विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.16
हविष्यमत्स्यमांसैस् तु शशस्य शकुनस्य च
सौकरच्छागलैणेय रौरवैर् गवयेन च ॥
औरभ्रगव्यैश् च तथा मासवृद्ध्या पितामहाः
प्रयान्ति तृप्तिं मांसैस् तु नित्यं वार्ध्रीणसाम् इषैः ॥
खड्गमांसम् अतीवात्र कालशाकं तथा मधु
शस्तानि कर्मण्य् अत्यन्त तृप्तिदानि नरेश्वर ॥
गयाम् उपेत्य यः श्राद्धं करोति पृथिवीपते
सफलं तस्य तज् जन्म जायते पितृतुष्टिदम् ॥
प्रसातिकाः सनीवाराः श्यामाका द्विविधास् तथा
वन्यौषधीप्रधानास् तु श्राद्धार्हाः पुरुषर्षभ ॥
यवाः प्रियंगवो मुद्गा गोधूमा व्रीहयस् तिलाः
निष्पावाः कोविदाराश् च सर्षपाश् चात्र शोभनाः ॥
अकृताग्रयणं यच् च धान्यजातं नरेश्वर
राजमाषान् अणूंश् चैव मसूरांश् च विवर्जयेत् ॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम्
गन्धारकं करम्भाणि लवणान्य् औषराणि च ॥
आरक्ताश् चैव निर्यासाः प्रत्यक्षलवणानि च
वर्ज्यान्य् एतानि वै श्राद्धे यच् च वाचा न शस्यते ॥
नक्ताहृतम् अनुत्सृष्टं तृप्यते न च यत्र गौः
दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव ॥
क्षीरम् एकशफानां यद् औष्ट्रम् आविकम् एव च
मार्गं च माहिषं चैव वर्जयेच् छ्राद्धकर्मणि ॥
षण्डापविद्धचण्डाल पाषण्ड्युन्मत्तरोगिभिः
कृकवाकुश्वनग्नैश् च वानरग्रामसूकरैः ॥
उदक्यासूतिकाशौचि मृतहारैश् च वीक्षिते
श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ ॥
तस्मात् परिश्रिते कुर्याच् श्राद्धं श्रद्धासमन्वितः
उर्व्यां च तिलविक्षेपाद् यातुधानान् निवारयेत् ॥
न पूति नैवोपपन्नं केशकीटादिभिर् नृप
न चैवाभिषवैर् मिश्रम् अन्नं पर्युषितं तथा ॥
श्रद्धासमन्वितैर् दत्तं पितृभ्यो नामगोत्रतः
यदाहारास् तु ते जातास् तदाहारत्वम् एति तत् ॥
श्रूयन्ते चापि पितृभिर् गीता गाथा महीपते
इक्ष्वाकोर् मनुपुत्रस्य कलापोपवने पुरा ॥
अपि नस् ते भविष्यन्ति कुले सन्मार्गशीलिनः
गयाम् उपेत्य ये पिण्डान् दास्यन्त्य् अस्माकम् आदरात् ॥
अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम्
पायसं मधुसर्पिभ्यां वर्षासु च मघासु च ॥
गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत्
यजेत वाश्वमेधेन विधिवद् दक्षिणावता ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0