विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.13
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते
जातकर्म तथा कुर्याच् श्राद्धम् अभ्युदये च यत् ॥
युग्मान् देवांश् च पित्र्यांश् च सम्यक् सव्यक्रमाद् द्विजान्
पूजयेद् भोजयेच् चैव तन्मना नान्यमानसः ॥
दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखो ऽपि वा
देवतीर्थेन वै पिण्डान् दद्यात् कायेन वा नृप ॥
नान्दीमुखः पितृगणस् तेन श्राद्धेन पार्थिव
प्रीयते तत् तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने
नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥
पितृपूजाक्रमः प्रोक्तो वृद्धाव् एष समासतः
श्रूयताम् अवनीपाल प्रेतकर्मक्रियाविधिः ॥
प्रेतदेहं शुभैः स्नानैः स्नापितं स्रग्विभूषितम्
दग्ध्वा ग्रामाद् बहिः स्नात्वा सचैलाः सलिलाशये ॥
यत्र तत्र स्थितायैतद् अमुकायेति वादिनः
दक्षिणाभिमुखा दद्युर् बान्धवाः सलिलाञ्जलिम् ॥
प्रविष्टाश् च समं गोभिर् ग्रामं नक्षत्रदर्शने
कटधर्मांस् ततः कुर्युर् भूमौ प्रस्तरशायिनः ॥
दातव्यो ऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव
दिवा च भक्तं भोक्तव्यम् अमांसं मनुजर्षभ ॥
दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम्
प्रेतस् तृप्तिं तथा याति बन्धुवर्गेण भुञ्जता ॥
प्रथमे ऽह्नि तृतीये च सप्तमे नवमे तथा
वस्त्रत्यागं बहिःस्नानं कृत्वा दद्यात् तिलोदकम् ॥
ततो ऽनुबन्धुवर्गस् तु भुवि दद्यात् तिलोदकम् ॥
चतुर्थे ऽह्नि च कर्तव्यं भस्मास्थिचयनं नृप
तदूर्ध्वम् अङ्गस्पर्शश् च सपिण्डानाम् अपीष्यते ॥
योग्याः सर्वक्रियाणां तु समानसलिलास् तथा
अनुलेपनपुष्पादि भोगाद् अन्यत्र पार्थिव ॥
शय्यासनोपभोगश् च सपिण्डानाम् अपीष्यते
भस्मास्थिचयनाद् ऊर्ध्वं संयोगो न तु योषिताम् ॥
बाले देशान्तरस्थे च पतिते च मुनौ मृते
सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु ॥
मृतबन्धोर् दशाहानि कुलस्यान्नं न भुज्यते
दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते ॥
विप्रस्यैतद् द्वादशाहं राजन्यस्याप्य् अशौचकम्
अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥
अयुजो भोजयेत् कामं द्विजान् आद्ये ततो दिने
दद्याद् दर्भेषु पिण्डं च प्रेतायोच्छिष्टसंनिधौ ॥
वार्यायुधप्रतोदास् तु दण्डश् च द्विजभोजनात्
स्प्रष्टव्यो ऽनन्तरं वर्णैः शुध्येरंस् ते ततः क्रमात् ॥
ततः स्ववर्णधर्मा ये विप्रादीनाम् उदाहृताः
तान् कुर्वीत पुमाञ् जीवेन् निजधर्मार्जनैस् तथा ॥
मृते ऽहनि च कर्तव्यम् एकोद्दिष्टम् अतः परम्
आह्वानादिक्रियादैव नियोगरहितं हि तत् ॥
एको ऽर्घ्यस् तत्र दातव्यस् तथैवैकं पवित्रकम्
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥
प्रश्नश् च तत्राभिरतिर् यजमानद्विजन्मनाम्
अक्षय्यम् अमुकस्येति वक्तव्यं विरतौ तथा ॥
एकोद्दिष्टमयो धर्म इत्थम् आवत्सरात् स्मृतः
सपिण्डीकरणं तस्मिन् काले राजेन्द्र तच् छृणु ॥
एकोद्दिष्टविधानेन कार्यं तद् अपि पार्थिव ॥
संवत्सरे ऽथ षष्ठे वा मासि वा द्वादशे ऽह्नि वा ॥
तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् ॥
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा
सेचयेत् पितृपात्रेषु प्रेतपात्रं नृप त्रिषु ॥
ततः पितृत्वम् आपन्ने तस्मिन् प्रेते महीपते
श्राद्धधर्मैर् अशेषैस् तु तत्पूर्वान् अर्चयेत् पितॄन् ॥
पुत्रः पौत्रः प्रपौत्रो वा बन्धुर् वा भ्रातृसंततिः
सपिण्डसंततिर् वापि क्रियार्हो नृप जायते ॥
तेषाम् अभावे सर्वेषां समानोदकसंततिः
मातृपक्षस्य पिण्डेन संबद्धा ये जलेन वा ॥
कुलद्वये ऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप
संघातान्तर्गतैर् वापि कार्याः प्रेतस्य याः क्रियाः
उत्सन्नबन्धुरिक्थानां कारयेद् अवनीपतिः ॥
पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः
त्रिःप्रकाराः क्रिया ह्य् एतास् तासां भेदं शृणुष्व मे ॥
आदाहवार्यायुधादि स्पर्शाद्यन्तास् तु याः क्रियाः
ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञिताः ॥
प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥
पितृमातृसपिण्डैस् तु समानसलिलैस् तथा
तत्संघातगतैश् चैव राज्ञा वा धनहारिणा ॥
पूर्वाः क्रियास् तु कर्तव्याः पुत्राद्यैर् एव चोत्तराः
दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा ॥
मृताहनि च कर्तव्याः स्त्रीणाम् अप्य् उत्तराः क्रियाः
प्रतिसंवत्सरं राजन्न् एकोद्दिष्टविधानतः ॥
तस्माद् उत्तरसंज्ञा याः क्रियास् ताः शृणु पार्थिव
यदा यदा च कर्तव्या विधिना येन चानघ ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0