
त्यक्तापराधचेष्टश् च शठो ऽयं कथितो बुधैः ॥
संदेहकृद् धेतुभिर् यः सत्कर्मसु स हैतुकः ॥
अर्वाग्दृष्टिर् निकृतिकाः स्वार्थसाधनतत्पराः ॥
शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः ॥
दूराद् अपास्तः संपर्कस् सहास्यापि च पापिभिः
पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत् ॥
एते नग्नास् तवाख्याता दृष्ट्या श्राद्धोपघातकाः
येषां संभाषणात् पुंसां दिनपुण्यं प्रणश्यति ॥
एते पाषण्डिनः पापा न ह्य् एतान् आलपेद् बुधः
पुण्यं नश्यति संभाषाद् एतेषां तद्दिनोद्भवम् ॥
पुंसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनाम् अखिलशौचनिराकृतानाम्
तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणाद् अपि नरा नरकं प्रयान्ति ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0