विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.16
ऋभुर् वर्षसहस्रे तु समतीते नरेश्वर
निदाघज्ञानदानाय तद् एव नगरं ययौ ॥
नगरस्य बहिः सो ऽथ निदाघं ददृशे मुनिः
महाबलपरीवारे पुरं विशति पार्थिवे ॥
दूरे स्थितं महाभागं जनसंमर्दवर्जकम्
क्षुत्क्षामकण्ठम् आयान्तम् अरण्यात् ससमित्कुशम् ॥
दृष्ट्वा निदाघं स ऋभुर् उपगम्याभिवाद्य च
उवाच कस्माद् एकान्ते स्थीयते भवता द्विज ॥
भो विप्र जनसंमर्दो महान् एष नरेश्वरे
प्रविविक्षौ पुरं रम्यं तेनात्र स्थीयते मया ॥
नराधिपो ऽत्र कतमः कतमश् चेतरो जनः
कथ्यतां मे द्विजश्रेष्ठ त्वम् अभिज्ञो मतो मम ॥
यो ऽयं गजेन्द्रम् उन्मत्तम् अद्रिशृङ्गसमुच्छ्रितम्
अधिरूढो नरेन्द्रो ऽयं परिलोकस् तथेतरः ॥
एतौ हि गजराजानौ युगपद् दर्शितौ मम
भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥
तत् कथ्यतां महाभाग विशेषो भवतानयोः
ज्ञातुम् इच्छाम्य् अहं को ऽत्र गजः को वा नराधिपः ॥
गजो यो ऽयम् अधो ब्रह्मन्न् उपर्य् अस्यैव भूपतिः
वाह्यवाहकसंबन्धं को न जानाति वै द्विज ॥
जानाम्य् अहं यथा ब्रह्मंस् तथा माम् अवबोधय
अधःशब्दनिगद्यं किं किं चोर्ध्वम् अभिधीयते ॥
इत्य् उक्तः सहसारुह्य निदाघः प्राह तम् ऋभुम्
श्रूयतां कथयाम्य् एष यन् मां त्वं परिपृच्छसि ॥
उपर्य् अहं यथा राजा त्वम् अधः कुञ्जरो यथा
अवबोधाय ते ब्रह्मन् दृष्टान्तो दर्शितो मया ॥
त्वं राजेव द्विजश्रेष्ठ स्थितो ऽहं गजवद् यदि
तद् एव त्वं ममाचक्ष्व कतमस् त्वम् अहं तथा ॥
इत्य् उक्तः सत्वरस् तस्य प्रगृह्य चरणाव् उभौ
निदाघः प्राह भगवान् आचार्यस् त्वम् ऋभुर् ध्रुवम् ॥
नान्यस्याद्वैतसंस्कार संस्कृतं मानसं तथा
यथाचार्यस्य तेन त्वां मन्ये प्राप्तम् अहं गुरुम् ॥
तवोपदेशदानाय पूर्वशुश्रूषणादृतः
गुरुस् ते ऽहम् ऋभुर् नाम्ना निदाघ समुपागतः ॥
तद् एतद् उपदिष्टं ते संक्षेपेण महामते
परमार्थसारभूतं यद् अद्वैतम् अशेषतः ॥
एवम् उक्त्वा ययौ विद्वान् निदाघं स ऋभुर् गुरुः
निदाघो ऽप्य् उपदेशेन तेनाद्वैतपरो ऽभवत् ॥
सर्वभूतान्य् अभेदेन ददृशे स तदात्मनः
तथा ब्रह्म ततो मुक्तिम् अवाप परमां द्विजः ॥
तथा त्वम् अपि धर्मज्ञ तुल्यात्मरिपुबान्धवः
भव सर्वगतं जानन्न् आत्मानम् अवनीपते ॥
सितनीलादिभेदेन यथैकं दृश्यते नभः
भ्रान्तदृष्टिभिर् आत्मापि तथैकः सन् पृथक् पृथक् ॥
एकः समस्तं यद् इहास्ति किंचित् तद् अच्युतो वास्ति परं ततो ऽन्यत्
सो ऽहं स च त्वं स च सर्वम् एतद् आत्मस्वरूपं त्यज भेदमोहम् ॥
इतीरितस् तेन स राजवर्यस् तत्याज भेदं परमार्थदृष्टिः
स चापि जातिस्मरणाप्तबोधस् तत्रैव जन्मन्य् अपवर्गम् आप ॥
इति भरतनरेन्द्रसारवृत्तं कथयति यश् च शृणोति भक्तियुक्तः
स विमलमतिर् एति नात्ममोहं भवति च संसरणेषु मुक्तियोग्यः ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0