भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.15

3.15.1

ब्राह्मणान् भोजयेच् छ्राद्धे यद्गुणांस् तान् निबोध मे ॥

3.15.2

त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित्
वेदविच् छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥

3.15.3

ऋत्विक्स्वस्रीयदौहित्र जामातृश्वशुरास् तथा
मातुलो ऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस् तथा
शिष्याः संबन्धिनश् चैव मातापितृरतश् च यः ॥

3.15.4

एतान् नियोजयेच् छ्राद्धे पूर्वोक्तान् प्रथमं नृप
ब्राह्मणान् पितृपुष्ट्यर्थम् अनुकल्पेष्व् अनन्तरान् ॥

3.15.5

मित्रध्रुक् कुनखी क्लीबः श्यावदन्तस् तथा द्विजः
कन्यादूषयिता वह्नि वेदोज्झः सोमविक्रयी ॥

3.15.6

अभिशस्तस् तथा स्तेनः पिशुनो ग्रामयाजकः
भृतकाध्यापकस् तद्वद् भृतकाध्यापितश् च यः ॥

3.15.7ab

परपूर्वापतिश् चैव मातापित्रोस् तथोज्झकः ॥

3.15.7ab*30

तथा भ्रातृपरित्यागी दूषकः सर्वनिन्दकः ॥

3.15.7cd

वृषलीसूतिपोष्टा च वृषलीपतिर् एव च ॥

3.15.8

तथा देवलकश् चैव श्राद्धे नार्हति केतनम् ॥

3.15.9

प्रथमे ऽह्नि बुधः शस्ताञ् श्रोत्रियादीन् निमन्त्रयेत्
कथयेच् च तदैवैषां नियोगान् पितृदैविकान् ॥

3.15.10

ततः क्रोधव्यवायादीन् आयासं च द्विजैः सह
यजमानो न कुर्वीत दोषस् तत्र महान् अयम् ॥

3.15.11

श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च
व्यवायी रेतसो गर्ते मज्जयत्य् आत्मनः पितॄन् ॥

3.15.12

तस्मात् प्रथमम् अत्रोक्तं द्विजाग्र्याणां निमन्त्रणम्
अनिमन्त्र्य द्विजान् गेहम् आगतान् भोजयेद् यतीन् ॥

3.15.13

पादशौचादिना गेहम् आगतान् पूजयेद् द्विजान् ॥

3.15.14

पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत्
पितॄणाम् अयुजो युग्मान् देवानाम् इच्छया द्विजान् ॥

3.15.15

देवानाम् एकम् एकं वा पितॄणां च नियोजयेत् ॥

3.15.16

तथा मातामहश्राद्धं वैश्वदेवसमन्वितम्
कुर्वीत भक्तिसंपन्नस् तन्त्रं वा वैश्वदेविकम् ॥

3.15.17

प्राङ्मुखान् भोजयेद् विप्रान् देवानाम् उभयात्मकान्
पितृपैतामहानां च भोजयेच् चाप्य् उदङ्मुखान् ॥

3.15.18

पृथक् तयोः केचिद् आहुः श्राद्धस्य करणं नृप
एकत्रैकेन पाकेन वदन्त्य् अन्ये महर्षयः ॥

3.15.19

विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घ्यं विधानतः
कुर्याद् आवाहनं प्राज्ञो देवानां तदनुज्ञया ॥

3.15.20

यवाम्बुना च देवानां दद्याद् अर्घ्यं विधानतः
स्रग्गन्धधूपदीपांश् च दत्त्वा तेभ्यो यथाविधि ॥

3.15.21

पितॄणाम् अपसव्यं तत् सर्वम् एवोपकल्पयेत्
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् ॥

3.15.22

मन्त्रपूर्वं पितॄणां तु कुर्याद् आवाहनं बुधः
तिलाम्बुना चापसव्यं दद्याद् अर्घ्यादिकं नृप ॥

3.15.23

काले तत्रातिथिं प्राप्तम् अन्नकामं नृपाध्वगम्
ब्राह्मणैर् अभ्यनुज्ञातः कामं तम् अपि भोजयेत् ॥

3.15.24

योगिनो विविधै रूपैर् नराणाम् उपकारिणः
भ्रमन्ति पृथिवीम् एताम् अविज्ञातस्वरूपिणः ॥

3.15.25

तस्माद् अभ्यर्चयेत् प्राप्तं श्राद्धकाले ऽतिथिं बुधः
श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितो ऽतिथिः ॥

3.15.26

जुहुयाद् व्यञ्जनक्षार वर्जम् अन्नं ततो ऽनले
अनुज्ञातो द्विजैस् तैस् तु त्रिकृत्वः पुरुषर्षभ ॥

3.15.27

अग्नये कव्यवाहाय स्वाहेत्य् आदौ नृपाहुतिः
सोमाय वै पितृमते दातव्या तदनन्तरम् ॥

3.15.28

वैवस्वताय चैवान्या तृतीया दीयते ततः
हुतावशिष्टम् अल्पाल्पं विप्रपात्रेषु निर्वपेत् ॥

3.15.29

ततो ऽन्नं मृष्टम् अत्यर्थम् अभीष्टम् अतिसंस्कृतम्
दत्त्वा जुषध्वम् इच्छातो वाच्यम् एतद् अनिष्ठुरम् ॥

3.15.30

भोक्तव्यं तैश् च तच्चित्तैर् मौनिभिः सुमुखैः सुखम्
अक्रुध्यता चात्वरता देयं तेनापि भक्तितः ॥

3.15.31

रक्षोघ्नमन्त्रपठनं भूमेर् आस्तरणं तिलैः
कृत्वा ध्येयाः स्वपितरस् त एव द्विजसत्तमाः ॥

3.15.32

पिता पितामहश् चैव तथैव प्रपितामहः
मम तृप्तिं प्रयान्त्व् अद्य विप्रदेहेषु संस्थिताः ॥

3.15.33

पिता पितामहश् चैव तथैव प्रपितामहः
मम तृप्तिं प्रयान्त्व् अग्नि होमाप्यायितमूर्तयः ॥

3.15.34

पिता पितामहश् चैव तथैव प्रपितामहः
तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥

3.15.35

पिता पितामहश् चैव तथैव प्रपितामहः
तृप्तिं प्रयान्तु मे भक्त्या यन् मयैतद् इहाहृतम् ॥

3.15.36

मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता तथान्यः
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥

3.15.37

यज्ञेश्वरो हव्यसमस्तकव्य भोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र
तत्संनिधानाद् अपयान्तु सद्यो रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

3.15.38

तृप्तेषु तेषु विकिरेद् अन्नं विप्रेषु भूतले
दद्याच् चाचमनार्थाय तेभ्यो वारि सकृत् सकृत् ॥

3.15.39

सुतृप्तैस् तैर् अनुज्ञातः सर्वेणान्नेन भूतले
सतिलेन ततः पिण्डान् सम्यग् दद्यात् समाहितः ॥

3.15.40

पितृतीर्थेन सलिलं दद्याद् अथ जलाञ्जलिम्
मातामहेभ्यस् तेनैव पिण्डांस् तीर्थेन निर्वपेत् ॥

3.15.40*31:1

दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥

3.15.40*31:2

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ॥

3.15.41

दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम्
स्वपित्रे प्रथमं पिण्डं दद्याद् उच्छिष्टसंनिधौ ॥

3.15.42

पितामहाय चैवान्यं तत्पित्रे च तथा परम्
दर्भमूले लेपभुजः प्रीणयेल् लेपघर्षणैः ॥

3.15.43

पिण्डैर् मातामहांस् तद्वद् गन्धमाल्यादिसंयुतैः
पूजयित्वा द्विजाग्र्याणां दद्याद् आचमनं ततः ॥

3.15.44

पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर
सुस्वधेत्य् आशिषा युक्तां दद्याच् छक्त्या च दक्षिणाम् ॥

3.15.45

दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान्
प्रीयन्ताम् इति ये विश्वे देवास् तेन इतीरयेत् ॥

3.15.46

तथेति चोक्ते तैर् विप्रैः प्रार्थनीयास् तथाशिषः
पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान् महामते ॥

3.15.47

मातामहानाम् अप्य् एवं सह देवैः क्रमः स्मृतः
भोजने च स्वशक्त्या च दाने तद्वद् विसर्जने ॥

3.15.48

आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु
विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै ॥

3.15.49

विसर्जयेत् प्रीतिवचः सन्मानाभ्यर्चितांस् ततः
निवर्तेताभ्यनुज्ञात आद्वारात् तान् अनुव्रजेत् ॥

3.15.50

ततस् तु वैश्वदेवाख्यां कुर्यान् नित्यक्रियां बुधः
भुञ्जीयाच् च समं पूज्य भृत्यबन्धुभिर् आत्मनः ॥

3.15.51

एवं श्राद्धं बुधः कुर्यात् पैत्रं मातामहं तथा
श्राद्धैर् आप्यायिता दद्युः सर्वकामान् पितामहाः ॥

3.15.52

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः
रजतस्य तथा दानं कथासंदर्शनादिकम् ॥

3.15.53

वर्ज्यानि कुर्वता श्राद्धं कोपो ऽध्वगमनं त्वरा
भोक्तुर् अप्य् अत्र राजेन्द्र त्रयम् एतन् न शस्यते ॥

3.15.54

विश्वेदेवाः सपितरस् तथा मातामहा नृप
कुलं चाप्याय्यते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥

3.15.55

सोमाधारः पितृगणो योगाधारश् च चन्द्रमाः
श्राद्धे योगिनियोगस् तु तस्माद् भूपाल शस्यते ॥

3.15.56

सहस्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः
सर्वान् भोक्तॄंस् तारयति यजमानं तथा नृप ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc