भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.12

3.12.1

देवगोब्राह्मणान् सिद्ध वृद्धाचार्यांस् तथार्चयेत्
द्विकालं च नमेत् संध्याम् अग्नीन् उपचरेत् तथा ॥

3.12.2

सदानुपहते वस्त्रे प्रशस्ताश् च तथौषधीः
गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥

3.12.3

प्रस्निग्धामलकेशश् च सुगन्धश् चारुवेषधृक्
सिताः सुमनसो हृद्या बिभृयाच् च नरः सदा ॥

3.12.4

किंचित् परस्वं न हरेन् नाल्पम् अप्य् अप्रियं वदेत्
प्रियं च नानृतं ब्रूयान् नान्यदोषान् उदीरयेत् ॥

3.12.5

नान्यस्त्रियं तथा वैरं रोचयेत् पुरुषेश्वर
न दुष्टयानम् आरोहेत् कूलच्छायां न संश्रयेत् ॥

3.12.6

विद्विष्टपतितोन्मत्त बहुवैरादिकीटकैः
बन्धकीबन्धकीभर्तृ क्षुद्रानृतकथैः सह ॥

3.12.7

तथातिव्ययशीलैश् च परिवादरतैः शठैः
बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत् ॥

3.12.8

नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर
प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः ॥

3.12.9

न कुर्याद् दन्तसंघर्षं न कुष्णीयाच् च नासिकाम्
नासंवृतमुखो जृम्भेच् श्वासकासौ च वर्जयेत् ॥

3.12.10

नोच्चैर् हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः
नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत् ॥

3.12.11

न श्मश्रु भक्षयेल् लोष्टं न मृद् नीयाद् विचक्षणः
ज्योतींष्य् अमेध्यः शस्तानि नाभिवीक्षेत च प्रभो ॥

3.12.12

नग्नां परस्त्रियं चैव सूर्यं चास्तमनोदये
न हुंकुर्याच् छवं चैव शवगन्धो हि सोमजः ॥

3.12.13

चतुष्पथं चैत्यतरुं श्मशानोपवनानि च
दुष्टस्त्रीसंनिकर्षं च वर्जयेन् निशि सर्वदा ॥

3.12.14

पूज्यदेवद्विजज्योतिश् छायां नातिक्रमेद् बुधः
नैकः शून्याटवीं गच्छेन् न च शून्यगृहे वसेत् ॥

3.12.15

केशास्थिकण्टकामेध्य बलिभस्मतुषांस् तथा
स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥

3.12.16

नानार्यान् आश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः
उपसर्पेत न व्यालांश् चिरं तिष्ठेन् न चोत्थितः ॥

3.12.17

अतीव जागरस्वप्ने तद्वत् स्थानासने बुधः
न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥

3.12.18

दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत्
अवश्यायं च राजेन्द्र पुरो वातातपौ तथा ॥

3.12.19

न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः
मुक्तकच्छश् च नाचामेद् देवाद्यर्चां च वर्जयेत् ॥

3.12.20

होमदेवार्चनाद्यासु क्रियास्व् आचमने तथा
नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे ॥

3.12.21

नासमञ्जसशीलैस् तु सहासीत कदाचन
सद्वृत्तसंनिकर्षो हि क्षणार्धम् अपि शस्यते ॥

3.12.22

विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः
विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते ॥

3.12.23

नारभेत कलिं प्राज्ञः शुष्कवैरं च वर्जयेत्
अप्य् अल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत् ॥

3.12.24

स्नातो नाङ्गानि निर्मार्जेत् स्नानशाट्या न पाणिना
न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः ॥

3.12.25

पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत्
वीरासनं गुरोर् अग्रे भजेत विनयान्वितः ॥

3.12.26

अपसव्यं न गच्छेच् च देवागारचतुष्पथान्
माङ्गल्यपूज्यांश् च ततो विपरीतान् न दक्षिणम् ॥

3.12.27

सोमाग्न्यर्काम्बुवायूनां पूज्यानां च न संमुखम्
कुर्यात् ष्ठीवनविण्मूत्र समुत्सर्गं च पण्डितः ॥

3.12.28

तिष्ठन् न मूत्रयेत् तद्वत् पन्थानं नावमूत्रयेत्
श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥

3.12.29

श्लेष्मसिंहानकोत्सर्गो नान्नकाले प्रशस्यते
बलिमङ्गलजप्यादौ न होमे न महाजने ॥

3.12.30

योषितो नावमन्येत न चासां विश्वसेद् बुधः
न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन ॥

3.12.31

मङ्गल्यपुष्परत्नाज्य पूज्यान् अनभिवाद्य च
न निष्क्रमेद् गृहात् प्राज्ञः सदाचारपरो नृप ॥

3.12.32

चतुष्पथान् नमस् कुर्यात् काले होमपरो भवेत्
दीनान् अभ्युद्धरेत् साधून् उपासीत बहुश्रुतान् ॥

3.12.33

देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः
सत्कर्ता चातिथीनां यः स लोकान् उत्तमान् व्रजेत् ॥

3.12.33*24

एकाग्रचित्तस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य
अध्यात्मयोगे यतमानसस्य मोक्षो ध्रुवं नित्यम् अहिंसकस्य ॥

3.12.34

हितं मितं प्रियं काले वश्यात्मा यो ऽभिभाषते
स याति लोकान् आह्लाद हेतुभूतान् नृपाक्षयान् ॥

3.12.35

धीमान् ह्रीमान् क्षमायुक्त आस्तिको विनयान्वितः
विद्याभिजनवृद्धानां याति लोकान् अनुत्तमान् ॥

3.12.36

अकालगर्जितादौ तु पर्वस्व् आशौचकादिषु
अनध्यायं बुधः कुर्याद् उपरागादिके तथा ॥

3.12.37

शमं नयति यः क्रुद्धान् सर्वबन्धुर् अमत्सरी
भीताश्वासनकृत् साधुः स्वर्गस् तस्याल्पकं फलम् ॥

3.12.38

वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च
शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥

3.12.39

नोर्ध्वं न तिर्यग् दूरं वा निरीक्षन् पर्यटेद् बुधः
युगमात्रं महीपृष्ठं नरो गच्छेद् विलोकयन् ॥

3.12.40

दोषहेतून् अशेषांश् च वश्यात्मा यो निरस्यति
तस्य धर्मार्थकामानां हानिर् नाल्पापि जायते ॥

3.12.40*25

सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ॥

3.12.41

पापे ऽप्य् अपापः पुरुषे ऽप्य् अभिधत्ते प्रियाणि यः
मैत्रीद्रवान्तःकरणस् तस्य मुक्तिः करे स्थिता ॥

3.12.42

ये कामक्रोधलोभानां वीतरागा न गोचरे
सदाचारस्थितास् तेषाम् अनुभावैर् धृता मही ॥

3.12.43

तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम्
सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ॥

3.12.44

प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत्
श्रेयस् तत्र हितं वाक्यं यद्य् अप्य् अत्यन्तम् अप्रियम् ॥

3.12.45

प्राणिनाम् उपकाराय यद् एवेह परत्र च
कर्मणा मनसा वाचा तद् एव मतिमान् भजेत् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc