विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.8
भगवन् भगवान् देवः संसारविजिगीषुभिः
समाख्याहि जगन्नाथो विष्णुर् आराध्यते यथा ॥
विष्णुभक्तादिचिह्नं यो निजधर्मः पुरोदितः ॥
तम् एवातिस्फुटं वक्तुं पञ्चाध्यायी विधीयते ॥
आराधिताच् च गोविन्दाद् आराधनपरैर् नरैः
यत् प्राप्यते फलं श्रोतुं तच् चेच्छामि महामुने ॥
यत् पृच्छति भवान् एतत् सगरेण महात्मना
और्वः प्राह यथा पृष्टस् तन् मे कथयतः शृणु ॥
सगरः प्रणिपत्येदम् और्वं पप्रच्छ भार्गवम्
विष्णोर् आराधनोपाय संबन्धं मुनिसत्तम ॥
फलं चाराधिते विष्णौ यत् पुंसाम् अभिजायते
स चाह पृष्टो यत् तेन तन् मैत्रेयाखिलं शृणु ॥
भौमान् मनोरथान् स्वर्गं स्वर्गवन्द्यं तथास्पदम्
प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम् ॥
यद् यद् इच्छति यावच् च फलम् आराधिते ऽच्युते
तत् तद् आप्नोति राजेन्द्र भूरि स्वल्पम् अथापि वा ॥
यत् तु पृच्छसि भूपाल कथम् आराध्यते हि सः
तद् अहं सकलं तुभ्यं कथयामि निबोध मे ॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान्
विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारणम् ॥
यजन् यज्ञान् यजत्य् एनं जपत्य् एनं जपन् नृप
घ्नंस् तथान्यान् हिनस्त्य् एनं सर्वभूतो यतो हरिः ॥
तस्मात् सदाचारवता पुरुषेण जनार्दनः
आराध्यते स्ववर्णोक्त धर्मानुष्ठानकारिणा ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् च पृथिवीपते
स्वधर्मतत्परो विष्णुम् आराधयति नान्यथा ॥
परापवादं पैशुन्यम् अनृतं च न भाषते
अन्योद्वेगकरं वापि तोष्यते तेन केशवः ॥
परपत्नीपरद्रव्य परहिंसासु यो मतिम्
न करोति पुमान् भूप तोष्यते तेन केशवः ॥
न ताडयति नो हन्ति प्राणिनो ऽन्यांश् च देहिनः
यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥
देवद्विजगुरूणां यः शुश्रूषासु सदोद्यतः
तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर ॥
यथात्मनि च पुत्रे च सर्वभूतेषु यस् तथा
हितकामो हरिस् तेन तोष्यते सर्वदा सुखम् ॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम्
विशुद्धचेतसा विष्णुस् तोष्यते तेन सर्वदा ॥
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता नृपसत्तम
तेषु तिष्ठन् नरो विष्णुम् आराधयति नान्यथा ॥
तद् अहं श्रोतुम् इच्छामि वर्णधर्मान् अशेषतः
तथैवाश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान् ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम्
त्वम् एकाग्रमना भूत्वा शृणु धर्मान् मयोदितान् ॥
दानं दद्याद् यजेद् देवान् यज्ञैः स्वाध्यायतत्परः
नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम् ॥
वृत्त्यर्थं याजयेच् चान्यान् अन्यान् अध्यापयेत् तथा
कुर्यात् प्रतिग्रहादानं गुर्वर्थं न्यायतो द्विजः ॥
सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजः
मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥
ग्राव्णि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजः
ऋताव् अभिगमः पत्न्यां शस्यते चास्य पार्थिव ॥
दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि
यजेच् च विविधैर् यज्ञैर् अधीयीत च पार्थिवः ॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥
धरित्रीपालनेनैव कृतकृत्यो नराधिपः
भवन्ति नृपतेर् अंशा यतो यज्ञादिकर्मणाम् ॥
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात्
प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थाकरो नृपः ॥
पशुपाल्यं वणिज्यं च कृषिं च मनुजेश्वर
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥
तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते
नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम् ॥
द्विजातिसंश्रयं कर्म तादर्थ्यं तेन पोषणम्
क्रयविक्रयजैर् वापि धनैः कारूद्भवेन वा ॥
शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्य् अमायया ॥
अमन्त्रयज्ञा ह्य् अस्ते ऽयं तत्सङ्गो विप्ररक्षणम् ॥
दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेत च
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः
ऋतुकालाभिगमनं स्वदारेषु महीपते ॥
दया समस्तभूतेषु तितिक्षा नाभिमानिता
सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता ॥
शरीरं या तृतीयेन स्वशुभेनापि कर्मणा ॥
अत्यन्तं न तु कर्तव्यम् अनायासः स उच्यते ॥
मैत्र्य् अस्पृहा तथा तद्वद् अकार्पण्यं नरेश्वर
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥
आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः
गुणांस् तथापद्धर्मांश् च विप्रादीनाम् इमाञ् छृणु ॥
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि
राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥
सामर्थ्ये सति तत् त्याज्यम् उभाभ्याम् अपि पार्थिव
तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम् ॥
इत्य् एते कथिता राजन् वर्णधर्मा मया तव
धर्मम् आश्रमिणां सम्यग् ब्रुवतो मे निशामय ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0