भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.6

3.6.1

सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः
क्रमेण येन मैत्रेय बिभेद शृणु तन् मम ॥

3.6.1*5:1

ऋग्यजुःशाखिशाखो ऽयं शाखासंख्य्या प्रपञ्चिता ॥

3.6.1*5:2

सामाथर्वपुराणोक्तं शाखासंज्ञाथ कथ्यते ॥

3.6.2

सुमन्तुस् तस्य पुत्रो ऽभूत् सुकर्मास्याप्य् अभूत् सुतः
अधीतवन्ताव् एकैकां संहितां तौ महामुनी ॥

3.6.3

साहस्रं संहिताभेदं सुकर्मा तत्सुतस् ततः
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥

3.6.3*6:1

पुत्रम् अध्यापयाम् आस सुमन्तुम् अथ जैमिनिः ॥

3.6.3*6:2

सुमन्तुश् चपि सुमुलं पुत्रम् अध्यापयन् मुनिः ॥

3.6.4

हिरण्यनाभः कौसल्यः पौष्पिञ्जिश् च द्विजोत्तम
उदीच्याः सामगाः शिष्यास् तस्य पञ्चदश स्मृताः ॥

3.6.5

हिरण्यनाभात् तावत्यः संहिता यैर् द्विजोत्तमैः
गृहीतास् ते ऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥

3.6.6

लोकाक्षिः कुथुमिश् चैव कुषीदी लाङ्गलिस् तथा
पौष्पिञ्जिशिष्यास् तद्भेदैः संहिता बहुलीकृताः ॥

3.6.7

हिरण्यनाभशिष्यश् च चतुर्विंशतिसंहिताः
प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः ॥

3.6.8

तैश् चापि सामवेदो ऽसौ शाखाभिर् बहुलीकृतः
अथर्वणाम् अथो वक्ष्ये संहितानां समुच्चयम्
अथर्ववेदं स मुनिः सुमन्तुर् अमितद्युतिः ॥

3.6.9

शिष्यम् अध्यापयाम् आस कबन्धं सो ऽपि तं द्विधा
कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥

3.6.10

देवदर्शस्य शिष्यास् तु मौद्गो ब्रह्मबलिस् तथा
शौल्कायनिः पिप्पलादस् तथान्यो मुनिसत्तम ॥

3.6.11

पथ्यस्यापि त्रयः शिष्याः कृता यैर् द्विज संहिताः
जाजलिः कुमुदादिश् च तृतीयः शौनको द्विज ॥

3.6.12

शौनकस् तु द्विधा कृत्वा ददाव् एकां तु बभ्रवे
द्वितीयां संहितां प्रादात् सैन्धवाय च संज्ञिने ॥

3.6.13

सैन्धवान् मुञ्जकेशश् च ऽभिनद् वेदं द्विधा पुनः
नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥

3.6.14

चतुर्थः स्याद् आङ्गिरसः शान्तिकल्पश् च पञ्चमः
श्रेष्ठास् त्व् अथर्वणाम् एते संहितानां विकल्पकाः ॥

3.6.15

आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिः कल्पशुद्धिभिः
पुराणसंहितां चक्रे पुराणार्थविशारदः ॥

3.6.15*7:1

स्वयं दृष्ट्वार्थकथनं प्राहुर् आख्यानकं बुधाः ॥

3.6.15*7:2

श्रुतस्यार्थस्य कथनम् उपाख्यानं प्रचक्षते ॥

3.6.16

प्रख्यातो व्यासशिष्यो ऽभूत् सूतो वै रोमहर्षणः
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥

3.6.17

सुमतिश् चाग्निवर्चाश् च मित्रायुः शांशपायनः
अकृतव्रणो ऽथ सावर्णिः षट् शिष्यास् तस्य चाभवन् ॥

3.6.18

काश्यपः संहिताकर्ता सावर्णिः शांशपायनः
रोमहर्षणिका चान्या तिसॄणां मूलसंहिता ॥

3.6.19

चतुष्टयेनाप्य् एतेन संहितानाम् इदं मुने ॥

3.6.20

आद्यं सर्वपुराणानां पुराणं ब्राह्मम् उच्यते
अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ॥

3.6.21

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥

3.6.22

आग्नेयम् अष्टमं चैव भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लैङ्गम् एकादशं स्मृतम् ॥

3.6.23

वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम्
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम्
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥

3.6.23*8:1

महापुराणान्य् एतानि ह्य् अष्टादश महामुने ॥

3.6.23*8:2

तथा चोपपुराणानि मुनिभिः कथितानि च ॥

3.6.24

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च
सर्वेष्व् एतेषु कथ्यन्ते वंशानुचरितं च यत् ॥

3.6.25

यद् एतत् तव मैत्रेय पुराणं कथ्यते मया
एतद् वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम् ॥

3.6.26

सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु
कथ्यते भगवान् विष्णुर् अशेषेष्व् एव सत्तम ॥

3.6.27

अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः
पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश ॥

3.6.28

आयुर्वेदो धनुर्वेदो गान्धर्वश् चैव ते त्रयः
अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव ताः ॥

3.6.29

ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः
राजर्षयः पुनस् तेभ्य ऋषिप्रकृतयस् त्रयः ॥

3.6.30

इति शाखाः समाख्याताः शाखाभेदास् तथैव च
कर्तारश् चैव शाखानां भेदहेतुस् तथोदितः ॥

3.6.31

सर्वमन्वन्तरेष्व् एवं शाखाभेदाः समाः स्मृताः ॥

3.6.32

प्राजापत्या श्रुतिर् नित्या तद्विकल्पास् त्व् इमे द्विज ॥

3.6.33

एतत् तवोदितं सर्वं यत् पृष्टो ऽहम् इह त्वया
मैत्रेय वेदसंबद्धं किम् अन्यत् कथयामि ते ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc