भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुपुराण (समीक्षित संस्करण) · अध्याय 2.7

2.7.1

कथितं भवता ब्रह्मन् ममैतद् अखिलं त्वया
भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छाम्य् अहं मुने ॥

2.7.2

तथैव ग्रहसंस्थानं प्रमाणानि यथातथम्
समाचक्ष्व महाभाग मह्यं त्वं परिपृच्छते ॥

2.7.3

रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥

2.7.4

यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात्
नभस् तावत्प्रमाणं वै व्यासमण्डलतो द्विज ॥

2.7.5

भूमेर् योजनलक्षे तु सौरं मैत्रेय मण्डलम्
लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥

2.7.6

पूर्णे शतसहस्रे तु योजनानां निशाकरात्
नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते ॥

2.7.7

द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात्
तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः ॥

2.7.8

अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः
लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥

2.7.9

सौरिर् बृहस्पतेश् चोर्ध्वं द्विलक्षे समवस्थितः
सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तम ॥

2.7.10

ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥

2.7.11

त्रैलोक्यम् एतत् कथितम् उत्सेधेन महामुने
इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता ॥

2.7.12

ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः
एकयोजनकोटी तु महर्लोको ऽभिधीयते ॥

2.7.13

द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः
सनन्दनाद्याः कथिता मैत्रेयामलचेतसः ॥

2.7.14

चतुर्गुणोत्तरे चोर्ध्वं जनलोकात् तपः स्मृतः
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥

2.7.15

षड्गुणेन तपोलोकात् सत्यलोको विराजते
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥

2.7.16

पादगम्यं तु यत् किंचिद् वस्त्व् अस्ति पृथिवीमयम्
स भूर्लोकः समाख्यातो विस्तरो ऽस्य मयोदितः ॥

2.7.17

भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम्
भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तम ॥

2.7.18

ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश
स्वर्लोकः सो ऽपि गदितो लोकसंस्थानचिन्तकैः ॥

2.7.19

त्रैलोक्यम् एतत् कृतकं मैत्रेय परिपठ्यते
जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम् ॥

2.7.20

कृतकाकृतयोर् मध्ये महर्लोक इति स्मृतः
शून्यो भवति कल्पान्ते यो ऽत्यन्तं न विनश्यति ॥

2.7.21

एते सप्त मया लोका मैत्रेय कथितास् तव
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥

2.7.22

एतद् अण्डकटाहेन तिर्यक् चोर्ध्वम् अधस् तथा
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥

2.7.23

दशोत्तरेण पयसा मैत्रेयाण्डं च तद् वृतम्
सर्वो ऽम्बुपरिधानो ऽसौ वह्निना वेष्टितो बहिः ॥

2.7.24

वह्निश् च वायुना वायुर् मैत्रेय नभसा वृतः
भूतादिना नभः सो ऽपि महता परिवेष्टितः
दशोत्तराण्य् अशेषाणि मैत्रेयैतानि सप्त वै ॥

2.7.25

महान्तं च समावृत्य प्रधानं समवस्थितम्
अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते ॥

2.7.26

तद् अनन्तम् असंख्यात प्रमाणं चापि वै यतः
हेतुभूतम् अशेषस्य प्रकृतिः सा परा मुने ॥

2.7.27

अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च
ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥

2.7.28

दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् अपि
प्रधाने ऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥

2.7.29

प्रधानं च पुमांश् चैव सर्वभूतात्मभूतया
विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥

2.7.30

तयोः सैव पृथग्भाव कारणं संश्रयस्य च
क्षोभकारणभूता च सर्गकाले महामते ॥

2.7.31

यथा सक्तं जले वातो बिभर्ति कणिकाशतम्
शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥

2.7.32

यथा च पादपो मूल स्कन्धशाखादिसंयुतः
आदिबीजात् प्रभवति बीजान्य् अन्यानि वै ततः ॥

2.7.33

प्रभवन्ति ततस् तेभ्यः संभवन्त्य् अपरे द्रुमाः
ते ऽपि तल्लक्षणद्रव्य कारणानुगता मुने ॥

2.7.34

एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः
विशेषान्तास् ततस् तेभ्यः संभवन्ति सुरादयः
तेभ्यश् च पुत्रास् तेषां च पुत्राणाम् अपरे सुताः ॥

2.7.35

बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः
भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा ॥

2.7.36

संनिधानाद् यथाकाश कालाद्याः कारणं तरोः
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥

2.7.37

व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा
काण्डकोषस् तथा पुष्पं क्षीरं तद्वच् च तण्डुलाः ॥

2.7.38

तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः
प्ररोहहेतुसामग्रीम् आसाद्य मुनिसत्तम ॥

2.7.39

तथा कर्मस्व् अनेकेषु देवाद्याः समवस्थिताः
विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै ॥

2.7.40

स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत्
जगच् च यो यत्र चेदं यस्मिंश् च लयम् एष्यति ॥

2.7.41

तद् ब्रह्म तत् परं धाम सदसत्परमं पदम्
यस्य सर्वम् अभेदेन जगद् एतच् चराचरम् ॥

2.7.42

स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः
तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति ॥

2.7.43

कर्ता क्रियाणां स च इज्यते क्रतुः स एव तत्कर्मफलं च तस्य यत्
स्रुगादि यत् साधनम् अप्य् अशेषतो हरेर् न किंचिद् व्यतिरिक्तम् अस्ति वै ॥

मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc