विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.9
बालः कृतोपनयनो वेदाहरणतत्परः
गुरुगेहे वसेद् भूप ब्रह्मचारी समाहितः ॥
शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः
व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना ॥
उभे संध्ये रविं भूप तथैवाग्निं समाहितः
उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम् ॥
स्थिते तिष्ठेद् व्रजेद् याते नीचैर् आसीत चासति
शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संचरेत् ॥
तेनैवोक्तः पठेद् वेदं नान्यचित्तः पुरः स्थितः
अनुज्ञातश् च भिक्षान्नम् अश्नीयाद् गुरुणा ततः ॥
अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः
समिज्जलादिकं चास्य काल्यं काल्यम् उपानयेत् ॥
गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै
गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥
विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा
गृहस्थकार्यम् अखिलं कुर्याद् भूपाल शक्तितः ॥
निवापेन पितॄन् अर्चेद् यज्ञैर् देवांस् तथातिथीन्
अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम् ॥
बलिकर्मणा च भूतानि वात्सल्येनाखिलं जगत्
प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान् ॥
भिक्षाभुजश् च ये केचित् परिव्राड्ब्रह्मचारिणः
ते ऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥
वेदाहरणकार्येण तीर्थस्नानाय च प्रभो
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥
अनिकेता ह्य् अनाहारा यत्रसायंगृहास् तु ये
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिर् एव च ॥
तेषां स्वागतदानादि वक्तव्यं मधुरं नृप
गृहागतानां दद्याच् च शयनासनभोजनम् ॥
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥
अवज्ञानम् अहंकारो दम्भश् चैव गृहे सतः
परितापोपघातौ च पारुष्यं च न शस्यते ॥
यस् तु सम्यक् करोत्य् एवं गृहस्थः परमं विधिम्
सर्वबन्धविमुक्तो ऽसौ लोकान् आप्नोत्य् अनुत्तमान् ॥
वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः
भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् नृप ॥
चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके
तद्वत् त्रिषवणं स्नानं शस्तम् अस्य नरेश्वर ॥
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम्
भिक्षाबलिप्रदानं च शस्तम् अस्य नरेश्वर ॥
वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चास्य शस्यते
तपस्यतश् च राजेन्द्र शीतोष्णादिसहिष्णुता ॥
यस् त्व् एतां नियतश् चर्यां वानप्रस्थश् चरेन् मुनिः
स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान् ॥
चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥
पुत्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप
चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः ॥
त्रैवर्गिकांस् त्यजेत् सर्वान् आरम्भान् अवनीपते
मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु ॥
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित्
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत् ॥
एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे
तथा तिष्ठेद् यथा प्रीतिर् द्वेषो वा नास्य जायते ॥
प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद् गृहान् ॥
कामः क्रोधस् तथा दर्प मोहलोभादयश् च ये
तांस् तु दोषान् परित्यज्य परिव्राड् निर्ममो भवेत् ॥
अभयं सर्वभूतेभ्यो दत्त्वा यश् चरते मुनिः
न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्वचित् ॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरम् अग्निं स्वमुखे जुहोति
विप्रस् तु भिक्षोपगतैर् हविर्भिश् चिताग्निना स व्रजति स्म लोकान् ॥
मोक्षाश्रमं यश् चरते यथोक्तं शुचिः स्वसंकल्पितबुद्धियुक्तः
अनिन्धनं ज्योतिर् इव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0