भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.4

3.4.1

आद्यो वेदश् चतुष्पादः शतसाहस्रसंमितः
ततो दशगुणः कृत्स्नो यज्ञो ऽयं सर्वकामधुक् ॥

3.4.2

ततो ऽत्र मत्सुतो व्यासो ऽष्टाविंशतितमे ऽन्तरे
वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः ॥

3.4.3

यथा तु तेन वै व्यस्ता वेदव्यासेन धीमता
वेदास् तथा समस्तैस् तैर् व्यस्ता व्यासैस् तथा मया ॥

3.4.4

तद् अनेनैव वेदानां शाखाभेदान् द्विजोत्तम
चतुर्युगेषु रचितान् समस्तेष्व् अवधारय ॥

3.4.5

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ऽन्यो हि भुवि मैत्रेय महाभारतकृद् भवेत् ॥

3.4.6

तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना
द्वापरे ह्य् अत्र मैत्रेय तन् मे शृणु यथार्थतः ॥

3.4.7

ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे
अथ शिष्यान् स जग्राह चतुरो वेदपारगान् ॥

3.4.8

ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः
वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत् ॥

3.4.9

जैमिनिं सामवेदस्य तथैवाथर्ववेदवित्
सुमन्तुस् तस्य शिष्यो ऽभूद् वेदव्यासस्य धीमतः ॥

3.4.10

रोमहर्षणनामानं महाबुद्धिं महामुनिः
सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥

3.4.10*2:1

आर्षादि बहुधा स्थानं देवर्षिरचिताश्रयम् ॥

3.4.10*2:2

इतिहासम् इति प्रोक्तं स्थविष्ठाद्भुतकर्मयुक् ॥

3.4.11

एक आसीद् यजुर्वेदस् तं चतुर्धा व्यकल्पयत्
चातुर्होत्रम् अभूद् यस्मिंस् तेन यज्ञम् अथाकरोत् ॥

3.4.12

आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः
औद्गात्रं सामभिश् चक्रे ब्रह्मत्वं चाप्य् अथर्वभिः ॥

3.4.13

ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् मुनिः
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥

3.4.14

राज्ञस् त्व् अथर्ववेदेन सर्वकर्माणि स प्रभुः
कारयाम् आस मैत्रेय ब्रह्मत्वं च यथास्थितिः ॥

3.4.15

सो ऽयम् एको महावेद तरुस् तेन पृथक्कृतः
चतुर्धा तु ततो जातं वेदपादपकाननम् ॥

3.4.16

बिभेद प्रथमं विप्र पैल ऋग्वेदपादपम्
इन्द्रप्रमतये प्रादाद् बाष्कलाय च संहिते ॥

3.4.17

चतुर्धा स बिभेदाथ बाष्कलो निजसंहिताम्
बौध्यादिभ्यो ददौ तास् तु शिष्येभ्यः स महामतिः ॥

3.4.18

बौध्याग्निमाठरौ तद्वद् याज्ञवल्क्यपराशरौ
प्रतिशाखास् तु शाखायास् तस्यास् ते जगृहुर् मुने ॥

3.4.19

इन्द्रप्रमतिर् एकां तु संहितां स्वसुतं ततः
माण्डुकेयं महात्मानं मैत्रेयाध्यापयत् तदा ॥

3.4.20

तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यान् क्रमाद् ययौ ॥

3.4.21

वेदमित्रस् तु शाकल्यः संहितां ताम् अधीतवान्
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥

3.4.22

तस्य शिष्यास् तु ये पञ्च तेषां नामानि मे शृणु
मुद्गलो गालवश् चैव वात्स्यः शालीय एव च
शिशिरः पञ्चमश् चासीत् मैत्रेय सुमहामुनिः ॥

3.4.22*3

एतानि पञ्चनामानि संहितायाः समाश्रिताः ॥

3.4.23

संहितात्रितयं चक्रे शाकपूणिर् अथेतरः
निरुक्तम् अकरोत् तद्वच् चतुर्थं मुनिसत्तम ॥

3.4.24

क्रौञ्चो वैतालकिस् तद्वद् बलाकश् च महामुनिः
निरुक्तश् च चतुर्थो ऽभूद् वेदवेदाङ्गपारगः ॥

3.4.25

इत्य् एताः प्रतिशाखाभ्यो ऽप्य् अनुशाखा द्विजोत्तम
बाष्कलश् चापरास् तिस्रः संहिताः कृतवान् द्विज
शिष्यः कालायनिर् गार्ग्यस् तृतीयश् च तथा जवः ॥

3.4.26

इत्य् एते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc