विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.5
यजुर्वेदतरोः शाखाः सप्तविंशन् महामतिः
वैशम्पायननामासौ व्यासशिष्यश् चकार वै ॥
शिष्येभ्यः प्रददौ ताश् च जगृहुस् ते ऽप्य् अनुक्रमात् ॥
याज्ञवल्क्यस् तु तस्याभूद् ब्रह्मरातसुतो द्विज
शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा ॥
ऋषिर् यो ऽद्य महामेरौ समाजेनागमिष्यति
तस्य वै सप्तरात्रात् तु ब्रह्महत्या भविष्यति ॥
पूर्वम् एवं मुनिगणैः समयो ऽभूत् कृतो द्विज
वैशम्पायन एकस् तु तं व्यतिक्रान्तवांस् तदा ॥
स्वस्रीयं बालकं सो ऽथ पदा स्पृष्टम् अघातयत् ॥
शिष्यान् आह च भोः शिष्या ब्रह्महत्यापहं व्रतम्
चरध्वं मत्कृते सर्वे न विचार्यम् इदं तथा ॥
अथाह याज्ञवल्क्यस् तं किम् एभिर् भगवन् द्विजैः
क्लेशितैर् अल्पतेजोभिश् चरिष्ये ऽहम् इदं व्रतम् ॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिः
मुच्यतां यत् त्वयाधीतं मत्तो विप्रावमानक ॥
निस्तेजसो वदस्य् एतान् यस् त्वं ब्राह्मणपुंगवान्
तेन शिष्येण नार्थो ऽस्ति ममाज्ञाभङ्गकारिणा ॥
याज्ञवल्क्यस् ततः प्राह भक्त्यैतत् ते मयोदितम्
ममाप्य् अलं त्वयाधीतं यन् मया तद् इदं द्विज ॥
इत्य् उक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः
छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥
यजूंष्य् अथ विसृष्टानि याज्ञवल्क्येन वै द्विज
जगृहुस् तित्तिरीभूत्वा तैत्तिरीयास् तु ते ततः ॥
ब्रह्महत्या व्रतं चीर्णं गुरुणा चोदितैस् तु यैः
चरकाध्वर्यवस् ते तु चरणान् मुनिसत्तम ॥
याज्ञवल्क्यो ऽपि मैत्रेय प्राणायामपरायणः
तुष्टाव प्रणतः सूर्यं यजूंष्य् अभिलषंस् ततः ॥
नमः सवित्रे द्वाराय मुक्तेर् अमिततेजसे
ऋग्यजुःसामभूताय त्रयीधामवते नमः ॥
नमो ऽग्नीषोमभूताय जगतः कारणात्मने
भास्कराय परं तेजः सौषुम्णम् उरु बिभ्रते ॥
कलाकाष्ठानिमेषादि कालज्ञानात्मने नमः
ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥
बिभर्ति यः सुरगणान् आप्यायेन्दुं स्वरश्मिभिः
स्वधामृतेन च पितॄंस् तस्मै तृप्त्यात्मने नमः ॥
नमो ऽग्नीसोमभूताय सर्वसिद्धिकराय च ॥
हिमाम्बुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः
तस्मै त्रिकालभूताय नमः सूर्याय वेधसे ॥
अपहन्ति तमो यश् च जगतो ऽस्य जगत्पतिः
सत्त्वधामधरो देवो नमस् तस्मै विवस्वते ॥
सत्कर्मयोग्यो न जनो नैवापः शौचकारणम्
यस्मिन्न् अनुदिते तस्मै नमो देवाय भास्वते ॥
स्पृष्टो यदंशुभिर् लोकः क्रियायोग्यो ऽभिजायते
पवित्रताकारणाय तस्मै शुद्धात्मने नमः ॥
नमः सवित्रे सूर्याय भास्कराय विवस्वते
आदित्यायादिभूताय देवादीनां नमो नमः ॥
हिरण्मयं रथं यस्य केतवो ऽमृतधारिणः
वहन्ति भुवनालोक चक्षुषस् तं नमाम्य् अहम् ॥
इत्य् एवमादिभिस् तेन स्तूयमानः स्तवै रविः
वाजिरूपधरः प्राह व्रीयताम् इति वाञ्छितम् ॥
याज्ञवल्क्यस् तदा प्राह प्रणिपत्य दिवाकरम्
यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥
एवम् उक्तो ददौ तस्मै यजूंषि भगवान् रविः
अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥
यजूंषि यैर् अधीतानि तानि विप्रैर् द्विजोत्तम
वाजिनस् ते समाख्याताः सूर्यो ऽश्वः सो ऽभवद् यतः ॥
शाखाभेदास् तु तेषां वै दश पञ्च च वाजिनाम्
कण्वाद्याः सुमहाभागा याज्ञवल्क्यप्रवर्तिताः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0