विष्णुपुराण (समीक्षित संस्करण) · अध्याय 3.11
गृहस्थस्य सदाचारं श्रोतुम् इच्छाम्य् अहं मुने
लोकाद् अस्मात् परस्माच् च यम् आतिष्ठन् न हीयते ॥
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम्
सदाचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥
साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः
तेषाम् आचरणं यत् तु सदाचारः स उच्यते ॥
सप्तर्षयो ऽथ मनवः प्रजानां पतयस् तथा
सदाचारस्य वक्तारः कर्तारश् च महीपते ॥
ब्राह्मे मुहूर्ते स्वस्थे च मानसे मतिमान् नृप
विबुद्धश् चिन्तयेद् धर्मम् अर्थं चास्याविरोधिनम् ॥
अपीडया तयोः कामम् उभयोर् अपि चिन्तयेत्
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता ॥
परित्यजेद् अर्थकामौ धर्मपीडाकरौ नृप
धर्मम् अप्य् असुखोदर्कं लोकविक्रुष्टम् एव च ॥
ततः कल्यं समुत्थाय कुर्यान् मैत्रं नरेश्वर ॥
नैरृत्याम् इषुविक्षेपम् अतीत्याभ्यधिकं भुवः
दूराद् आवसथान् मूत्रं पुरीषं च समुत्सृजेत् ॥
पादावसेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे ॥
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस् तथा
गुरुं द्विजातींश् च बुधो न मेहेत कदाचन ॥
न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि
न वर्त्मनि न नद्यादि तीर्थेषु पुरुषर्षभ ॥
नाप्सु नैवाम्भसस् तीरे श्मशाने न समाचरेत्
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥
तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः
तिष्ठेन् नातिचिरं तत्र नैव किंचिद् उदीरयेत् ॥
वल्मीकमूषिकोत्खातां मृदं नान्तर्जलां तथा
शौचावशिष्टां गेहाच् च नादद्याल् लेपसंभवाम् ॥
अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव
परित्यजेन् मृदश् चैताः सकलाः शौचसाधने ॥
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप ॥
.... .... उभयोर् मृद्वयं स्मृतम् ॥
पञ्चापाने गृहस्थस्य .... .... ॥
हस्तद्वये च सप्तान्या मृदः शौचोपपादिकाः ॥
अच्छेनागन्धफेनेन जलेनाबुद्बुदेन च
आचामेत मृदं भूयस् तथा दद्यात् समाहितः ॥
निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः
त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत् ॥
शीर्षण्यानि ततः खानि मूर्धानं च नृपालभेत्
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥
प्रक्षाल्य पादौ हस्तौ च त्रिः पिबेद् अम्बु वीक्षितम् ॥
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृजेत् ततो मुखम् ॥
संहताभिस् त्रिभिः पूर्वं सोष्टं तु समुपस्पृशेत् ॥
अङ्गुष्ठेन प्रदेशिन्या xxxxxxxx [लचुन] ॥
अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ॥
कनिष्ठाङ्गुष्ठतो नाभिं हृदयं तु तलेन वै ॥
सर्वाङ्गेषु शिरः पश्चाच् चाश्रेण [??] संस्पृशेद् इति ॥
स्वाचान्तश् च ततः कुर्यात् पुमान् केशप्रसाधनम्
आदर्शाञ्जनमाङ्गल्यं दुर्वाद्यालम्भनानि च ॥
ततः स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम्
कुर्वीत श्रद्धासंपन्नो यजेच् च पृथिवीपते ॥
सोमसंस्था हविःसंस्थाः पाकसंस्थाश् च संस्थिताः
धने यतो मनुष्याणां यतेतातो धनार्जने ॥
नदीनदतडागेषु देवखातजलेषु च
नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि
स्नायीतोद्धृततोयेन अथवा भुव्य् असंभवे ॥
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम्
तेषाम् एव हि तीर्थेन कुर्वीत सुसमाहितः ॥
त्रिर् अपः प्रीणनार्थाय देवानाम् अपवर्जयेत्
तथर्षीणां यथान्यायं सकृच् चापि प्रजापतेः ॥
पितॄणां प्रीणनार्थाय त्रिर् अपः पृथिवीपते
पितामहेभ्यश् च तथा प्रीणयेत् प्रपितामहान् ॥
मातामहाय तत्पित्रे तत्पित्रे च समाहितः
दद्यात् पैत्रेण तीर्थेन काम्यं चान्यच् छृणुष्व मे ॥
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप
गुरवे मातुलादीनां स्निग्धमित्राय भूभुजे ॥
इदं चापि जपेद् अम्बु दद्याद् आत्मेच्छया नृप
उपकाराय भूतानां कृतदेवादितर्पणः ॥
देवासुरास् तथा यक्षा नागा गन्धर्वराक्षसाः
पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः ॥
जलेचरा भूनिलया वाय्वाधाराश् च जन्तवः
तृप्तिम् एते प्रयान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥
ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः
ते तृप्तिम् अखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः ॥
यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम्
इदम् अप्य् अक्षयं चास्तु मया दत्तं तिलोदकम् ॥
काम्योदकप्रदानं ते मयैतत् कथितं नृप
यद् दत्त्वा प्रीणयेद् एतन् मनुष्यः सकलं जगत्
जगदाप्यायनोद्भूतं पुण्यम् आप्नोति चानघ ॥
दत्त्वा काम्योदकं सम्यग् एतेभ्यः श्रद्धयान्वितः
आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम् ॥
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे
जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥
ततो गृहार्चनं कुर्याद् अभीष्टसुरपूजनम्
जलाभिषेकपुष्पाणां धूपादेश् च निवेदनैः ॥
अपूर्वम् अग्निहोत्रं च कुर्यात् प्राग् ब्रह्मणे ततः ॥
प्रजापतिं समुद्दिश्य दद्याद् आहुतिम् आदरात्
गृहेभ्यः काश्यपायाथ ततो ऽनुमतये क्रमात् ॥
तच्छेषं मणिकेभ्यो ऽथ पर्जन्येभ्यः क्षिपेत् ततः
द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणः क्षिपेत् ॥
गृहस्य पुरुषव्याघ्र दिग्देवान् अपि मे शृणु ॥
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे
प्राच्यादिषु बुधो दद्याद् धुतशेषात्मकं बलिम् ॥
प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं बुधः
निर्वपेद् वैश्वदेवं च कर्म कुर्याद् अतः परम् ॥
वायव्ये वायवे दिक्षु समस्तासु ततो दिशाम्
ब्रह्मणे चान्तरिक्षाय भानवे च क्षिपेद् बलिम् ॥
विश्वेदेवान् विश्वभूतांस् तथा विश्वपतीन् पितॄन्
यक्ष्माणं च समुद्दिश्य बलिं दद्यान् नरेश्वर ॥
ततो ऽन्यद् अन्नम् आदाय भूमिभागे शुचौ बुधः
दद्याद् अशेषभूतेभ्यः स्वेच्छया तत्समाहितः ॥
देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः
प्रेताः पिशाचास् तरवः समस्ता ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥
पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः
प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥
येषां न माता न पिता न बन्धुर् नैवान्नसिद्धिर् न तदान्नम् अस्ति
तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु ॥
भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न यतो ऽन्यद् अस्ति
तस्माद् अहं भूतनिकायभूतम् अन्नं प्रयच्छामि भवाय तेषाम् ॥
चतुर्दशो भूतगणो य एष तत्र स्थिता ये ऽखिलभूतसङ्घाः
तृप्त्यर्थम् अन्नं हि मया निसृष्टं तेषाम् इदं ते मुदिता भवन्तु ॥
इत्य् उच्चार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः
भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥
श्वचण्डालविहंगानां भुवि दद्यात् ततो नरः
ये चान्ये पतिताः केचिद् अपात्रा भुवि मानवाः ॥
ततो गोदोहमात्रं वै कालं तिष्ठेद् गृहाङ्गणे
अतिथिग्रहणार्थाय तदूर्ध्वं वा यथेच्छया ॥
अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना
तथासनप्रदानेन पादप्रक्षालनेन च ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च
गच्छतश् चानुयानेन प्रीतिम् उत्पादयेद् गृही ॥
अज्ञातकुलनामानम् अन्यतः समुपागतम्
पूजयेद् अतिथिं सम्यङ् नैकग्रामनिवासिनम् ॥
अकिंचनम् असंबन्धम् अन्यदेशाद् उपागतम्
असंपूज्यातिथिं भुञ्जन् भोक्तुकामं व्रजत्य् अधः ॥
स्वाध्यायगोत्रचरणम् अपृष्ट्वा च तथा कुलम्
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥
पित्रर्थं चापरं विप्रम् एकम् अप्य् आशयेन् नृप
तद्देश्यं विदिताचार संभूतिं पाञ्चयज्ञिकम् ॥
अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम्
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥
दद्याच् च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम्
इच्छया च बुधो दद्याद् विभवे सत्य् अवारितम् ॥
इत्य् एते ऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश् च ये
चतुरः पूजयेद् एतान् नृयज्ञर्णात् प्रमुच्यते ॥
अतिथिर् यस्य भग्नाशो गृहाद् यात्य् अन्यतोमुखः
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥
धाता प्रजापतिः शक्रो वह्निर् वसुगणो ऽर्यमा
प्रविश्यातिथिम् एते वै भुञ्जन्ते ऽन्नं नरेश्वर ॥
ये च विष्णुपरा नित्यं ये च विखानसाश्रमाः ॥
पञ्चरात्रं विधानज्ञा ये च विष्णुपरायणाः ॥
विष्णुरूपधरा ये ते विष्णुम् एव समाश्रिताः ॥
सर्वो विष्णुमयो लोक इति मत्वा स्थिताश् च ये ॥
सर्व एते ह्य् अतिथयो मृष्या वै सार्वकालिकम् ॥
एतेषाम् एकम् अतिथिं पूजयेत् पुण्यलोकभाक् ॥
तस्माद् अतिथिपूजायां यतेत सततं नरः
स केवलम् अघं भुङ्क्ते यो भुङ्क्ते त्व् अतिथिं विना ॥
ततः सुवासिनीदुःखि गर्भिणीवृद्धबालकान्
भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते ऽतिदुष्कृतम्
मृतश् च नरकं गत्वा श्लेष्मभुग् जायते नरः ॥
अस्नाताशी मलं भुङ्क्ते ह्य् अजपी पूयशोणितम्
असंस्कृतान्नभुङ् मूत्रं बालादिप्रथमं शकृत् ॥
अभूताशी कृमिं भुङ्क्ते अदाता विषम् अश्नुते ॥
तस्माच् छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही
भुञ्जतश् च यथा पुंसः पापबन्धो न जायते ॥
इह चारोग्यम् अतुलं बलवृद्धिस् तथा नृप
भवत्य् अरिष्टशान्तिश् च वैरिपक्षाभिचारिका ॥
स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम्
प्रशस्तरत्नपाणिश् च भुञ्जीत प्रयतो गृही ॥
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप
दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च
पुण्यगन्धधरः शस्त माल्यधारी नरेश्वर ॥
नैकवस्त्रधरो ऽथार्द्र पाणिपादो नरेश्वर
विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥
न कुत्सिताहृतं नैव जुगुप्सावद् असंस्कृतम्
दत्त्वा तु भुक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही ॥
प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप ॥
नासन्दीसंस्थिते पात्रे नादेशे च नरेश्वर
नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरो ऽग्नये ॥
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप
अन्यत्र फलमांसेभ्यः शुष्कशाकादिकांस् तथा ॥
तद्वद् बादरिकेभ्यश् च गुडपक्वेभ्य एव च
भुञ्जीतोद्धृतसाराणि न कदाचिन् नरेश्वर ॥
नाशेषं पुरुषो ऽश्नीयाद् अन्यत्र जगतीपते
मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश् च विवेकवान् ॥
अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम्
लवणाम्लौ तथा मध्ये कटुतिक्तादिकं ततः ॥
प्राग् द्रवं पुरुषो ऽश्नन् वै मध्ये च कठिनाशनम्
पुनर् अन्ते द्रवाशी तु बलारोग्ये न मुञ्चति ॥
अनिन्द्यं भक्षयेद् इत्थं वाग्यतो ऽन्नम् अकुत्सयन्
पञ्चग्रासं महामौनं प्राणाद्याप्यायनाय तत् ॥
भुक्त्वा सम्यग् अथाचम्य प्राङ्मुखोदङ्मुखो ऽपि वा
यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः ॥
स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥
अग्निर् आप्याययत्व् अन्नं पार्थिवं पवनेरितः
दत्तावकाशं नभसा जरयत्व् अस्तु मे सुखम् ॥
अन्नं बलाय मे भूमेर् अपाम् अग्न्यनिलस्य च
भवत्व् एतत् परिणतौ ममास्त्व् अव्याहतं सुखम् ॥
प्राणापानसमानानाम् उदानव्यानयोस् तथा
अन्नं पुष्टिकरं चास्तु ममास्त्व् अव्याहतं सुखम् ॥
अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम्
सुखं च मे तत्परिणामसंभवं यच्छन्त्व् अरोगो मम चास्तु देहे ॥
देहेषु सर्वेषु यथा च देही .... ॥
विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यथैकः
सत्येन तेनान्नम् अशेषम् एतद् आरोग्यदं मे परिणामम् एतु ॥
विष्णुर् अत्ता तथैवान्नं परिणामश् च वै यथा
सत्येन तेन वै भुक्तं जीर्यत्व् अन्नम् इदं तथा ॥
इत्य् उच्चार्य स्वहस्तेन परिमृज्य तथोदरम्
अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥
सच्छास्त्रादिविनोदेन सन्मार्गाद् अविरोधिना
दिनं नयेत् ततः संध्याम् उपतिष्ठेत् समाहितः ॥
दिनान्तसंध्यां सूर्येण पूर्वाम् ऋक्षैर् युतां बुधः
उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव ॥
सर्वकालम् उपस्थानं संध्ययोः पार्थिवेष्यते
अन्यत्रसूतकाशौच विभ्रमातुरभीतितः ॥
सूर्येणाभ्युदितो यश् च त्यक्तः सूर्येण च स्वपन्
अन्यत्रातुरभावात् तु प्रायश्चित्तीयते नरः ॥
तस्माद् अनुदिते सूर्ये समुत्थाय महीपते
उपतिष्ठेन् नरः संध्याम् अस्वपंश् च दिनान्तजाम् ॥
उपतिष्ठन्ति ये संध्यां न पूर्वां न च पश्चिमाम्
व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप ॥
पुनः पाकम् उपादाय सायम् अप्य् अवनीपते
वैश्वदेवनिमित्तं वै पत्न्य् अमन्त्रं बलिं हरेत् ॥
तत्रापि श्वपचादिभ्यस् तथैवान्नापवर्जनम् ॥
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद् बुधः
पादशौचासनप्रह्व स्वागतोक्त्या च पूजनम्
ततश् चान्नप्रदानेन शयनेन च पार्थिव ॥
दिनातिथौ तु विमुखे गते यत् पातकं नृप
तद् एवाष्टगुणं पुंसां सूर्योढे विमुखे गते ॥
तस्मात् स्वशक्त्या राजेन्द्र सूर्योढम् अतिथिं नरः
पूजयेत् पूजिते तस्मिन् पूजिताः सर्वदेवताः ॥
अन्नशाकाम्बुदानेन स्वशक्त्या प्रीणयेत् पुमान्
शयनप्रस्तरमही प्रदानैर् अथवापि तम् ॥
कृतपादादिशौचश् च भुक्त्वा सायं ततो गृही
गच्छेद् अस्फुटितां शय्याम् अपि दारुमयीं नृप ॥
नाविशालां न वा भग्नां नासमां मलिनां न च
न च जन्तुमयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥
प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥
ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते
पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु ॥
नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम्
नानिष्टां न प्रकुपितां नाप्रशस्तां न गर्भिणीम् ॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम्
क्षुत्क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः ॥
स्नातः स्रग्गन्धधृक् प्रीतः नाध्मातः क्षुधितो ऽपि वा
सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत् ॥
चतुर्दश्य् अष्टमी चैव अमावास्याथ पूर्णिमा
पर्वाण्य् एतानि राजेन्द्र रविसंक्रान्तिर् एव च ॥
तैलस्त्रीमांससंभोगी पर्वस्व् एतेषु वै पुमान्
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥
अशेषपर्वस्व् एतेषु तस्मात् संयमिभिर् बुधैः
भाव्यं सच्छास्त्रदेवेज्या ध्यानजप्यपरैर् नरैः ॥
नान्ययोनाव् अयोनौ वा नोपयुक्तौषधस् तथा
देवद्विजगुरूणां च व्यवायी नाश्रये भवेत् ॥
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे
नैव श्मशानोपवने सलिलेषु महीपते ॥
प्रोक्तपर्वस्व् अशेषेषु नैव भूपाल संध्ययोः
गच्छेद् व्यवायं मतिमान् न मूत्रोच्चारपीडितः ॥
पर्वस्व् अभिगमो ऽधन्यो दिवा पापप्रदो नृप
भुवि रोगप्रदो नॄणाम् अप्रशस्तो जलाशये ॥
परदारान् न गच्छेत मनसापि कदाचन
किम् उ वाचास्थिबन्धो ऽपि नास्ति तेषु व्यवायिनाम् ॥
मृतो नरकम् अभ्येति हीयते ऽत्रापि चायुषः
परदाररतिः पुंसाम् उभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत्
यथोक्तदोषहीनेषु सकामेष्व् अनृताव् अपि ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0