भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.8

2.8.1

व्याख्यातम् एतद् ब्रह्माण्ड संस्थानं तव सुव्रत
ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे ॥

2.8.2

योजनानां सहस्राणि भास्करस्य रथो नव
ईषादण्डस् तथैवास्य द्विगुणो मुनिसत्तम ॥

2.8.3

सार्धकोटिस् तथा सप्त नियुतान्य् अधिकानि वै
योजनानां तु तस्याक्षस् तत्र चक्रं प्रतिष्ठितम् ॥

2.8.4

त्रिनाभिमति पञ्चारे षण्णेमिन्य् अक्षयात्मके
संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥

2.8.5

चत्वारिंशत् सहस्राणि द्वितीयो ऽक्षो विवस्वतः
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥

2.8.6

अक्षप्रमाणम् उभयोः प्रमाणं तद्युगार्धयोः
ह्रस्वो ऽक्षस् तद्युगार्धं च ध्रुवाधारो रथस्य वै
द्वितीये ऽक्षे तु तच् चक्रं संस्थितं मानसाचले ॥

2.8.7

हयाश् च सप्त छन्दांसि तेषां नामानि मे शृणु
गायत्री च बृहत्य् उष्णिग् जगती त्रिष्टुब् एव च
अनुष्टुप् पङ्क्तिर् इत्य् उक्ताश् छन्दांसि हरयो रवेः ॥

2.8.8

मानसोत्तरशैले तु पूर्वतो वासवी पुरी
दक्षिणेन यमस्यान्या प्रतीच्यां वरुणस्य च
उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥

2.8.9

वस्वोकसारा शक्रस्य याम्या संयमनी तथा
पुरी सुखा जलेशस्य सोमस्य च विभावरी ॥

2.8.10

काष्ठां गतो दक्षिणतः क्षिप्तेषुर् इव सर्पति
मैत्रेय भगवान् भानुर् ज्योतिषां चक्रसंयुतः ॥

2.8.11

अहोरात्रव्यवस्थान कारणं भगवान् रविः
देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥

2.8.12

दिवसस्य रविर् मध्ये सर्वकालं व्यवस्थितः
सर्वद्वीपेषु मैत्रेय निशार्धस्य च संमुखः ॥

2.8.13

उदयास्तमने चैव सर्वकालं तु संमुखे
दिशास्व् अशेषासु तथा मैत्रेय विदिशासु च ॥

2.8.14

यैर् यत्र दृश्यते भास्वान् स तेषाम् उदयः स्मृतः
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥

2.8.15

नैवास्तमनम् अर्कस्य नोदयः सर्वदा सतः
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥

2.8.16

शक्रादीनां पुरे तिष्ठन् स्पृशत्य् एष पुरत्रयम्
विकर्णौ द्वौ विकर्णस्थस् त्रीन् कोणान् द्वे पुरे तथा ॥

2.8.17

उदितो वर्धमानाभिर् आमध्याह्नात् तपन् रविः
ततः परं ह्रसन्तीभिर् गोभिर् अस्तं नियच्छति ॥

2.8.18

उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ
यावत् पुरस्तात् तपति तावत् पृष्ठे च पार्श्वयोः ॥

2.8.19

ऋते ऽमरगिरेर् मेरोर् उपरि ब्रह्मणः सभाम्
ये ये मरीचयो ऽर्कस्य प्रयान्ति ब्रह्मणः सभाम्
ते ते निरस्तास् तद्भासा प्रतीपम् उपयान्ति वै ॥

2.8.20

तस्माद् दिश्य् उत्तरस्यां वै दिवारात्रिः सदैव हि
सर्वेषां द्वीपवर्षाणां मेरुर् उत्तरतो यतः ॥

2.8.21

प्रभा विवस्वतो रात्राव् अस्तं गच्छति भास्करे
विशत्य् अग्निम् अतो रात्रौ वह्निर् दूरात् प्रकाशते ॥

2.8.22

वह्निपादस् तथा भानुं दिनेष्व् आविशति द्विज
अतीव वह्निसंयोगाद् अतः सूर्यः प्रकाशते ॥

2.8.23

तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी
परस्परानुप्रवेशाद् आप्यायेते दिवानिशम् ॥

2.8.24

दक्षिणोत्तरभूम्यर्धे समुत्तिष्ठति भास्करे
अहोरात्रं विशत्य् अम्भस् तमःप्राकाश्यशीलवत् ॥

2.8.25

आताम्रा हि भवन्त्य् आपो दिवा नक्तप्रवेशनात्
दिनं विशति चैवाम्भो भास्करे ऽस्तम् उपागते
तस्माच् छुक्लीभवन्त्य् आपो नक्तम् अह्नः प्रवेशनात् ॥

2.8.26

एवं पुष्करमध्ये तु यदा याति दिवाकरः
त्रिंशद्भागं तु मेदिन्यास् तदा मौहूर्तिकी गतिः ॥

2.8.27

कुलालचक्रपर्यन्तो भ्रमन्न् एष दिवाकरः
करोत्य् अहस् तथा रात्रिं विमुञ्चन् मेदिनीं द्विज ॥

2.8.28

अयनस्योत्तरस्यादौ मकरं याति भास्करः
ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥

2.8.29

त्रिष्व् एतेष्व् अथ भुक्तेषु ततो वैषुवतीं गतिम्
प्रयाति सविता कुर्वन्न् अहोरात्रं ततः समम् ॥

2.8.30

ततो रात्रिः क्षयं याति वर्धते ऽनुदिनं दिनम् ॥

2.8.31

ततश् च मिथुनस्यान्ते परां काष्ठाम् उपागतः
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥

2.8.32

कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्तते
दक्षिणे प्रक्रमे सूर्यस् तथा शीघ्रं प्रवर्तते ॥

2.8.33

अतिवेगितया कालं वायुवेगगतिश् चरन्
तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥

2.8.34

सूर्यो द्वादशभिः शैघ्र्यान् मुहूर्तैर् दक्षिणायने
त्रयोदशार्धम् ऋक्षाणाम् अह्ना तु चरते द्विज
मुहूर्तैस् तावदृक्षाणि नक्तम् अष्टादशैश् चरन् ॥

2.8.35

कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥

2.8.36

तस्माद् दीर्घेण कालेन भूमिम् अल्पां तु गच्छति
अष्टादशमुहूर्तं यद् उत्तरायणपश्चिमम् ॥

2.8.37

अहर् भवति तत्रापि चरते मन्दविक्रमः ॥

2.8.38

त्रयोदशार्धम् अह्नैव ऋक्षाणां चरते रविः
मुहूर्तैस् तावदृक्षाणि रात्रौ द्वादशभिश् चरन् ॥

2.8.39

अधो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥

2.8.40

कुलालचक्रनाभिस् तु यथा तत्रैव वर्तते
ध्रुवस् तथा हि मैत्रेय तत्रैव परिवर्तते ॥

2.8.41

उभयोः काष्ठयोर् मध्ये भ्रमतो मण्डलानि च
दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥

2.8.42

मन्दाह्नि यस्मिन्न् अयने शीघ्रा नक्तं तदा गतिः
शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥

2.8.43

एकप्रमाणम् एवैष मार्गं याति दिवाकरः
अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज ॥

2.8.44

षड् एव राशयो भुङ्क्ते रात्राव् अन्यांश् च षड् दिवा ॥

2.8.45

राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने
तथा निशायां राशीनां प्रमाणैर् लघुदीर्घता ॥

2.8.46

दिनादेर् दीर्घह्रस्वत्वं तद्भोगेनैव जायते
उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर् दिवा ॥

2.8.47

दक्षिणे त्व् अयने चैव विपरीता विवस्वतः ॥

2.8.48

उषा रात्रिः समाख्याता व्युष्टिश् चाप्य् उच्यते दिनम्
प्रोच्यते च तथा संध्या उषाव्युष्ट्योर् यद् अन्तरम् ॥

2.8.49

संध्याकाले तु संप्राप्ते रौद्रे परमदारुणे
मन्देहा राक्षसा घोराः सूर्यम् इच्छन्ति खादितुम् ॥

2.8.50

प्रजापतिकृतः शापस् तेषां मैत्रेय रक्षसाम्
अक्षयत्वं शरीराणां मरणं च दिने दिने ॥

2.8.51

ततः सूर्यस्य तैर् युद्धं भवत्य् अत्यन्तदारुणम्
ततो द्विजोत्तमास् तोयं यत् क्षिपन्ति महामुने ॥

2.8.52

ओंकारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्
तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥

2.8.53

अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः
सूर्यो ज्योतिः सहस्रांशुस् तया दीप्यति भास्करः ॥

2.8.54

ओंकारो भगवान् विष्णुस् त्रिधामा वचसां पतिः
तदुच्चारणतस् ते तु विनाशं यान्ति राक्षसाः ॥

2.8.55

वैष्णवो ऽंशः परः सूर्यो यो ऽन्तर्ज्योतिर् असंप्लवम्
अभिधायक ओंकारस् तस्य स प्रेरकः परः ॥

2.8.56

तेन तत् प्रेरितं ज्योतिर् ओंकारेणाथ दीप्तिमत्
दहत्य् अशेषरक्षांसि मन्देहाख्यान्य् अघानि वै ॥

2.8.57

तस्मान् नोल्लङ्घनं कार्यं संध्योपासनकर्मणः
स हन्ति सूर्यं संध्याया नोपास्तिं कुरुते हि यः ॥

2.8.58

ततः प्रयाति भगवान् ब्राह्मणैर् अभिरक्षितः
वालखिल्यादिभिश् चैव जगतः पालनोद्यतः ॥

2.8.58*9:1

.... .... प्रभुर् वैखानसैर् अपि ॥

2.8.58*9:2

महात्मभिर् महात्मा वै .... .... ॥

2.8.59

काष्ठा निमेषा दश पञ्च चैव त्रिंशच् च काष्ठा गणयेत् कलां ताम्
त्रिंशत्कलाश् चैव भवेन् मुहूर्तस् तैस् त्रिंशता रात्र्यहनी समेते ॥

2.8.60

ह्रासवृद्धी त्व् अहर्भागैर् दिवसानां यथाक्रमम्
संध्या मुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥

2.8.61

रेखाप्रभृत्य् अथादित्ये त्रिमुहूर्तगते तु वै
प्रातः स्मृतस् ततः कालो भागश् चाह्नः स पञ्चमः ॥

2.8.62

तस्मात् प्रातस्तनात् कालात् त्रिमुहूर्तस् तु संगवः
मध्याह्नस् त्रिमुहूर्तस् तु तस्मात् कालात् तु संगवात् ॥

2.8.63

तस्मान् माध्याह्निकात् कालाद् अपराह्ण इति स्मृतः
त्रय एव मुहूर्तास् तु कालभागः स्मृतो बुधैः ॥

2.8.64

अपराह्णे व्यतीते तु कालः सायाह्न उच्यते
दशपञ्चमुहूर्ताहो मुहूर्तास् त्रय एव च ॥

2.8.65

दशपञ्चमुहूर्तं वै अहर् वैषुवतं स्मृतम् ॥

2.8.66

वर्धते ऽहो ह्रसति च अयने दक्षिणोत्तरे
अहस् तु ग्रसते रात्रिं रात्रिर् ग्रसति वासरम् ॥

2.8.67

शरद्वसन्तयोर् मध्ये विषुवं तु विभाव्यते
तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥

2.8.68

कर्कटावस्थिते भानौ दक्षिणायनम् उच्यते
उत्तरायणम् अप्य् उक्तं मकरस्थे दिवाकरे ॥

2.8.69

त्रिंशन्मुहूर्तं कथितम् अहोरात्रं तु यन् मया
तानि पञ्चदश ब्रह्मन् पक्ष इत्य् अभिधीयते ॥

2.8.70

मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजाव् ऋतुः
ऋतुत्रयं चाप्य् अयनं द्वे ऽयने वर्षसंज्ञिते ॥

2.8.71

संवत्सरादयः पञ्च चतुर्मासविकल्पिताः
निश्चयः सर्वकालस्य युगम् इत्य् अभिधीयते ॥

2.8.72

संवत्सरस् तु प्रथमो द्वितीयः परिवत्सरः
इद्वत्सरस् तृतीयस् तु चतुर्थश् चानुवत्सरः
वत्सरः पञ्चमश् चात्र कालो ऽयं युगसंज्ञितः ॥

2.8.73

यः श्वेतस्योत्तरे शैलः शृङ्गवान् इति विश्रुतः
त्रीणि तस्य तु शृङ्गाणि यैर् असौ शृङ्गवान् स्मृतः ॥

2.8.74

दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा
शरद्वसन्तयोर् मध्ये तद् भानुः प्रतिपद्यते
मेषादौ च तुलादौ च मैत्रेय विषुवत्स्थितः ॥

2.8.75

तदा तुल्यम् अहोरात्रं करोति तिमिरापहः
दशपञ्चमुहूर्तं वै तद् एतद् उभयं स्मृतम् ॥

2.8.76

प्रथमे कृत्तिकाभागे यदा भास्वांस् तदा शशी
विशाखानां चतुर्थे ऽंशे मुने तिष्ठत्य् असंशयम् ॥

2.8.77

विशाखानां यदा सूर्यश् चरत्य् अंशं तृतीयकम्
तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ॥

2.8.78

तदैव विषुवाख्यो वै कालः पुण्यो ऽभिधीयते
तदा दानानि देयानि देवेभ्यः प्रयतात्मभिः ॥

2.8.79

ब्राह्मणेभ्यः पितृभ्यश् च मुखम् एतत् तु दानजम्
दत्तदानस् तु विषुवे कृतकृत्यो ऽभिजायते ॥

2.8.80

अहोरात्रार्धमासौ तु कलाः काष्ठाः क्षणास् तथा
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च
सिनीवाली कुहूश् चैव राका चानुमतिस् तथा ॥

2.8.81

तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश् चायनम् उत्तरं स्यात्
नभो नभस्यो ऽथ इषश् च सोर्जः सहःसहस्याव् इति दक्षिणं स्यात् ॥

2.8.82

लोकालोकस् तु यः शैलः प्रागुक्तो भवतो मया
लोकपालास् तु चत्वारस् तत्र तिष्ठन्ति सुव्रताः ॥

2.8.83

सुधामा शङ्खपाच् चैव कर्दमस्यात्मजौ द्विज
हिरण्यरोमा चैवान्यश् चतुर्थः केतुमान् अपि ॥

2.8.84

निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः
लोकपालाः स्थिता ह्य् एते लोकालोके चतुर्दिशम् ॥

2.8.85

उत्तरं यद् अगस्त्यस्य अजवीथ्याश् च दक्षिणम्
पितृयानः स वै पन्था वैश्वानरपथाद् बहिः ॥

2.8.86

तत्रासते महात्मान ऋषयो ये ऽग्निहोत्रिणः
भूतारम्भकृतं ब्रह्म शंसन्त ऋत्विगुद्यताः
लोकारम्भं प्रारभन्ते तेषां पन्थाः स दक्षिणः ॥

2.8.87

चलितं ते पुनर् ब्रह्म स्थापयन्ति युगे युगे
संतत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥

2.8.88

जायमानास् तु पूर्वे तु पश्चिमानां गृहेषु वै
पश्चिमाश् चैव पूर्वेषां जायन्ते निधनेष्व् इह ॥

2.8.89

एवम् आवर्तमानास् ते तिष्ठन्त्य् आभूतसंप्लवात्
सवितुर् दक्षिणं मार्गं श्रिता ह्य् आचन्द्रतारकम् ॥

2.8.90

नागवीथ्युत्तरं यच् च सप्तर्षिभ्यश् च दक्षिणम्
उत्तरः सवितुः पन्था देवयानस् तु स स्मृतः ॥

2.8.91

तत्र ते वशिनः सिद्धा विमला ब्रह्मचारिणः
संततिं ते जुगुप्सन्ति तस्मान् मृत्युर् जितश् च तैः ॥

2.8.92

अष्टाशीतिसहस्राणि यतीनाम् ऊर्ध्वरेतसाम्
उदक्पन्थानम् अर्यम्णः श्रिता ह्य् आभूतसंप्लवात् ॥

2.8.93

ते ऽसंप्रयोगाल् लोभस्य मैथुनस्य च वर्जनात्
इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥

2.8.94

पुनश् चाकामसंयोगाच् शब्दादेर् दोषदर्शनात्
इत्य् एभिः कारणैः शुद्धास् ते ऽमृतत्वं हि भेजिरे ॥

2.8.95

आभूतसंप्लवं स्थानम् अमृतत्वं विभाव्यते
त्रैलोक्यस्थितिकालो ऽयम् अपुनर्मार उच्यते ॥

2.8.96

ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः
आभूतसंप्लवान्तान्तं फलम् उक्तं तयोर् द्विज ॥

2.8.97

यावन्मात्रप्रदेशे तु मैत्रेयावस्थितो ध्रुवः
क्षयम् आयाति तावत् तु भूमेर् आभूतसंप्लवे ॥

2.8.98

ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ध्रुवो यत्र व्यवस्थितः
एतद् विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥

2.8.99

निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम्
स्थानं तत् परमं विप्र पुण्यपापपरिक्षये ॥

2.8.100

अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः
यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ॥

2.8.101

धर्मध्रुवाद्यास् तिष्ठन्ति यत्र ते लोकसाक्षिणः
तत्सार्ष्ट्योत्पन्नयोगेद्धास् तद् विष्णोः परमं पदम् ॥

2.8.102

यत्रोतम् एतत् प्रोतं च यद् भूतं सचराचरम्
भाव्यं च विश्वं मैत्रेय तद् विष्णोः परमं पदम् ॥

2.8.103

दिवीव चक्षुर् आततं विततं यन् महात्मनाम्
विवेकज्ञानदृष्टं च तद् विष्णोः परमं पदम् ॥

2.8.104

यस्मिन् प्रतिष्ठितो भास्वान् मेढीभूतः स्वयं ध्रुवः
ध्रुवे च सर्वज्योतींषि ज्योतिष्व् अम्भोमुचो द्विज ॥

2.8.105

मेघेषु संतता वृष्टिर् वृष्टेः सृष्टेश् च पोषणम्
आप्यायनं च सर्वेषां देवादीनां महामुने ॥

2.8.106

ततश् चाज्याहुतिद्वारा पोषितास् ते हविर्भुजः
वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥

2.8.107

एवम् एतत् पदं विष्णोस् तृतीयम् अमलात्मकम्
आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥

2.8.108

ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित्
गङ्गा देवाङ्गनाङ्गानाम् अनुलेपनपिञ्जरा ॥

2.8.109

वामपादाम्बुजाङ्गुष्ठ नखस्रोतोविनिर्गताम्
विष्णोर् बिभर्ति यां भक्त्या शिरसाहर्निशं ध्रुवः ॥

2.8.110

ततः सप्तर्षयो यस्याः प्राणायामपरायणाः
तिष्ठन्ति वीचिमालाभिर् उह्यमानजटाजले ॥

2.8.111

वार्योघैः संततैर् यस्याः प्लावितं शशिमण्डलम्
भूयो ऽधिकतरां कान्तिं वहत्य् एतद् उपक्षयम् ॥

2.8.112

मेरुपृष्ठे पतत्य् उच्चैर् निष्क्रान्ता शशिमण्डलात्
जगतः पावनार्थाय या प्रयाति चतुर्दिशम् ॥

2.8.113

सीता चालकनन्दा च चक्षुर् भद्रा च संस्थिता
एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥

2.8.114

भेदं चालकनन्दाख्यं यस्याः शर्वो ऽपि दक्षिणम्
दधार शिरसा प्रीत्या वर्षाणाम् अधिकं शतम् ॥

2.8.115

शम्भोर् जटाकलापाच् च विनिष्क्रान्तास्थिशर्करान्
प्लावयित्वा दिवं निन्ये या पापान् सगरात्मजान् ॥

2.8.116

स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति
अपूर्वपुण्यप्राप्तिश् च सद्यो मैत्रेय जायते ॥

2.8.117

दत्ताः पितृभ्यो यत्रापस् तनयैः श्रद्धयान्वितैः
समात्रयं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥

2.8.118

यस्याम् इष्ट्वा महायज्ञैर् यज्ञेशं पुरुषोत्तमम्
द्विजभूपाः पराम् ऋद्धिम् अवापुर् दिवि चेह च ॥

2.8.119

स्नानाद् विधूतपापाश् च यज्जले यतयस् तथा
केशवासक्तमनसः प्राप्ता निर्वाणम् उत्तमम् ॥

2.8.120

श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता
या पावयति भूतानि कीर्तिता च दिने दिने ॥

2.8.121

गङ्गा गङ्गेति यन् नाम योजनानां शतेष्व् अपि
स्थितैर् उच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥

2.8.122

यतः सा पावनायालं त्रयाणां जगताम् अपि
समुद्भूता परं तत् तु तृतीयं भगवत्पदम् ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc