भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.2

3.2.1

प्रोक्तान्य् एतानि भवता सप्त मन्वन्तराणि वै
भविष्याण्य् अपि विप्रर्षे ममाख्यातुं त्वम् अर्हसि ॥

3.2.2

सूर्यस्य पत्नी संज्ञाभूत् तनया विश्वकर्मणः
मनुर् यमो यमी चैव तदपत्यानि वै मुने ॥

3.2.3

असहन्ती तु सा भर्तुस् तेजश् छायां युयोज वै
भर्तुः शुश्रूषणे ऽरण्यं स्वयं च तपसे ययौ ॥

3.2.4

संज्ञेयम् इत्य् अथार्कश् च छायायाम् आत्मजत्रयम्
शनैश्चरं मनुं चान्यं तपतीं चाप्य् अजीजनत् ॥

3.2.5

छायासंज्ञा ददौ शापं यमाय कुपिता यदा
तदान्येयम् असौ बुद्धिर् इत्य् आसीद् यमसूर्ययोः ॥

3.2.6

ततो विवस्वान् आख्याते तयैवारण्यसंस्थिताम्
समाधिदृष्ट्या ददृशे ताम् अश्वां तपसि स्थिताम् ॥

3.2.7

वाजिरूपधरः सो ऽपि तस्यां देवाव् अथाश्विनौ
जनयाम् आस रेवन्तं रेतसो ऽन्ते च भास्करः ॥

3.2.8

आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥

3.2.9

भ्रमम् आरोप्य सूर्यं तु तस्य तेजोविशातनम्
कृतवान् अष्टमं भागं न व्यशातयताव्ययम् ॥

3.2.10

यत् सूर्याद् वैष्णवं तेजः शातितं विश्वकर्मणा
जाज्वल्यमानम् अपतत् तद् भूमौ मुनिसत्तम ॥

3.2.11

त्वष्टैव तेजसा तेन विष्णोश् चक्रम् अकल्पयत्
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥

3.2.12

शक्तिं गुहस्य देवानाम् अन्येषां च यद् आयुधम्
तत् सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥

3.2.13

छायासंज्ञासुतो यो ऽसौ द्वितीयः कथितो मनुः
पूर्वजस्य सवर्णो ऽसौ सावर्णिस् तेन कथ्यते ॥

3.2.14

तस्य मन्वन्तरं ह्य् एतत् सावर्णिकम् अथाष्टमम्
तच् छृणुष्व महाभाग भविष्यं कथयामि ते ॥

3.2.15

सावर्णिस् तु मनुर् यो ऽसौ मैत्रेय भविता ततः
सुतपाश् चामिताभाश् च मुख्याश् चापि तदा सुराः ॥

3.2.16

तेषां गणस् तु देवानाम् एकैको विंशकः स्मृतः
सप्तर्षीन् अपि वक्ष्यामि भविष्यान् मुनिसत्तम ॥

3.2.17

दीप्तिमान् गालवो रामः कृपो द्रौणिस् तथापरः
मत्पुत्रश् च तथा व्यास ऋश्यशृङ्गश् च सप्तमः ॥

3.2.18

विष्णुप्रसादाद् अनघः पातालान्तरगोचरः
विरोचनसुतस् तेषां बलिर् इन्द्रो भविष्यति ॥

3.2.19

विरजाश् चार्वरीवंश् च निर्मोहाद्यास् तथापरे
सावर्णेस् तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥

3.2.20

नवमो दक्षसावर्णिर् मैत्रेय भविता मनुः ॥

3.2.21

पारा मरीचिगर्भाश् च सुधर्माणस् तथा त्रिधा
भविष्यन्ति तदा देवा एकैको द्वादशो गणः ॥

3.2.22

तेषाम् इन्द्रो महावीर्यो भविष्यत्य् अद्भुतो द्विज ॥

3.2.23

सवनो द्युतिमान् भव्यो वसुर् मेधातिथिस् तथा
ज्योतिष्मान् सप्तमः सत्यस् तत्रैते च महर्षयः ॥

3.2.24

धृतकेतुर् दीप्तिकेतुः पञ्चहस्तो निरामयः
पृथुश्रवाद्याश् च तथा दक्षसावर्णिकात्मजाः ॥

3.2.25

दशमो ब्रह्मसावर्णिर् भविष्यति मुने मनुः
सुधामानो विरुद्धाश् च शतसंख्यास् तथा सुराः ॥

3.2.26

तेषाम् इन्द्रश् च भविता शान्तिर् नाम महाबलः
सप्तर्षयो भविष्यन्ति ये तदा ताञ् छृणुष्व च ॥

3.2.27

हविष्मान् सुकृतिः सत्यो ह्य् अपांमूर्तिस् तथापरः
नाभागो ऽप्रतिमौजाश् च सत्यकेतुस् तथैव च ॥

3.2.28

सुक्षेत्रश् चोत्तमौजाश् च भूरिषेणादयो दश
ब्रह्मसावर्णिपुत्रास् तु रक्षिष्यन्ति वसुंधराम् ॥

3.2.29

एकादशश् च भविता धर्मसावर्णिको मनुः ॥

3.2.30

विहंगमाः कामगमा निर्माणरुचयस् तथा
गणास् त्व् एते तदा मुख्या देवानां च भविष्यताम्
एकैकस् त्रिंशकस् तेषां गणश् चेन्द्रश् च वै वृषः ॥

3.2.31

निश्चरश् चाग्नितेजाश् च वपुष्मान् विष्णुर् आरुणिः
हविष्मान् अनघश् चैते भव्याः सप्तर्षयस् तथा ॥

3.2.32

सर्वगः सर्वधर्मा च देवानीकादयस् तथा
भविष्यन्ति मनोस् तस्य तनयाः पृथिवीश्वराः ॥

3.2.33

रुद्रपुत्रस् तु सावर्णिर् भविता द्वादशो मनुः
ऋतधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥

3.2.34

हरिता लोहिता देवास् तथा सुमनसो द्विज
सुकर्माणः सुपाराश् च दशकाः पञ्च वै गणाः ॥

3.2.35

तपस्वी सुतपाश् चैव तपोमूर्तिस् तपोरतिः
तपोधृतिर् द्युतिश् चान्यः सप्तमस् तु तपोधनः ॥

3.2.36

देववान् उपदेवश् च देवश्रेष्ठादयस् तथा
मनोस् तस्य महावीर्या भविष्यन्ति सुता नृपाः ॥

3.2.37

त्रयोदशो रौच्यनामा भविष्यति मुने मनुः ॥

3.2.38

सुत्रामाणः सुकर्माणः सुधर्माणस् तथा सुराः
त्रयस् त्रिंशद्विभेदास् ते देवानां ये तु वै गणाः ॥

3.2.39

दिवस्पतिर् महावीर्यस् तेषाम् इन्द्रो भविष्यति ॥

3.2.40

निर्मोहस् तत्त्वदर्शी च निष्प्रकम्पो निरुत्सुकः
धृतिमान् अव्ययश् चान्यः सप्तमः सुतपा मुनिः
सप्तर्षयस् त्व् इमे तस्य पुत्रान् अपि निबोध मे ॥

3.2.41

चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥

3.2.42

भौत्यश् चतुर्दशश् चात्र मैत्रेय भविता मनुः
शुचिर् इन्द्रः सुरगणास् तत्र पञ्च शृणुष्व तान् ॥

3.2.43

चाक्षुषाश् च पवित्राश् च कनिष्ठा भ्राजिरास् तथा
वाचावृद्धाश् च वै देवाः सप्तर्षीन् अपि मे शृणु ॥

3.2.44

अग्निबाहुः शुचिः शुक्रो मागधो ऽग्नीध्र एव च
युक्तस् तथा जितश् चान्यो मनुपुत्रान् अतः शृणु ॥

3.2.45

ऊरुगम्भीरबुध्नाद्या मनोस् तस्य सुता नृपाः
कथिता मुनिशार्दूल पालयिष्यन्ति ये महीम् ॥

3.2.46

चतुर्युगान्ते वेदानां जायते किल विप्लवः
प्रवर्तयन्ति तान् एत्य भुवि सप्तर्षयो दिवः ॥

3.2.47

कृते कृते स्मृतेर् विप्र प्रणेता जायते मनुः
देवा यज्ञभुजस् ते तु यावन् मन्वन्तरं तु तत् ॥

3.2.48

भवन्ति ये मनोः पुत्रा यावन् मन्वन्तरं तु तैः
तदन्वयोद्भवैश् चैव तावद् भूः परिपाल्यते ॥

3.2.49

मनुः सप्तर्षयो देवा भूपालाश् च मनोः सुताः
मन्वन्तरे भवन्त्य् एते शक्रश् चैवाधिकारिणः ॥

3.2.50

चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज
सहस्रयुगपर्यन्तः कल्पो निःशेष उच्यते ॥

3.2.51

तावत्प्रमाणा च निशा ततो भवति सत्तम
ब्रह्मरूपधरः शेते शेषाहाव् अम्बुसंप्लवे ॥

3.2.52

त्रैलोक्यम् अखिलं ग्रस्त्वा भगवान् आदिकृद् विभुः
स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥

3.2.53

ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः
सृष्टिं करोत्य् अव्ययात्मा कल्पे कल्पे रजोगुणः ॥

3.2.54

मनवो भूभुजः सेन्द्रा देवाः सप्तर्षयस् तथा
सात्त्विको ऽंशः स्थितिकरो जगतो द्विजसत्तम ॥

3.2.55

चतुर्युगे ऽप्य् असौ विष्णुः स्थितिव्यापारलक्षणः
युगव्यवस्थां कुरुते यथा मैत्रेय तच् छृणु ॥

3.2.56

कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक्
ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥

3.2.57

चक्रवर्तिस्वरूपेण त्रेतायाम् अपि स प्रभुः
दुष्टानां निग्रहं कुर्वन् परिपाति जगत्त्रयम् ॥

3.2.58

वेदम् एकं चतुर्भेदं कृत्वा शाखाशतैर् विभुः
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥

3.2.59

वेदांस् तु द्वापरे व्यस्य कलेर् अन्ते पुनर् हरिः
कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः ॥

3.2.60

एवम् एष जगत् सर्वं परिपाति करोति च
हन्ति चान्तेष्व् अनन्तात्मा नास्त्य् अस्माद् व्यतिरेकि यत् ॥

3.2.61

भूतं भव्यं भविष्यं च सर्वभूतान् महात्मनः
तद् अत्रान्यत्र वा विप्र सद्भावः कथितस् तव ॥

3.2.62

मन्वन्तराण्य् अशेषाणि कथितानि मया तव
मन्वन्तराधिपांश् चैव किम् अन्यत् कथयामि ते ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc