भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.10

3.10.1

कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा
पुंसः क्रियाम् अहं श्रोतुम् इच्छामि द्विजसत्तम ॥

3.10.2

नित्यां नैमित्तिकीं काम्यां क्रियां पुंसाम् अशेषतः
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्य् असि मे मतः ॥

3.10.3

यद् एतद् उक्तं भवता नित्यनैमित्तिकाश्रितम्
तद् अहं कथयिष्यामि शृणुष्वैकमना नृप ॥

3.10.4

जातस्य जातकर्मादि क्रियाकाण्डम् अशेषतः
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥

3.10.5

युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर
यथावृत्ति तथा कुर्याद् दैवं पित्र्यं द्विजन्मनाम् ॥

3.10.6

दध्ना यवैः सबदरैर् मिश्रान् पिण्डान् मुदा युतः
नान्दीमुखेभ्यस् तीर्थेन दद्याद् दैवेन पार्थिव ॥

3.10.7

प्राजापत्येन वा सर्वम् उपचारं प्रदक्षिणम्
कुर्वीत तत् तथाशेष वृद्धिकालेषु भूपते ॥

3.10.8

ततश् च नाम कुर्वीत पितैव दशमे ऽहनि
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥

3.10.8*16:1

नामधेयं दशम्यां तु केचिद् इच्छन्ति पार्थिव ॥

3.10.8*16:2

द्वादश्याम् अथवा राजन् मासे पूर्णे ऽथवा परे ॥

3.10.9

शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम्
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥

3.10.10

नार्थहीनं न चाशस्तं नापशब्दयुतं तथा
नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात् समाक्षरम् ॥

3.10.11

नातिदीर्घं न ह्रस्वं वा नातिगुर्वक्षरान्वितम्
सुखोच्चार्यं तु तन् नाम कुर्याद् यत् प्रवणाक्षरम् ॥

3.10.12

ततो ऽनन्तरसंस्कार संस्कृतो गुरुवेश्मनि
यथोक्तं विधिम् आश्रित्य कुर्याद् विद्यापरिग्रहम् ॥

3.10.13

गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम्
गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम् ॥

3.10.14

ब्रह्मचर्येण वा कालं कुर्यात् संकल्पपूर्वकम्
गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा ॥

3.10.15

वैखानसो वापि भवेत् परिव्राड् अथवेच्छया
पूर्वसंकल्पितं यादृक् तादृक् कुर्यान् महीपते ॥

3.10.16

वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम्
नातिकेशाम् अकेशां वा नातिकृष्णां न पिङ्गलाम् ॥

3.10.17

निसर्गतो विकलाङ्गीम् अधिकाङ्गीं च नोद्वहेत्
नाविशुद्धां सरोमां वा ऽकुलजां वातिरोगिणीम् ॥

3.10.18

न दुष्टां दुष्टवाचालां व्यङ्गिनीं पितृमातृतः
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥

3.10.19

न घर्घरस्वरां क्षाम वाक्यां काकस्वरां न च
नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेत् स्त्रियम् ॥

3.10.20

यस्याश् च लोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ
कूपो यस्या हसन्त्याश् च गण्डयोस् तां च नोद्वहेत् ॥

3.10.20*17

नोद्वहेत् तादृशीं कन्यां प्राज्ञः कार्यविशारदः ॥

3.10.21

नातिरूक्षच्छविं पाण्डु करजाम् अरुणेक्षणाम्
आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः ॥

3.10.22

न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम्
न चातिच्छिद्रदशनां न करालमुखीं नरः ॥

3.10.23

पञ्चमीं मातृपक्षाच् च पितृपक्षाच् च सप्तमीम्
गृहस्थस् तूद्वहेत् कन्यां न्याय्येन विधिना नृप ॥

3.10.24

ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः
गान्धर्वराक्षसौ चान्यौ पैशाचश् चाष्टमो ऽधमः ॥

3.10.24*18:1

यज्ञेषु ऋत्विजे दैव आदायार्षस् तु गोद्वयम् ॥

3.10.24*18:2

सहौ तौ चरतां धर्मं प्राजापत्यो विधिः स्मृतः ॥

3.10.25

एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः
कुर्वीत दाराहरणं तेनान्यं परिवर्जयेत् ॥

3.10.26

सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस् तया
समुद्वहेद् ददात्य् एतत् सम्यगूढं महाफलम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc