भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.17

3.17.1

इत्य् आह भगवान् और्वः सगराय महात्मने
सदाचारान् पुरा सम्यङ् मैत्रेय परिपृच्छते ॥

3.17.1*32:1

एवं नवभिर् अध्यायैस् त्रयीधर्मः प्रपञ्चितः ॥

3.17.1*32:2

तत्परित्यागनिन्दार्थम् अध्यायद्वयम् उत्तरम् ॥

3.17.2

मयाप्य् एतद् अशेषेण कथितं भवतो द्विज
समुल्लङ्घ्य सदाचारं कश्चिन् नाप्नोति शोभनम् ॥

3.17.3

षण्डापविद्धप्रमुखा विदिता भगवन् मया
उदक्याद्याश् च ये सर्वे नग्नम् इच्छामि वेदितुम् ॥

3.17.4

को नग्नः किंसमाचारो नग्नसंज्ञां नरो लभेत्
नग्नस्वरूपम् इच्छामि यथावत् गदितं त्वया ॥

3.17.4*33

श्रोतुं धर्मभृतां श्रेष्ठ न ह्य् अस्त्य् अविदितं तव ॥

3.17.5

ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर् द्विज
एताम् उज्झति यो मोहात् स नग्नः पातकी स्मृतः ॥

3.17.6

त्रयी समस्तवर्णानां द्विज संवरणं यतः
नग्नो भवत्य् उज्झितायाम् अतस् तस्याम् असंशयम् ॥

3.17.7

इदं च श्रूयताम् अन्यद् भीष्माय सुमहात्मने
कथयाम् आस धर्मज्ञो वसिष्ठो ऽस्मत्पितामहः ॥

3.17.8

मयापि तस्य गदतः श्रुतम् एतन् महात्मनः
नग्नसंबन्धि मैत्रेय यत् पृष्टो ऽहम् इह त्वया ॥

3.17.9

देवासुरम् अभूद् युद्धं दिव्यम् अब्दं पुरा द्विज
तस्मिन् पराजिता देवा दैत्यैर् ह्रादपुरोगमैः ॥

3.17.10

क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः
विष्णोर् आराधनार्थाय जगुश् चेमं स्तवं तदा ॥

3.17.11

आराधनाय लोकानां विष्णोर् ईशस्य यां गिरम्
वक्ष्यामो भगवान् आद्यस् तया विष्णुः प्रसीदतु ॥

3.17.12

यतो भूतान्य् अशेषाणि प्रसूतानि महात्मनः
यस्मिंश् च लयम् एष्यन्ति कस् तं संस्तोतुम् ईश्वरः ॥

3.17.13

तथाप्य् अरातिविध्वंस ध्वस्तवीर्या भवार्थिनः
त्वां स्तोष्यामस् तवोक्तीनां याथार्थ्यं नैव गोचरे ॥

3.17.14

त्वम् उर्वी सलिलं वह्निर् वायुर् आकाशम् एव च
समस्तम् अन्तःकरणं प्रधानं तत्परः पुमान् ॥

3.17.15

एकं तवैतद् भूतात्मन् मूर्तामूर्तमयं वपुः
आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत् ॥

3.17.16

तत्रेश तव यत् पूर्वं त्वन्नाभिकमलोद्भवम्
रूपं सर्गोपकाराय तस्मै ब्रह्मात्मने नमः ॥

3.17.17

शक्रार्करुद्रवस्वश्वि मरुत्सोमादिभेदवत्
वयम् एवं स्वरूपं ते तस्मै देवात्मने नमः ॥

3.17.18

दम्भप्रायम् असंबोधि तितिक्षादमवर्जितम्
यद् रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥

3.17.19

नातिज्ञानवहा यस्मिन् नाड्यः स्तिमिततेजसि
शब्दादिलोभि यत् तस्मै तुभ्यं यक्षात्मने नमः ॥

3.17.20

क्रौर्यमायामयं घोरं यच् च रूपं तवासितम्
निशाचरात्मने तस्मै नमस् ते पुरुषोत्तम ॥

3.17.21

स्वर्गस्थधर्मिसद्धर्म फलोपकरणं तव
धर्माख्यं च तथा रूपं नमस् तस्मै जनार्दन ॥

3.17.22

हर्षप्रायम् असंसर्गि गतिमद् गमनादिषु
सिद्धात्मंस् तव यद् रूपं तस्मै सिद्धात्मने नमः ॥

3.17.23

अतितिक्षाधनं क्रूरम् उपभोगसहं हरे
द्विजिह्वं तव यद् रूपं तस्मै सर्पात्मने नमः ॥

3.17.24

अवबोधि च यच् छान्तम् अदोषम् अपकल्मषम्
ऋषिरूपात्मने तस्मै विष्णो रूपाय ते नमः ॥

3.17.25

भक्षयत्य् अथ कल्पान्ते भूतानि यद् अवारितम्
त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः ॥

3.17.26

संभक्ष्य सर्वभूतानि देवादीन्य् अविशेषतः
नृत्यत्य् अन्ते च यद् रूपं तस्मै रुद्रात्मने नमः ॥

3.17.27

प्रवृत्त्या रजसो यच् च कर्मणां कारणात्मकम्
जनार्दन नमस् तस्मै त्वद्रूपाय नरात्मने ॥

3.17.28

अष्टाविंशद्वधोपेतं यद् रूपं तामसं तव
उन्मार्गगामि सर्वात्मंस् तस्मै पश्वात्मने नमः ॥

3.17.29

यज्ञाङ्गभूतं यद् रूपं जगतः सिद्धिसाधनम्
वृक्षादिभेदैर् यद् भेदि तस्मै मुख्यात्मने नमः ॥

3.17.30

तिर्यङ्मनुष्यदेवादि व्योमशब्दादिकं च यत्
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥

3.17.31

प्रधानबुद्ध्यादिमयाद् अशेषाद् यद् अन्यद् अस्मात् परमं परात्मन्
रूपं तवाद्यं न यद् अन्यतुल्यं तस्मै नमः कारणकारणाय ॥

3.17.32

शुक्लादिदीर्घादिघनादिहीनम् अगोचरे यच् च विशेषणानाम्
शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन् नताः स्मः ॥

3.17.33

यन् नः शरीरेषु यद् अन्यदेहेष्व् अशेषवस्तुष्व् अजम् अव्ययं यत्
यस्माच् च नान्यद् व्यतिरिक्तम् अस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥

3.17.34

सकलम् इदम् अजस्य यस्य रूपं परमपदात्मवतः सनातनस्य
तम् अनिधनम् अशेषबीजभूतं प्रभुम् अमलं प्रणताः स्म वासुदेवम् ॥

3.17.35

स्तोत्रस्यास्यावसाने तु ददृशुः परमेश्वरम्
शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥

3.17.36

तम् ऊचुः सकला देवाः प्रणिपातपुरःसरम्
प्रसीद देव दैत्येभ्यस् त्राहीति शरणार्थिनः ॥

3.17.37

त्रैलोक्यं यज्ञभागाश् च दैत्यैर् ह्रादपुरोगमैः
हृतं नो ब्रह्मणो ऽप्य् आज्ञाम् उल्लङ्घ्य परमेश्वर ॥

3.17.38

यद्य् अप्य् अशेषभूतस्य वयं ते च तवांशकाः
तथाप्य् अविद्याभेदेन भिन्नं पश्यामहे जगत् ॥

3.17.39

स्ववर्णधर्माभिरता वेदमार्गानुसारिणः
न शक्यास् ते ऽरयो हन्तुम् अस्माभिस् तपसान्विताः ॥

3.17.40

तम् उपायम् अशेषात्मन्न् अस्माकं दातुम् अर्हसि
येन तान् असुरान् हन्तुं भवेम भगवन् क्षमाः ॥

3.17.41

इत्य् उक्तो भगवांस् तेभ्यो मायामोहं शरीरतः
समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥

3.17.42

मायामोहो ऽयम् अखिलान् दैत्यांस् तान् मोहयिष्यति
ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥

3.17.43

स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः
ब्रह्मणो ह्य् अधिकारस्य देवा दैत्यादिकाः सुराः ॥

3.17.44

तद् गच्छत न भीः कार्या मायामोहो ऽयम् अग्रतः
गच्छत्व् अद्योपकाराय भवतां भविता सुराः ॥

3.17.45

इत्य् उक्ताः प्रणिपत्यैनं ययुर् देवा यथागतम्
मायामोहो ऽपि तैः सार्धं ययौ यत्र महासुराः ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc