भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.3

3.3.1

ज्ञातम् एतन् मया त्वत्तो यथा सर्वम् इदं जगत्
विष्णुर् विष्णौ विष्णुतश् च न परं विद्यते ततः ॥

3.3.2

एतत् तु श्रोतुम् इच्छामि व्यस्ता वेदा महात्मना
वेदव्यासस्वरूपेण यथा तेन युगे युगे ॥

3.3.3

यस्मिन् यस्मिन् युगे व्यासो यो य आसीन् महामुने
तं तम् आचक्ष्व भगवञ् शाखाभेदांश् च मे वद ॥

3.3.4

वेदद्रुमस्य मैत्रेय शाखाभेदैः सहस्रशः
न शक्यो विस्तरो वक्तुं संक्षेपेण शृणुष्व तम् ॥

3.3.5

द्वापरे द्वापरे विष्णुर् व्यासरूपी महामुने
वेदम् एकं स बहुधा कुरुते जगतो हितः ॥

3.3.6

वीर्यं तेजो बलं चाल्पं मनुष्याणाम् अवेक्ष्य च
हिताय सर्वभूतानां वेदभेदान् करोति सः ॥

3.3.7

यया स कुरुते तन्वा वेदम् एकं पृथक् प्रभुः
वेदव्यासाभिधाना तु सा मूर्तिर् मधुविद्विषः ॥

3.3.8

यस्मिन् मन्वन्तरे ये ये व्यासास् तांस् तान् निबोध मे
यथा च भेदः शाखानां व्यासेन क्रियते मुने ॥

3.3.9

अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः
वैवस्वते ऽन्तरे तस्मिन् द्वापरेषु पुनः पुनः ॥

3.3.10

वेदव्यासा व्यतीता ये अष्टाविंशति सत्तम
चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥

3.3.11

द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयंभुवा
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥

3.3.12

तृतीये चोशना व्यासश् चतुर्थे च बृहस्पतिः
सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ॥

3.3.13

सप्तमे च तथैवेन्द्रो वसिष्ठश् चाष्टमे स्मृतः
सारस्वतश् च नवमे त्रिधामा दशमे स्मृतः ॥

3.3.14

एकादशे तु त्रिवृषा भारद्वाजस् ततः परम्
त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥

3.3.15

त्रय्यारुणः पञ्चदशे षोडशे तु धनंजयः
क्रतुंजयः सप्तदशे ऋणज्यो ऽष्टादशे स्मृतः ॥

3.3.16

ततो व्यासो भरद्वाजो भरद्वाजात् तु गौतमः
गौतमाद् उत्तमो व्यासो हर्यात्मा यो ऽभिधीयते ॥

3.3.17

अथ हर्यात्मनो वेनः स्मृतो वाजश्रवास् तु यः
सोमः शुष्मायणस् तस्मात् तृणबिन्दुर् इति स्मृतः ॥

3.3.18

ऋक्षो ऽभूद् भार्गवस् तस्माद् वाल्मीकिर् यो ऽभिधीयते
तस्माद् अस्मत्पिता शक्तिर् व्यासस् तस्माद् अहं मुने ॥

3.3.19

जातुकर्णो ऽभवन् मत्तः कृष्णद्वैपायनस् ततः
अष्टाविंशतिर् इत्य् एते वेदव्यासाः पुरातनाः ॥

3.3.20

एको वेदश् चतुर्धा तु यैः कृतो द्वापरादिषु ॥

3.3.21

भविष्ये द्वापरे चापि द्रौणिर् व्यासो भविष्यति
व्यतीते मम पुत्रे ऽस्मिन् कृष्णद्वैपायने मुनौ ॥

3.3.22

ध्रुवम् एकाक्षरं ब्रह्म ओम् इत्य् एवं व्यवस्थितम्
बृहत्वाद् बृंहणत्वाच् च तद् ब्रह्मेत्य् अभिधीयते ॥

3.3.23

प्रणवावस्थितं नित्यं भूर् भुवः स्वर् इतीर्यते
ऋग्यजुःसामाथर्वाणं यत् तस्मै ब्रह्मणे नमः ॥

3.3.24

जगतः प्रलयोत्पत्तौ यत् तत् कारणसंज्ञितम्
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥

3.3.25

अगाधापारम् अक्षय्यं जगत्संमोहनालयम्
संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥

3.3.26

सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम्
यत् तद् अव्यक्तम् अमृतं प्रवृत्तिर् ब्रह्म शाश्वतम् ॥

3.3.27

प्रधानम् आत्मयोनिश् च गुहासत्त्वं च शब्द्यते
अविभागं तथा शुक्रम् अक्षरं बहुधात्मकम् ॥

3.3.28

परमब्रह्मणे तस्मै नित्यम् एव नमो नमः
यद् रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥

3.3.29

एतद् ब्रह्म त्रिधाभेदम् अभेदम् अपि स प्रभुः
सर्वभूतेष्व् अभेदो ऽसौ भिद्यते भिन्नबुद्धिभिः ॥

3.3.30

स ऋङ्मयः साममयः सर्वात्मा स यजुर्मयः
ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम् ॥

3.3.31

स भिद्यते वेदमयः स वेदं करोति भेदैर् बहुभिः सशाखम्
शाखाप्रणेता स समस्तशाखा ज्ञानस्वरूपो भगवान् अनन्तः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc