विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.1
कथिता गुरुणा सम्यग् भूसमुद्रादिसंस्थितिः
सूर्यादीनां च संस्थानं ज्योतिषाम् अपि विस्तरात् ॥
देवादीनां तथा सृष्टिर् ऋषीणां चापि वर्णिता
चातुर्वर्ण्यस्य चोत्पत्तिस् तिर्यग्योनिगतस्य च ॥
ध्रुवप्रह्लादचरितं विस्तराच् च त्वयोदितम्
मन्वन्तराण्य् अशेषाणि श्रोतुम् इच्छाम्य् अनुक्रमात् ॥
मन्वन्तराधिपांश् चैव शक्रदेवपुरोगमान्
भवता कथितान् एताञ् श्रोतुम् इच्छाम्य् अहं गुरो ॥
अतीतानागतानीह यानि मन्वन्तराणि वै
तान्य् अहं भवते सम्यक् कथयामि यथाक्रमम् ॥
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा
उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा ॥
षड् एते मनवो ऽतीताः साम्प्रतं तु रवेः सुतः
वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम् ॥
स्वायंभुवं तु कथितं कल्पादाव् अन्तरं मया
देवास् तत्रर्षयश् चैव यथावत् कथिता मया ॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु
मन्वन्तराधिपान् सम्यग् देवर्षींस् तत्सुतांस् तथा ॥
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे
विपश्चित् तत्र देवेन्द्रो मैत्रेयासीन् महाबलः ॥
ऊर्जः स्तम्भस् तथा प्राणो दत्तोलिर् ऋषभस् तथा
निश्चरश् चार्वरीवांश् च तत्र सप्तर्षयो ऽभवन् ॥
चैत्रकिंपुरुषाद्याश् च सुताः स्वारोचिषस्य तु
द्वितीयम् एतत् कथितम् अन्तरं शृणु चोत्तरम् ॥
तृतीये ऽप्य् अन्तरे ब्रह्मन्न् उत्तमो नाम यो मनुः
सुशान्तिर् नाम देवेन्द्रो मैत्रेयाभूत् सुरेश्वरः ॥
सुधामानस् तथा सत्याः शिवाश् चासन् प्रतर्दनाः
वशवर्तिनश् च पञ्चैते गणा द्वादशकाः स्मृताः ॥
वसिष्ठतनयास् तत्र सप्त सप्तर्षयो ऽभवन्
अजः परशुदिव्याद्यास् तथोत्तममनोः सुताः ॥
तामसस्यान्तरे देवाः सुरूपा हरयस् तथा
सत्याश् च सुधियश् चैव सप्तविंशतिका गणाः ॥
शिबिर् इन्द्रस् तथा चासीच् शतयज्ञोपलक्षणः
सप्तर्षयश् च ये तेषां तत्र नामानि मे शृणु ॥
ज्योतिर्धामा पृथुः काव्यश् चैत्रो ऽग्निर् वनकस् तथा
पीवरश् चर्षयो ह्य् एते सप्त तत्रापि चान्तरे ॥
नरः ख्यातिः शान्तहयो जानुजङ्घादयस् तथा
पुत्रास् तु तामसस्यासन् राजानः सुमहाबलाः ॥
पञ्चमे चापि मैत्रेय रैवतो नाम नामतः
मनुर् विभुश् च तत्रेन्द्रो देवांश् चैवान्तरे शृणु ॥
अमिताभा भूतरया वैकुण्ठाः ससुमेधसः
एते देवगणास् तत्र चतुर्दश चतुर्दश ॥
हिरण्यरोमा वेदश्रीर् ऊर्ध्वबाहुस् तथापरः
वेदबाहुः सुधामा च पर्जन्यश् च महामुनिः
एते सप्तर्षयो विप्र तत्रासन् रैवते ऽन्तरे ॥
बलबन्धुः सुसंभाव्यः सत्यकाद्याश् च तत्सुताः
नरेन्द्राः सुमहावीर्या बभूवुर् मुनिसत्तम ॥
स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा
प्रियव्रतान्वया ह्य् एते चत्वारो मनवः स्मृताः ॥
विष्णुम् आराध्य तपसा स राजर्षिः प्रियव्रतः
मन्वन्तराधिपान् एतांल् लब्धवान् आत्मवंशजान् ॥
षष्ठे मन्वन्तरे चासीच् चाक्षुषाख्यस् तथा मनुः
मनोजवस् तथैवेन्द्रो देवान् अपि निबोध मे ॥
आप्याः प्रसूता भव्याश् च पृथुगाश् च दिवौकसः
महानुभावा लेखाश् च पञ्चैते ह्य् अष्टका गणाः ॥
सुमेधा विरजाश् चैव हविष्मान् उत्तमो मधुः
अतिनामा सहिष्णुश् च सप्तासन्न् इति चर्षयः ॥
ऊरुः पूरुः शतद्युम्न प्रमुखाः सुमहाबलाः
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन् ॥
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः
मनुः संवर्तते धीमान् साम्प्रतं सप्तमे ऽन्तरे ॥
आदित्यवसुरुद्राद्या देवाश् चात्र महामुने
पुरंदरस् तथैवात्र मैत्रेय त्रिदशेश्वरः ॥
वसिष्ठः काश्यपो ऽथात्रिर् जमदग्निः सगौतमः
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयो ऽत्र तु ॥
इक्ष्वाकुश् च नृगश् चैव धृष्टः शर्यातिर् एव च
नरिष्यन्तश् च विख्यातो नाभागो दिष्ट एव च ॥
करूषश् च पृषध्रश् च वसुमांल् लोकविश्रुतः
मनोर् वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥
विष्णुशक्तिर् अनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता
मन्वन्तरेष्व् अशेषेषु देवत्वेनाधितिष्ठति ॥
अंशेन तस्या जज्ञे ऽसौ यज्ञः स्वायंभुवे ऽन्तरे
आकूत्यां मानसो देव उत्पन्नः प्रथमे ऽन्तरे ॥
ततः पुनः स वै देवः प्राप्ते स्वारोचिषे ऽन्तरे
तुषितायां समुत्पन्नो ह्य् अजितस् तुषितैः सह ॥
औत्तमे ह्य् अन्तरे चापि तुषितस् तु पुनः स वै
सत्यायाम् अभवत् सत्यः सत्यैः सह सुरोत्तमैः ॥
तामसस्यान्तरे चैव संप्राप्ते पुनर् एव हि
हर्यायां हरिभिः सार्धं हरिर् एव बभूव ह ॥
रैवते ऽप्य् अन्तरे देवः संभूत्यां मानसो ऽभवत्
संभूतो राजसैः सार्धं देवैर् देववरो हरिः ॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः
विकुण्ठायाम् असौ जज्ञे वैकुण्ठैर् दैवतैः सह ॥
मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विज
वामनः कश्यपाद् विष्णुर् अदित्यां संबभूव ह ॥
त्रिभिः क्रमैर् इमांल् लोकाञ् जित्वा येन महात्मना
पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥
इत्य् एतास् तनवस् तस्य सप्त मन्वन्तरेषु वै
सप्तस्व् एवाभवन् विप्र याभिः संरक्षिताः प्रजाः ॥
यस्माद् विष्टम् इदं सर्वं तस्य शक्त्या महात्मनः
तस्मात् स प्रोच्यते विष्णुर् विशेर् धातोः प्रवेशनात् ॥
सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश् च
इन्द्रश् च यो यस् त्रिदशेशभूतो विष्णोर् अशेषास् तु विभूतयस् ताः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0