विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.14
ब्रह्मेन्द्ररुद्रनासत्य सूर्याग्निवसुमारुतान्
विश्वेदेवान् ऋषिगणान् वयांसि मनुजान् पशून् ॥
सरीसृपान् पितृगणान् यच् चान्यद् भूतसंज्ञितम्
श्राद्धं श्रद्धान्वितः कुर्वन् तर्पयत्य् अखिलं जगत् ॥
मासि मास्य् असिते पक्षे पञ्चदश्यां नरेश्वर
तथाष्टकासु कुर्वीत काम्यान् कालाञ् छृणुष्व मे ॥
श्राद्धार्हम् आगतं द्रव्यं विशिष्टम् अथवा द्विजम्
श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयने तथा ॥
विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः
समस्तेष्व् एव भूपाल राशिष्व् अर्के च गच्छति ॥
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥
अमावास्या यदा मैत्र विशाखास्वातियोगिनी
श्राद्धैः पितृगणस् तृप्तिं तथाप्नोत्य् अष्टवार्षिकीम् ॥
अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो ऽर्चिताः ॥
वासवाजैकपादर्क्षे पितॄणां तृप्तिम् इच्छताम्
वारुणे चाप्य् अमावास्या देवानाम् अपि दुर्लभा ॥
नवस्व् ऋक्षेष्व् अमावास्या यदैतेष्व् अवनीपते
तदा तृप्तिप्रदं श्राद्धं पितॄणां शृणु चापरम् ॥
गीतं सनत्कुमारेण यद्ऽइलाय महात्मने
पृच्छते पितृभक्ताय श्रद्धयावनताय च ॥
वैशाखमासस्य च या तृतीया नवम्य् असौ कार्त्तिकशुक्लपक्षे
नभस्यमासस्य तु कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
एता युगाद्यास् तिथयश् चतस्रो ऽप्य् अनन्तपुण्या नृप संप्रदिष्टाः ॥
द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये मुनयो विदुः ॥
शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥
युगाद्येषु युगान्तेषु दत्तम् अक्षयम् इष्यते ॥
उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ॥
चन्द्रक्षये माघवमासि यत्र दिनक्षये वै विषुवद्द्वयं च
मन्वन्तराद्यास् तिथयस् तथैव छायागजस्य व्यतिपातकालः ॥
पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः
श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति ॥
माघासिते पञ्चदशी कदाचिद् उपैति योगं यदि वारुणेन
ऋक्षेण कालः स परः पितॄणां न ह्य् अल्पपुण्यैर् नृप लभ्यते ऽसौ ॥
काले धनिष्ठा यदि नाम तस्मिन् भवन्ति भूपाल तदा पितृभ्यः
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर् मनुष्यैः ॥
तत्रैव चेद् भाद्रपदास् तु पूर्वाः काले तदा यत् क्रियते पितृभ्यः
श्राद्धं परां तृप्तिम् उपेत्य तेन युगं समग्रं पितरः स्वपन्ति ॥
गङ्गां शतद्रूम् अथ वा विपाशां सरस्वतीं नैमिषगोमतीं वा
ततो ऽवगाह्यार्चनम् आदरेण कृत्वा पितॄणां दुरितानि हन्ति ॥
गायन्ति चैतत् पितरः सदैव वर्षामघातृप्तिम् अवाप्य भूयः
माघासितान्ते शुभतीर्थतोयैर् यास्याम तृप्तिं तनयादिदत्तैः ॥
चित्तं च वित्तं च नृणां विशुद्धं शस्तश् च कालः कथितो विधिश् च
पात्रं यथोक्तं परमा च भक्तिर् नृणां प्रयच्छत्य् अभिवाञ्छितानि ॥
पितृगीतांस् तथैवात्र श्लोकांस् तांश् च शृणुष्व मे
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥
अपि धन्यः कुले जायाद् अस्माकं मतिमान् नरः
अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥
रत्नवस्त्रमहीयान महाभोगादिकं वसु
विभवे सति विप्रेभ्यो यो ऽस्मान् उद्दिश्य दास्यति ॥
अन्नेन वा यथाशक्त्या काले ऽस्मिन् भक्तिनम्रधीः
भोजयिष्यति विप्राग्र्यांस् तन्मात्रविभवो नरः ॥
असमर्थो ऽन्नदानस्य धान्यम् आमं स्वशक्तितः
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥
तत्राप्य् असामर्थ्ययुतः कराग्राग्रस्थितांस् तिलान्
प्रणम्य द्विजमुख्याय कस्मैचिद् भूप दास्यति ॥
तिलैः सप्ताष्टभिर् वापि समवेताञ् जलाञ्जलीन्
भक्तिनम्रः समुद्दिश्य भुव्य् अस्माकं प्रदास्यति ॥
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम्
अभावे प्रीणयन्न् अस्माञ् श्रद्धायुक्तः प्रदास्यति ॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः
सूर्यादिलोकपालानाम् इदम् उच्चैर् पठिष्यति ॥
न मे ऽस्ति वित्तं न धनं च नान्यच् छ्राद्धोपयोग्यं स्वपितॄन् नतो ऽस्मि
तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥
इत्य् एतत् पितृभिर् गीतं भावाभावप्रयोजनम्
यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0