विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.7
यथावत् कथितं सर्वं यत् पृष्टो ऽसि मया गुरो
श्रोतुम् इच्छाम्य् अहं त्व् एकं तद् भवान् प्रब्रवीतु मे ॥
वेदराशिर् अपारो ऽसाव् उक्तः शाखाविभागतः ॥
xxxx परो धर्मो वर्णादीनाम् अथोच्यते ॥
सप्तद्वीपानि पाताल वीथ्यश् च सुमहामुने
सप्त लोकाश् च ये ऽन्तःस्था ब्रह्माण्डस्यास्य सर्वतः ॥
स्थूलैः सूक्ष्मैस् तथासूक्ष्मैः सूक्ष्मात् सूक्ष्मतरैस् तथा
स्थूलैः स्थूलतरैश् चैतत् सर्वं प्राणिभिर् आवृतम् ॥
अङ्गुलस्याष्टभागो ऽपि न सो ऽस्ति मुनिसत्तम
न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥
सर्वे चैते वशं यान्ति यमस्य भगवन् किल
आयुषो ऽन्ते ततो यान्ति यातनास् तत्प्रचोदिताः ॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्व् अथ योनिषु
जन्तवः परिवर्तन्ते शास्त्राणाम् एष निर्णयः ॥
सो ऽहम् इच्छामि तच् छ्रोतुं यमस्य वशवर्तिनः
न भवन्ति नरा येन तत् कर्म कथयामलम् ॥
अयम् एव मुने प्रश्नो नकुलेन महात्मना
पृष्टः पितामहः प्राह भीष्मो यत् तच् छृणुष्व मे ॥
पुरा ममागतो वत्स सखा कालिङ्गको द्विजः
माम् उवाच स पृष्टो वै मया जातिस्मरो मुनिः ॥
तेनाख्यातम् इदं चेदम् इत्थं चैतद् भविष्यति
तथा च तद् अभूद् वत्स यथोक्तं तेन धीमता ॥
स पृष्टश् च मया भूयः श्रद्दधानेन वै द्विजः
यद् यद् आह न तद् दृष्टम् अन्यथा हि मया क्वचित् ॥
एकदा तु मया पृष्टम् यद् एतद् भवतोदितम्
प्राह कालिङ्गको विप्रः स्मृत्वा तस्य मुनेर् वचः ॥
जातिस्मरेण कथितं रहस्यं परमं मम
यमकिंकरयोर् यो ऽभूत् संवादस् तं ब्रवीमि ते ॥
नरके पच्यमानस् तु यमेन परिभाषितः ॥
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥
स्वपुरुषम् अभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले
परिहर मधुसूदनप्रपन्नान् प्रभुर् अहम् अन्यनृणां न वैष्णवानाम् ॥
अहम् अमरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ॥
हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान् नमस्करोमि
सुगतिम् अभिलषामि वासुदेवाद् अहम् अपि भागवतस्थितान्तरात्मा ॥
हरिगुरुवशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥
वर्षशतम् अपीह धर्म्यमानं व्रजति न काञ्चनतामयः कदाचित्
भगवति विमुखस्य नास्ति सिद्धिर् विषम् अमृतं भवतीति नैतद् अस्ति ॥
न हि शशिकलुषच्छविः कदाचित् तिमिरपराभवताम् उपैति चन्द्रः
भवति हि हरौ स्थितान्तरात्मा भृशमलिनो ऽपि विराजते मनुष्यः ॥
वृषगणकणभक्षशंकरोक्तिर् दशबलपञ्चशिखाक्षपादवादान्
महद् अपि सुविचार्य लोकतन्त्रं भगवदुपास्यम् ऋते न सिद्धिर् अस्ति ॥
मुकुलितकरकुङ्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजाय
अविहतगतये सनातनाय प्रथमजगत्पतये नमो ऽस्त्व् अजाय ॥
कटकमुकुटकर्णिकादिभेदैः कनकम् अभेदम् अपीष्यते यथैकम्
सुरपशुमनुजादिकल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः ॥
क्षितिजलपरमाणवो ऽनिलान्ते पुनर् अपि यान्ति यथैकतां धरित्र्याः
सुरपशुमनुजादयस् तथान्ते गुणकलुषेण सनातनेन तेन ॥
हरिम् अमरगणार्चिताङ्घ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः
तम् अपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निम् आज्यसिक्तम् ॥
इति यमवचनं निशम्य पाशी यमपुरुषस् तम् उवाच धर्मराजम्
कथय मम विभो समस्तधातुर् भवति हरेः खलु यादृशो ऽस्य भक्तः ॥
न चलति निजवर्णधर्मतो यः सममतिर् आत्मसुहृद्विपक्षपक्षे
न हरति न च हन्ति किंचिद् उच्चैः सितमनसं तम् अवैहि विष्णुभक्तम् ॥
कलिकलुषमलेन यस्य नात्मा विमलमतेर् मलिनीकृतो ऽस्तमोहे
मनसि कृतजनार्दनं मनुष्यं सततम् अवैहि हरेर् अतीव भक्तम् ॥
कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति वै परस्वम्
भवति च भगवत्य् अनन्यचेताः पुरुषवरं तम् अवैहि विष्णुभक्तम् ॥
स्फटिकगिरिशिलामलः क्व विष्णुर् मनसि नृणां क्व च मत्सरादिदोषः
न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥
विमलमतिर् अमत्सरः प्रशान्तः शुचिचरितो ऽखिलसत्त्वमित्रभूतः
प्रियहितवचनो ऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥
वसति हृदि सनातने च तस्मिन् भवति पुमाञ् जगतो ऽस्य सौम्यरूपः
क्षितिरसम् अतिरम्यम् आत्मनो ऽन्तः कथयति चारुतयैव शालपोतः ॥
यमनियमविधूतकल्मषाणाम् अनुदिनम् अच्युतसक्तमानसानाम्
अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥
हृदि यदि भगवान् अनादिर् आस्ते हरिर् असिशङ्खगदाधरो ऽव्ययात्मा
तदघम् अघविघातकर्तृभिन्नं भवति कथं सति चान्धकारम् अर्के ॥
हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठुराणि यश् च
अशुभजनितदुर्मदस्य पुंसः कलुषमतेर् हृदि तस्य नास्त्य् अनन्तः ॥
न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सताम् असाधुः
न यजति न ददाति यश् च सन्तं मनसि न तस्य जनार्दनो ऽधमस्य ॥
परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे
शठमतिर् उपयाति यो ऽर्थतृष्णां तम् अधमचेष्टम् अवैहि नास्य भक्तम् ॥
अशुभमतिर् असत्प्रवृत्तिसक्तः सततम् अनार्यविशालसङ्गमत्तः
अनुदिनकृतपापबन्धयत्नः पुरुषपशुर् न हि वासुदेवभक्तः ॥
सकलम् इदम् अहं च वासुदेवः परमपुमान् परमेश्वरः स एकः
इति मतिर् अमला भवत्य् अनन्ते हृदयगते व्रज तान् विहाय दूरात् ॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे
भव शरणम् इतीरयन्ति ये वै त्यज भट दूरतरेण तान् अपापान् ॥
वसति मनसि यस्य सो ऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते
तव गतिर् अथवा ममास्ति चक्र प्रतिहतवीर्यबलस्य सो ऽन्यलोक्यः ॥
इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः
मम कथितम् इदं च तेन तुभ्यं कुरुवर सम्यग् इदं मयापि चोक्तम् ॥
नकुलैतन् ममाख्यातं पूर्वं तेन द्विजन्मना
कलिङ्गदेशाद् अभ्येत्य प्रीयता सुमहात्मना ॥
मयाप्य् एतद् यथान्यायं सम्यग् वत्स तवोदितम्
यथा विष्णुम् ऋते नान्यत् त्राणं संसारसागरे ॥
किंकरा दण्डपाशौ वा न यमो न च यातना
समर्थास् तस्य यस्यात्मा केशवालम्बनः सदा ॥
एतन् मुने तवाख्यातं गीतं वैवस्वतेन यत्
त्वत्प्रश्नानुगतं सम्यक् किम् अन्यच् छ्रोतुम् इच्छसि ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0